________________ सहणय 368 - अभिधानराजेन्द्रः - भाग 7 सद्दणय - - 15' आक्रोशे, शपनम् आह्वानमिति शब्दः, शपतीति वा आह्वयतीति शब्दः, शप्यते वा आहूयते वस्त्वनेनेति शब्दः, तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात्तत्प्रधानत्वान्नयोऽपि शब्दः, यथा कृतकत्वादित्यादिकः पञ्चम्यन्तः शब्दोऽपि हेतुः / अर्थरूप हि कृतकत्वमनित्यगमकत्वान्मुख्यतया हेतुरुच्यते, उपचारतस्तु तद्वाचकः कृतकत्वशब्दोऽपि हेतुरभिधीयते, एवमिहापि शब्दवाच्यार्थपरिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यत इति भावः। "इच्छइ विसेसियतर, पच्चुप्पन्न नओ सद्दो” इति नियुक्तिगाथादलव्याख्यानमाहतंचिय रिउसुत्तमयं,पच्चुप्पन्नं विसेसिययरंसो। इच्छद भावघडं चिय, जं न उनामादओ तिन्नि।।२२२८|| तदेव ऋजुसूत्रनयस्य मतमभीष्ट प्रत्युत्पन्नं वर्तमानं वस्त्विच्छत्यसो शब्दनयः। कथंभूतं तदित्याह-विशेषिततरम्। कुत इद ज्ञायते? इत्याह यद्-यस्मापृथुबुध्नोदराद्याकारकलित मृन्मय जलाऽऽहरणाऽऽदिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ न तु शेषान् नामस्थापनाद्रव्यरूपांस्त्रीन्घटानिति शब्दप्रधानो ह्येष नयः चेष्टालक्षणश्च घटशब्दस्यार्थः, घटचेष्टायाम्, घटते इति घटः इति व्युत्पत्तेः, ततश्च य एव जलाहरणादिक्रि यार्थमाचष्टे प्रसिद्धो घट स्तमेव भावरूपं घटमिच्छत्यसौ शब्दार्थोपपत्ते तु नामादिघटान घटशब्दार्थानुपत्तेः / अतश्चतुरोऽपि नामादिघटानिच्छत ऋजुसूत्राद्विशेषिततरं वस्त्विछत्यसौ एकस्यैव भावघटस्यानेनाभ्युपगमादिति। नामादिघटनिराकरणार्थमेव प्रमाणयन्नाहनामादओन कुंभा, तक्कजाकरणओ पड़ाइ व्व। पचक्खविरोहाओ, तल्लिंगाभावओवाऽवि॥२२२६।। नामस्थापना द्रव्यरूपाः कुम्भा न भवन्तीति प्रतिज्ञा जलाहरणादितत्कार्याकरणात्पटादिवत्, तथा प्रत्यक्षविरोधात, घटलिङ्गदर्शनाच्चेति / अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्ते इति प्रत्यक्षविरोधः जलाहरणादिकं घट लिङ्ग च तेषु न दृश्यते इति ततोऽनुमानविरोधोऽपीति / कथं ते नामादिघटव्यपदेशभाजो भवेयुरिति ऋजुसूत्रशिक्षणार्थमाहजइ विगयाऽणुप्पन्ना, पओयणाभावओनते कुंभा। नामादओ किमिट्ठा, पओयणाभावओ कुंभा॥२२३०।। यदि विगताः अनुत्पन्नाश्च त्वयाऽहो ऋजुसूत्रकुम्भा नेष्टाः प्रयोजनाभावात, तर्हि नामादयोऽपि कुम्भाः किमिष्टाः, प्रयोजनाभावस्य समानत्वान्, न खलु तैरपि कुम्भप्रयोजनं किमपि विधीयत इति / तदेवमृजुसूत्राच्छब्दनयस्य विशेषिततरमुक्तम्। अथवाअन्यथा तद् द्रष्टव्यं कथमित्याह अहवा पच्चुप्पन्नो, रिजुसुत्तस्साविसेसिओचेव। कुंभो विसेसिययरो, सब्भावाईहिँ सदस्स२२३१।। सम्मावासब्भावो, भयप्पिओ सपरपजओभयओ। कुंभाकुभावत्त-व्वोभयरूवाइभेओ सो // 2232 / / अथवा प्रत्युत्पन्नः ऋजुसूत्रस्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः शब्दनयस्य तु स एव सद्भावादिभिर्विशेषिततरोऽभिमत इत्येवमनयोर्भेदः ! तथाहि-स्वपर्यायैः परपर्यायः उभयपर्यायैश्च सद्भावेन असदावेन, उभयेन चार्पितो