________________ सद्दबंभवाइ 381 - अभिधानराजेन्द्रः - भाग 7 सदबंभवाइ दर्शनस्र सारूप्यसाधनमयुक्तं भवेत्। अथार्थलेशमात्रानुकारि स्मरण तथापि स्वलक्षणविषयत्वं रमरणस्य सर्वथा तदनुकारित्वमविकल्पकरयाप्गसिद्धम्, अन्यथा तस्य जडतापत्तिरिति प्रतिपादनात् / तथा च- 'विकल्पो वस्तुनिर्भासाद्विसंवादादुपप्लव' इत्युक्ततया व्यवस्थितम्। अथ न लेशतोऽपि परमार्थस्तदनुकारी विकल्पः प्रतिपत्रभिप्रायवशात्तु तदभिधानमिति न स्वलक्षणगोचरत्वं निर्विकल्पकस्यापि व्यवहार्यभिप्रायवशत्तदनुकारित्वं न परमार्थतः “सर्वमालम्बने भ्रान्तम्" इत्यभिधानात् : ननु किमिति न परमार्थतोऽपि तदनुकारि तत्? सामान्यावभासादिति चेत्, नन्वसावपि कुतः? अनाद्यसत्यविकल्पवासनातः, नन्वेव न दर्शनं विकल्पजनकमिति, "यत्रैव जनयेदेना, वाऽस्य प्रभाणतः" इत्यसंगतवचो भवेत्। नच तद्वासनाप्रबोधविधायकत्वेन तदपि तद्धेतुः इन्द्रियार्थसन्निधानस्यैव तत्प्रबोधहेतुत्वात्। नच वासनाप्रभवत्वेनाक्ष जस्य भान्ततैवं भवेत् अर्थस्यापि कारणत्वेनानुमानवत् प्रमाणत्वात्। नच निर्विषयत्वाद् व्यवसायस्याऽप्रामाण्यम् अनुमानस्यापि तत्प्रसस्तेः प्रत्यक्षप्रभवविकल्पवत् तस्याप्यवस्तुसामान्यगोचरत्वात न च तद्ग्राह्यविषयस्यावस्तुत्वेऽप्यध्यवसेयस्य स्वलक्षणत्वात्। दृश्यविकल्पा (ल्प्या) वथविकीकृत्य ततः प्रवृत्तेरनुमानस्य प्रामाण्यं, प्रकृतविकल्पेऽप्यस्य समानत्वात् / अन्यथा-- “पक्षधर्मतोनिश्चयः प्रत्यक्षतः वचित्" इति कथं वचो युक्तं भवेत्?न च गृहीतग्रहणाद्विकल्पोऽप्रमाणं क्षणक्षयानुमानस्यापि तत्प्रसक्तेः, शब्दस्वरूपावभास्यध्यक्षावगतक्षणक्षय विषयत्वात् / नचाध्यक्षेण धर्मिस्वरूपग्राहिणा शब्दग्रहणेऽपि न क्षणक्षयग्रहणं विरुद्धधर्माध्यासतस्तदभेदप्रसक्तेः / प्रज्ञाकराभिप्रायेण तुलिङ्ग-लिङ्गिनोः साकल्येन योगिप्रत्यक्षतो व्याप्तिग्रहणे अनभ्यासदशायां प्राप्ये भाविन्यनधिगतार्थाधिगन्तृत्वाभावादनुमानं प्रमाण न भवेत् / अथानिर्णीतमनुमेयं निश्चिन्वत् प्रमाणमनुमानं तहनिश्चित नील निश्चिन्वन् विकल्पस्तथाविधः किं न प्रमाणम्? अथ समारोपव्यवच्छदकरणादनुमान प्रमाण तर्हि नीलविकल्पोऽपि तत एव प्रमाण भवेत् / न च सादृश्यादेव समारोपोयेन तत्राऽनीलसमारोपो न भवेत् किं तु-स्वागमाहितविकल्पाभ्यासवासनातोऽपि यथा- 'सर्वं सत्मिकम' इति साङ्यस्य एवं च नीलेऽनीलात्मकत्वसमारोपं व्यवच्छिन्दानो विकल्पः क्षणक्षयानुमानवत कथं न प्रमाणम्? दृश्यन्ते हि शुक्तिकारज्ज्वादिषु रजतसदिसमारोपास्तथाभूतविक-ल्पवशालिङ्गानुस्मरणमन्दरेणाऽपि निवर्तमानाः / अथ भवत्वसौ विकल्पः प्रमाणम, न च प्रमाणान्तरम् अनुमाने- | ऽन्तर्भावात्, न, अनभ्यासदशायां भाविनि प्रवर्तकत्वादनुमान प्रमाण मिष्टम, तच निश्चितत्रिरूपालिङ्गादुपजायते, निश्चयस्य चानुमानान्तवि त्रैरुप्यनिश्चयोऽप्यनुमानं तदपि निश्चितत्रैरुप्याहिङ्गात्प्रवर्तत इत्यनवस्थानात् अनुमानाप्रवृत्तिरेवेति कुतो विकल्परय तत्रान्तर्भावः? अथ पक्षधर्मान्वयव्यतिरेकनिश्चायक लिङ्गग्य नानुमानं तर्हि प्रमाणान्तरस्याभावादध्यक्ष निर्णयात्मकं पक्षधर्मत्वादिनिश्च यः सिद्धः। अत एव– 'अनभ्याशदशायामनुमानम' 'अभ्यासदशायां तु दर्शनमेव प्रमाणम् न च