________________ सदबंभवाइ 376 - अभिधानराजेन्द्रः - भाग 7 सदबंभवाइ शादतदुत्पन्नमतदाकारं च तत्तद्विषयीकरोति अक्षसमनन्तरविशेपात,अन्यस्थाप्युपजातस्य तथा स्वविषयीकरणप्रसक्तेः सर्वत्र तदाकारतदुत्पतिप्रतिबन्धकल्पनावैयर्थ्य प्रसक्तेः / अतस्तदाकारविषयीकरणासंभवाद्विकल्प्या भावतो दृश्य विकल्प्याधविकीकृत्य प्रवर्त्तत इत्युक्तमभिधानम् / ततो न बलवान् विकल्प इति कथं तेनाऽदिकल्पतिरस्कार इति अविकल्पकनिश्चयस्तदेव भवेत् नचैवम्-अतो ना विकल्पस्य विकल्पेन एकत्वाऽध्यवसायः / किंच-- विकल्पेऽविकल्पकस्यकत्वेनाध्यारोप इति कुतो निश्वीयते? अस्पष्टा- 1 स्वलक्षणग्राहिणि स्पष्ट स्वलक्षणग्राहित्वस्य प्रतीते स्तदध्यारापावगतिरिति चेत्, ननु यदि नाम तत्र तत्प्रतीतिः अविकल्पारोपस्तु कुतः? स्पष्टत्वादेरतद्धर्भस्य, तत्र दर्शनादिति चेत्, तद्धर्मः स्पष्टत्वादिरित्येतदेव कुतः? तत्र दर्शनादिति चेत्, अत एव विकल्पधोऽप्यस्तु अन्यथा विकल्पस्यापि मा भूत् / न च विकल्पव्यतिरेकेणाविकल्पमपरमनुभूयते यस्य स्पष्टत्वादिधर्मः परिकल्पेत एवमपि तत्र तत्परिकल्पने ततोऽप्यपरमननुभूयमानं विशदत्वादिधर्माधारं परिकल्पनीयमिति अनवस्थाप्रसक्तिः / अथ किंचित् ज्ञानं सविकल्पकमपरं निर्विकल्पक राश्यन्तराभावाद्विकल्पस्य चाऽर्थसामोदूतत्वासंभवान्न विशदत्वादिधर्मयोगः अविकल्पस्यापि तद्योगाभावे विशदत्वादिक न चिदपि भवेदित्यविकल्पस्येव तदभ्युपगन्तव्यम् / भवेदेतद्याद्यर्थसामर्थ्यप्रभवत्वेन वेशद्यादेयाप्तिः स्यात्तदभावे तन्न भवेत् / न चैवम्अर्थसामोद्भूतऽपि दूरस्थितपादपादिज्ञाने वैशद्यादेरभावाद्योगिप्रत्यक्ष चार्थप्रभवत्वाभावेऽपि च भावात् / न च तदप्यर्थसामोद्भूत तत्समानसमयस्य चिराऽतीतत्वादनुत्पन्नस्य चार्थस्य तद्ग्रहणानुपपत्तेः / तथाहि-प्रागसर्वज्ञःसन सुगतो विवक्षितक्षणे सर्वज्ञतामासादयंस्तत्समानसमयभाविना भावानाम्-तज्ज्ञानं प्रति अजनकत्वात्तेपांग्राहको न स्यात्, एवमुत्तरोत्तरतदविज्ञानक्षणा अपि स्वसमयार्थग्राहकान भवेयुः। चिरतरविनष्टस्य च भावकलापस्यासत्त्वेन तदकारणत्वान्न तं प्रति दाहकता भवेत्। अनुत्पन्नस्य च पदार्थसमूहस्य कारणत्वाऽसभवात्त प्रति ग्राहकता तस्य दूरोत्सारितैव। अथ चिरातीत भावि च तत्कारणमभ्युपगम्यत इति नाय दोषः; नन्वत्राऽप्यऽभ्युपगमे येन स्वभावेन तदनन्तरभाविकार्यमुत्पादयति तेनेव यदि सुगतज्ञान-मिदानीतनकालभावि जनयति तदैकस्वभावत्वान्नित्यादिवत कार्य-क्रमायोगात पूर्वमेवैतदप्युत्पद्येत। अथ समनन्तरप्रत्ययस्य सुगतज्ञानहेतोरिदानीमेय भावान्न पूर्वमुत्पत्तिः, असदेतत्, यत आलम्बनकारण चिरातीतसमयभावि तदेव तत्कार्यमुत्पादयितुं प्रभवति समनन्तरप्रत्ययस्त्विदानीभिति विरुद्धकारणसामर्थ्यानुविधायिनः कार्यस्योत्पत्तिरेय न भवेत्। अथान्येन स्वभावेन तर्हि सांशं तत्प्रसज्यत इति तदग्राहिणोऽपि ज्ञानस्य सांशेकवस्तुग्राहकत्वेन सविकल्पकताप्रसक्तिः / एवं भाविकारणेऽपि वक्तव्यम् / तन्न योगिप्रत्यक्षमर्थसामर्थ्यप्रभवमभ्युपगन्तव्यम, अन्यथा ईक्तदोषप्रसक्तेः / तच तदप्रभवमपि यथा विशदम-अन्यथा प्रत्यक्षत्वानुपपत्तेः-तथा विकल्पज्ञानमर्थसामर्थ्याप्रभवमपि