विशेषितःकुम्भः-कुम्भाकुम्भाऽवक्तव्योभयरूपादिभेदो भवतिसप्तभङ्गी प्रतिपद्यत इत्यर्थः, तद्यथा-ऊर्ध्वग्रीवकपालकुक्षिबुध्नादिभिः स्वपर्यायः सद्भावनार्पितो विशेषितः कुम्भः कुम्भो भण्यते, 'सन् घट' इति प्रथमो भङ्गो भवतीत्यर्थः / तथा पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनार्पितो विशेषितोऽकुम्भो भवति सर्वस्याऽपि घटस्य परपर्यायैरसत्त्वविवक्षायाम्, असन् घट इति द्वितीयो भङ्गो भवतीत्यर्थः / तथा-सर्वोऽपि घटः स्वपरोभयपर्यायः सद्भावाऽसद्धावाभ्यां सत्त्वाऽसत्त्वाभ्यामर्पितो विशेषितो युगपद्वक्तुमिष्टोऽवक्तव्यो भवति, स्वपरपर्यायसस्थाऽसत्त्वाभ्यामेकन केनाऽप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य युगपद्वक्तुमशक्यत्वादिति / एते त्रयः सकलादेशाः / अथ चत्वारोऽपि विकलादेशाः प्रोच्यन्ते। तत्रैकस्मिन्देशे स्वपर्यायसत्त्वेनान्यत्र तु देशे परपर्यायासत्त्वेन विवक्षितो घटः संश्चासंश्च भवति घटो घट श्व भवतीत्यर्थः / तथा एकस्मिन् देशे स्वपर्यायैः सद्भावेन सत्त्वेनार्पितो विशेषितोऽन्यत्र तु देशे स्वपरोभयपर्यायैः सद्भावासद्भावाभ्या सत्चासत्त्वाभ्यां युगपदसांकेतिके नैकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्चावक्तव्यश्च भवति, घटोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वात्, देशे चावक्तव्यत्वादिति। तथा एकदेशे परपर्यायैरसद्धविनार्पितो विशेषितोऽन्यस्मिस्तु देशे स्वपरपर्यायैः सद्भावासद्भावाभ्यां सत्त्वासत्त्वाभ्यां युगपत्सांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भोऽसन्नवक्तव्यश्च भवति- अकुम्भोऽवक्तव्यश्च भवतीत्यर्थः, देश तस्याकुम्भत्यात, देशे चावक्तव्यत्वादिति। तथा एकदेशे स्वपर्यायैः सद्भावेनार्पितः एकस्मिस्तु देशे परपर्याय रसद्भावेनार्पितः, अन्यस्मिस्तु देशे स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यां युगपदेकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्चासश्चावक्तव्यश्च भवतिघटोऽघटोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वात्, देशेऽघटत्वात्. देशे चावक्तव्यत्वा-दिति / इच च 'कुम्भकुम्भे' त्यादिना गाथार्द्धनषड्भङ्गाः साक्षादुपात्ताः सप्तमस्त्वादिशब्दाद् , तद्यथा-कुम्भः अकुम्भः अवक्तव्यः उभय'त्ति संश्वासश्चेत्युभयं, तथा सन्नवक्तव्यक इत्युभयं तथा असन्नवक्तव्यक इति चोभयम्, आदिशब्दसंग्रहीतस्तु सप्तमः सन्नसन्नवक्तव्यक इति। एवं सप्तभेदो घटः, एवं पटादिरपि द्रष्टव्यः / तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थ यथाविवक्षमेकेन केनापि भङ्गकेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते, नयत्वात्, ऋजुसूत्राद्विशेषिततरवस्तुग्राहित्वाच्च, स्याद्वादिनस्तु संपूर्णसप्तभङ्गयात्मकमपि प्रतिपद्यन्त इति / अल विस्तरेणेति। अथवा लिङ्गवचने समाश्रित्य विशेषिततरं वस्त्विच्छति शब्दनय इति दर्शयन्नाहवत्थुमविसेसओ वा, जं भिन्नाभिन्नालिंगवयणं पि। इच्छइ रिउसुत्तनओ, विसेसिययरं तयं सद्दो॥२२३३।।