________________ सद्दबंभवाइ 372 - अभिधानराजेन्द्रः - भाग 7 सद्दबंभवाइ न तत्त्वं तथापि न तन्नास्ति, न हि तीक्ष्णांशुकरनिकरोपहतदृशा गर्भगृहाधनुप्रवेशानन्तरमप्रतिभासगाना अपि घटादयो भावाः स्वस्थीभूतनेत्राणां न प्रतिभान्ति, न च प्रागप्रतिभासनान्न सन्ति यथा च राहकारिधशात् पूर्वम प्रतिभाता अपि पश्चात्प्रतिभान्ति / तथाऽत्राप्यायदर्शनं शुद्धार्थावभासि यद्यपि तत्त्वं नानुभवति रम-- रणसहायाक्षप्रभवा तु प्रत्यभिज्ञातदनुभविष्यतीति। नतत्त्वस्याऽसत्त्वम् नाप्यक्षान्वयध्यतिरेकानुविधायिनी प्रत्यभिज्ञान प्रत्यक्षमिति / अवाच्यते- यद्यक्षप्रभवा संविदाद्या न तत्त्वमवभासयति पश्चादपि तदविषयत्वान्नाऽवभासयेत् / यथा ह्यक्षमविषयत्वान्नेकत्वे प्रतिपत्ति विदधाति तथा रमरणराहकृतमपि न तत्र ता विधास्यति अविपयथाऽविशेषात, न हि परिमलरमरणसहायमपि लोचनं गधे प्रतिपतिक दुपलब्धमिति न तत्त्वग्रहणमध्यक्षात्। किं च-किकुर्वाणा स्मृतिरिन्द्रियस्य सहकारित्वं प्रतिपद्यते? पूर्वाधरस्य ढोकनमिति चेत, ननु विनष्टऽप्यर्थे स्मृतिरुदयन्ती दृष्टति कथं तत्सन्निधापित पौर्वापर्य प्रवर्त्तमाना अध्यक्षधीः सत्यार्था भवेत्? अथ यदुपरतं वरतु तद्ग्राहिणी बुद्धिर्न सत्या-ऽर्थग्राहिणीति युक्तम्, अनुपरतं त्वर्थमवगच्छन्ती कथं सा न सल्यार्था? अयुक्तमेतत: यतः--स्मर्यमाणस्थार्थत्यानुपरतिः कुलोऽवगता? न स्मरणाद्व्युपरतेऽपि स्मृतिपरत्वे प्रवृत्तेरित्युक्तत्वात् / नच स्मरणोपनी तपौर्वापर्यस्य दर्शन प्रतिभासनात्तदप्रच्युतिः इतरेतराश्रयदोषप्रसक्तेः / तथाहि-स्मर्यमाणस्यार्थस्यानस्तमयसिद्धेस्तदुपनीले तत्र दर्शनप्रवृत्तिःसिद्ध्यति / तत्सिद्धौ च स्मरणोपनीतस्याऽनस्तमयसिद्धिरिति कथं नेतरेतराश्रयत्वम? अथ स्मृतिः संप्रति प्रतिभासविषयादागिन्न विषयमध्यवस्यन्ती निरालम्बना स्यात् / प्रतिभासविषयं तमेवार्थ मुल्लिखन्ती तु कथमसदर्थविषया? न: दर्शनगृहीतर्मवार्थमुल्लिखतीत्यत्र प्रमाणाभावान स्मरणोपनीतैकत्वाऽवभासिन्यध्यक्षमतिः सत्यार्थग्राहिणी सिद्धा। न च पुर्वदर्शनमेव पूर्वरूपसंगतमर्थमनुभवदेकत्वे प्रमाण यतो यदि पूर्वरूपतामथरयाद्यदर्शनमेवावभासयति तथा सति पूर्वापरैकत्वं तदेवावगमयिष्यतीति तत्र स्मृतिः प्रवर्त्तमानाध्या / न च तदपि पूर्वरूपता तरयाऽवभासयितु क्षम तरय सन्निहितमात्रविषयत्वात् / पूर्वरूपता हि पूर्व देशकालदशासम्बन्धिता पूर्व देशादीनां च तद्दर्शने अप्रतिमासनात न तत्संस्पर्शिरूपप्रतिभासस्तत्र संभवी न हि तदप्रतिभासे तसंवनिधपदार्थ रूपप्रतिभासः अन्यथा नीलताऽप्रतिभासेऽपि पीते नीलसम्बन्धिताऽवगतिर्भवत्। तत्रैकत्वग्राहिण्यध्यक्षमतिः / या 'दृष्टता प्रत्यक्षग्राह्या' इति परैरुच्यते तत्र दृष्टता यदि तदृशि प्रतिभातता तदा वर्तमानतेव। अथ पूर्वदृशि प्रतिभातता सदा पूर्वदृशोऽप्रतिभासने कथं तत्प्रतिभातताऽवभासःसंप्रति संवेदने? तत्र हि स्वदृष्टतया सन्निहित रूपमाभातीति सैव तत्र युक्ता, पूर्वदर्शनं तु प्रत्यस्तमित मिति तददृष्टताऽपि व्युपरतैवेति कथं सा वर्तमानदृशि प्रतिभासले? तदभ्युपगमें या तददृशा निरालम्बनप्रसक्तिः। न च पूर्वदृश्यमानता तत्र व्युपरता, दृष्टता तु तदैवोत्पन्नेति कथमसती येन तां प्रतीयती प्रत्यक्षमतिर्निरालम्बना भवेत् ? यतो