तृतीयादशा विद्यते यस्यां | विकल्प प्रमाणं भवेत्' इति निरस्तम् अनभ्यासदशायामनुमानस्यैवतमन्तरेणाऽप्रवृत्तेस्तदपेक्षस्यैव तस्य प्रमाणत्वात् / न च भवतु प्रत्यक्षानुमानव्यतिरिक्तो विकल्पः तथापि न तदपेक्षं दर्शन प्रमाण स्वत एव तस्य प्रमाणत्वात् / अन्यथा विकल्पस्यापि विकल्पान्तरापेक्षया प्रमाणत्यादनवस्था दुष्परिहारा / अर्थविषयीकरणाद्विकल्पस्यायनिरपेक्षस्य प्रामाण्ये निर्विकल्पस्यापि तथैव प्रामाण्यं भविष्यतीति किं विकल्पापेक्षयेति वक्तव्यम्? यतः--संशयविपर्ययोत्पादकमपि दर्शनमवं प्रमाणं स्यात् / तथा च- तत्राप्यर्थ - क्रियार्थी प्रवर्तेत / अथ 'जले जलमेतत्' इति निर्णयविधायि प्रमाण तर्हि सिद्ध विकल्पापेक्षण तस्येति वरं विकल्प एव प्रमाणमभ्युगतस्तस्यैव प्रवृत्त्यादिव्यवहारसाधकतमत्वात् / यदपि 'अभ्यासदशायां दर्शनमेव विकल्पनिरपेक्षं प्रमाणम्' इति तत्र वक्तव्यं तत्प्रमाणम्? प्राप्ये भाविनि रूपादाविति चेततस्याविषयीकरणे तेनाऽयुक्तम् अन्यथा नीलज्ञानं पीते प्रमाणं स्याद्विषयीकरणे भावि विषयत्वं तस्यैव भवेत् तथा च'वर्तमानावभासि सर्व प्रत्यक्षम्' इति विरुध्येत। अथ वर्तमानविषयमपि भाविनि प्रवृत्तिविधानप्रमाण, न, अविषयीकृते प्रवर्तकत्वासंभवात् प्रवर्तकत्वेवा,शाब्दमपि सामान्यमात्रविषयं विशेष प्रवृत्ति विधारयतीति न मीमांसकमतप्रतिक्षेपो युक्तः / यदि वा (चा)-विषयेऽपि कुतश्चि निमित्ताद् ज्ञानं प्रवर्तकं तर्हि प्रत्यक्षपृष्ठभाविसामान्यमात्राध्यवसायिविकल्पस्य विशेषे प्रवर्तकत्वं भविष्यतीति न युक्तम् 'दृश्यविकल्प (ल्प्य) योरर्थयोरेकीकरणं तत्र प्रवृत्तिनिमित्तम्' इत्यभिधानम् / तन्न प्राप्ये तत्प्रमाणम् / दृश्यप्राप्ययो रेकत्वे तत्प्रमाणमिति चेत्कुत एतत्? व्यवहारिणां तत्राऽविसंवादाभिनायाद् अविसंवादि च ज्ञानं प्रमाणम् / तदुक्तम्- “प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थिति-रविसंवादनम्" इति चेत; ननु तदेकत्व कस्य विषयः? दर्शनस्येति चेत्, न तस्य सामान्यविषयतया सविकल्पकत्वप्रसक्तेः / विकल्परयेति चेत्, न; अभ्यासदशायां विकल्पस्याऽनभ्युपगमात् / कथं च दृश्यप्राप्ययोरे कत्वं विकल्पस्यैव विषयों नाविकल्पस्य एकत्वस्यायोगादिति चेत् कथं विकल्पविषयः? अवस्तुविषयत्वात्तस्येति चेत्, दर्शनस्य को विषयः? दृश्यमानक्षणमात्रमिति चेत् ननु यदि तत्संचितपरमाऽणुस्वभावं तत्र दर्शने प्रतिभाति तदा सविकल्पत्वमिति प्राक् प्रतिपादितम्। विविक्तैकैकपरमाणुरूपं चेत्सर्वशून्यताप्राप्तेन काचिदभ्यासदशा यस्यां दर्शनं प्रमाण विकल्पविकलं भवेत् / यथा चानेकपरमाण्वाकारमेकं ज्ञान तथा-- दृश्यप्राप्ययोर्घटादिकमेकमिति तद्विषयं परमार्थतोऽभ्यासदशायां सविकल्पमध्यक्ष किमिति नाभ्युपगम्यते? अथाऽशक्यविवेचनत्वाचित्रप्रतिभासाऽप्येकैव बुद्धिः घटादिकस्तु चित्रो नैकस्तद्वि-- पर्ययात्: ननु किमिदं बुद्धेरशक्यविवेधनत्वम् ? यदि सहोत्पत्तिविनाशी तदन्याननुभवो वा तदभ्युपगम्यते तदैकक्षणभाविसन्तानान्तरज्ञानेषु भिन्नरूपतयोपगतेष्वपि तस्य भावादिन्यनैकान्तिको हेतुः / अथ सन्तानान्तराज्यपि नाभ्युपगम्यन्ते कथमवस्थादगाभ्युपगमः? व्यवहारेण तदभ्युपगमे तथैव स ताननानात्वोपगमादकान्तिकन्वं तदवाथ