यदि विशद मतदा को विराधः? विकल्पस्य वैशद्यमेव विरोधः / तदुक्तम् ... "न विकल्पानुबुद्धस्य, स्पष्टार्थप्रतिभासिता। स्वप्नेऽपि स्मयत स्मार्त, न ('न च तत् तादृगर्थदृग।' पाटान्तरे।) च तत्ताविरोधकृत् // 1 // " इति चेत्, ननु स्वप्नावस्थायां पुरोवर्तिहस्त्याद्यवभासक ज्ञानमनुभूयते, अपरं तु स्मरणज्ञानम्। तत्र पूर्वोल्लेखतापजायमानस्य यदि वैशद्यवैकल्यं नैतावता सर्वविकल्पस्य पुरोवर्तिस्तम्भाधु-ल्लेखवतो वैशद्याभावस्तत्र तस्य स्वसंवदेनाध्यक्षतः प्रतीतः। न चाविकल्पकतदिति वक्तव्यं स्थिरस्थूरपुरोव्यवस्थितहस्त्याद्यवभासिनः स्वप्नदशाज्ञानस्याविकल्पकत्वे अनुमानस्यापि सांशवस्त्वध्यवसायिनो निर्विकल्पकत्वप्रसक्तेः विकल्पवार्ता-विरतिरेव स्यात् / अत एव- 'प्रथम निर्विकल्पकं निरंशवस्तुग्राहकं तदर्थसामोद्भूतत्वात् तदुत्तरकालभावि तु निर्विकल्पज्ञानप्रभवमर्थनिरपेक्षं सांशवस्त्वध्यवसायि सविकल्पकमशविदम, लघुवृत्तेस्तु निर्निकल्पकज्ञानवैशद्याध्यारोपात्, तत्राध्यक्षत्वाभिमानो लोकस्य' इति, एतदपि निरस्तं द्रष्टव्यम् / विकल्प एव पूर्वोक्तन्यायेन वैशद्योपपत्तेः, निर्विकल्पकस्य च निरंशक्षणिकपरमाणुमात्रावसायिनः कदाचिदप्यनुपलब्धेस्तत्र वैशद्यकल्पनाया दूरापास्तत्वात् / अथ संहृतसकलविकल्पावऽस्थायां पुरोवतिवस्तुनिर्भासि विशदमक्षप्रभवं ज्ञानमविकल्पकं संवेद्यत एव तथा चाध्यक्षसिद्ध एव ज्ञानानां कल्पनाविरह इति नात्र प्रमाणन्तरान्वेषणमुपयोगि। तदुक्तम्- 'प्रत्यक्ष कल्पनापोढ, प्रत्यक्षेणैव सिद्धयति।' इत्यादि / तथा पुनरप्युक्तम्“सहृत्य सर्वतश्चिन्ता, स्तिमितेनान्तरात्मना। स्थितोऽपि चक्षुषा रूपं, वीक्षते साऽक्षजा मतिः / / 1 / / " न हास्यामवस्थाया नामादिसयोजितार्थो ल्लखो विकल्पस्वरूपोऽनुभूयते / न च विकल्पानां स्वसंविदितरूपतयाऽननुभूयमानानामपि संभव इति विकल्पविकला साऽवस्था सिद्धा, असदेतत्; यतस्तस्यामवस्थायां स्थिरस्थूरस्वभावशब्दसंसर्गयोग्यपुरोव्यवस्थितगवादिप्रतिभासस्याऽनुभूतेः सविकल्पकज्ञानानुभव एव। न हि शब्दसंसर्गप्रतिभास एव सविकल्पकत्वं तद्योग्यावभासस्यापि कल्पनात्वाभ्युपगमात्, अन्यथा व्युत्पन्नसंकेतस्य ज्ञानं शब्दसंसर्गविरहात कल्पनावन्न स्यात्। नच पूर्वकालदृष्टत्वस्य वर्तमानसमयभाविनि संयोजनाच्छब्दोल्लेखाभावेऽप्यसदर्थग्राहितयाऽविशदप्रतिभासत्वात् तत् सविकल्पकम, पूर्वकालदृष्टत्वस्य पूर्वदर्शनाप्रतीतावपि व्यापकाप्रतीतो व्याप्यस्येव प्रतीत रसत्त्वाऽसिद्धः तत्सम्बन्धित्वग्राहिणोऽसदासिद्धेशद्याभावस्य तत्रानुपपत्तेः / शब्दसंसर्गयोग्यप्रतिभासस्य विशदतया विकल्परूपस्याप्यध्यक्षतोपपत्तेः शब्दयोजनामन्तरेणापि स्थिरस्थूरार्थप्रतिभास निर्णयात्मकं ज्ञानमध्यक्षमभ्युपगन्तव्यम्, अन्यथा तस्य प्रामाण्यमेवानुपपन्नं भवेत्। तथाहि-यत्रैवांशे नीलाऽऽदौ विधिप्रतिषेधविकल्पद्वयं पाश्चात्यं तज्जनयति तत्रैव तस्य प्रामाण्यं तदाकारोत्पत्तिमात्रेण प्रामाण्ये क्षणिकत्वादावपि तस्य प्रामाण्यप्रसक्तेः क्षणक्षयानुमानवैफल्यमन्यथा भवेत् विकल्पश्च शब्दसंयोजितार्थग्रहणम् तत्संयोजनाच शब्दस्मरणमन्तरेणासंभविनी तत्स्मरणं च प्रावतनसन्निध्युपल