यदि दृष्टता तत्र सन्निहिता भवेत तदा प्रथममागतो नीलाऽऽदिरूपतामिव तामप्यधिगच्छेतन चाऽधिगच्छतीति ज्ञानस्वभावोऽसाधारणतयाऽसौ नार्थस्वरूपमिति कुतोऽध्यक्षताऽवसे या? तथाहि-पूर्वदर्शनमनुस्मरन्नेव पूर्वदृष्टता व्यवहारी तत्राध्यारोपयति विस्मरणे तदनध्यवसायात यच स्मृतिरध्यवस्यति स्वरूपं न तदर्शनपथोपप्रयुक्तम् आकारभेदात् / न च तदर्शन--स्मरणे एक विषयं बिभतः "पूर्वदृष्ट पश्यामि" इत्यध्यवसायात् / यतः--कि मर्यमाणं दृश्यमानतया रूपं प्रतीयते,आहोस्विद् दृश्यमानं स्मर्यमाणतथति विकल्पद्वयम्? तत्र यद्याद्यः पक्षस्तथा सति स्मर्थ माणं परिस्फुटतया रूपमाभातीति कथ तस्य परोक्षता? अथ द्वितीयस्तत्रापि दृश्यमानं स्मर्यमाणेन रूपेणाऽवभातीति सर्व परोक्ष भवेदिति न काचिदध्यक्षमतिः सत्याऽर्था स्यात्। अतोऽक्षधीवर्तमानमेव रूपं प्रत्यति, स्मृतिरपि तदसंस्प--शि परोक्ष रूपमिति न तयोरैक्यं प्रतिभासभेदस्य सर्वत्र भेदकत्वात्। तस्य च विशदाऽविशदरूपतयाऽवभासमानयोर्दृश्यरममाणयोः सद्भावात् कथं न भेदः? किञ्चि-यदि शुद्धर्मव दर्शन स्मृतिनिरपेक्षं पूर्वरूपताग्राहि, नन्वेवं भाविरूपताग्राहि प्रथमदर्शनं कि नोपेयते? नहि भाविभूतयोरसन्निहितत्वे विशेषः, यनैकत्राध्यक्षवृत्तिरपरत्र नेति भवेत्? नच 'पूर्वदृष्ट पश्यामि' इति व्यवसायात पूर्वरूपे एव दर्शनव्यापारः / 'पूर्वमेवेदं मया दृष्टम् इत्यध्यवसायाद् भाविरूपेऽपि दर्शनव्यापारप्रसयतेः / अतोऽपाकृतम् “इदानींतनमस्तित्व न हि पूर्वधिया गतम्" इति न च पूर्वदृशा तदाभाविकालतया असन्निधानादग्रहण संप्रति दर्शनकाले पूर्वरूपताया अप्यसन्निधेस्ततो ग्रहणप्रसक्तेः / यदि पुन विरूपतामप्य -ध्यक्षमनुभवति, 'पूर्वमवेदं मया दृष्टम्' इति व्यवहृतिदर्शनात् तर्हि प्रथमसंवेदनमेव मरणावधिरूपपरंपरामधिगच्छतीति तदैव मृतो भवेत्। न च मृतिसद्भावे मृतो भवत्युत्पत्तिसमये तु नासाविति कुतोऽयं दोषः / यतो यदि तदाऽसौ नाऽस्ति कथमसती सा दर्शन प्रतिभाति? तदप्रतिभासने तु कथं भाविरूपपरिगतो भावोऽवभातो भवेत् ? यदेव तत्र वर्तमान रूपमाभाति तदेवाध्यक्षमस्तुन भावि। यदि तु तदपि तदाऽध्यक्ष तदाद्याऽध्यक्ष एव मृत्युपाधेः सकलविषयस्य प्रतिभातरयाऽस्तमयात तद्विषयात्तदुत्तरकालभाविनी सर्वा मतिर्निविषया भवेत। किं च भाविभूतयोरध्यक्षविषयत्वे भिन्नमपि तदध्यक्षविषयं भवेदिति सर्वस्त्रिकालदर्शी भवेदिति "भविष्यश्चैषोऽर्थो न ज्ञानकालेऽस्तीति न प्रतिभाति" इति निराकृतं द्रष्टव्यम् / भावि-भूतकाले तावद भविष्यतो धर्माऽऽदेर्दर्शनकालेऽसतोऽपि प्रतिभासनात् / न चाभिन्नया भाविभूतरूपयोः प्रतिभासेऽपि भाविधादर्भिन्नत्वान्न प्रतिभासः / भेदनाध्यक्षप्रतिभासनाऽविरोधात्। दृश्यन्त एव हि भिन्नरूपा घटपटाऽऽदयोऽध्यक्षप्रतिभासमादधानास्तन्न भाविभूतरूपाऽध्यक्षावसेयेति स्मृतिविषयः / पूर्वरूपतादर्शनावभासिनोऽर्थन्य भाविरूपता चानुमानावसेया। तेन"नच स्मरणतः पश्चादिन्द्रियस्य प्रवर्तनम।।" "वार्यते केनचिन्नापि, तदिदानी प्रदुष्यति।" (श्लो० वा० प्रत्यक्ष० श्लो० 235 / 2363) / इति निररतं, यतो यदि स्मरणादूर्ध्व वर्तमानरूपे इन्द्रियस्य प्रवनिमभिप्रेत तथा सति वर्तमानमात्र परिच्छे दान्न स्मरणो पढौ कितैकत्वग्रहः / अथ पूर्वरूपे तत्राऽपि यथा प्राक