________________ सवणय 367 - अभिधानराजेन्द्रः - भाग 7 सद्दणय ऋजुसूत्राद्विशेषमस्य स्पष्टयतिऋजुसूत्राद्विशेषोऽस्य, भावमात्राभिमानतः। सप्तभङ्गन्यर्पणाल्लिङ्ग-भेदादेर्वाऽर्थभेदतः॥३५।। ऋजुसूत्रादिति-अस्य-शब्दनयस्य ऋजुसूत्राद्विशेषः-उत्कर्षो / भावमात्रस्याभिमानात, अयं हि पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षम प्रसिद्ध भावघटमेवेच्छति, शब्दार्थप्रधानत्वात्, 'घट' चेष्टायामिति शब्दार्थस्य भावघट एव योगान्नतु नामस्थापनाद्रव्यरुपास्त्रीस्तत्रोक्तार्थयोगात्। तथा चैतत्संवाद्याह भाष्यकार:"णामादयो ण कंभा. तक्कजा करणओ पडाइव्व। पच्चक्खविरोहाओ, तल्लिंगाभावओ वाऽवि // 1 // " नामस्थापनाद्रव्यघटाः घटत्वेन न व्यवहर्तव्याः, घटार्थक्रियाकारित्वाभावादघटत्वेन प्रतीयमानत्वात्, घटव्यवस्थापकधर्माभावाचेत्येतदर्थः / यद्वा-सप्तभङ्गचर्पणादस्य विशेषः, ऋजुसूत्रस्य हि प्रत्युत्पन्नोऽविशेषित एव कुम्भोऽभिप्रेतः,शब्दनयस्य तु (स एव सद्भावादिभिर्विशषिततरोऽभिमतइत्येवमनयोर्भेदः, तथाहि-स्वपर्यायैः पर (विशेषा वश्यकवृत्तितः) पर्यावरुभयैर्वाऽर्पितोऽयं कुम्भाकुम्भावक्तव्यो भयरूपादिभेदन सप्तभङ्गी प्रतिपद्यत इति / यद्भाष्यम्"अहवा पच्युप्पण्णो, उजुसुत्तस्साविसेसिओ चेव। कुंभी विसेसिअतरो, सम्भावादीहि सद्दस्स / / 1 / / सब्भावोसब्भावो-भयप्पिओ सपरपज्जवोभयवो। कुंभाकुंभावत्त-व्वोभयरूवाइभेवो सो / / 2 / / " त्ति / इह "कुंभाकुंभे" त्यादि / गाथापश्चार्द्धन षड् भङ्गाः साक्षादुपात्ताः सप्तमस्त्वादिशब्दात, तद्यथा-कुम्भः 1 अकुम्भः २अवक्तव्यः 3 'उभय' त्ति संश्थाऽसंश्चत्युभयम् 4 सन्नवक्तव्य इत्युभयं 5 तथा-ऽसन्नवक्तव्य इत्युभयम् 6 आदिशब्दसंगृहीतस्तु सप्तमः सन्नसन्नवक्तव्य इति 7. अत्रोभयपदस्य समभिव्याहृतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तावपि सभभिव्याहारत्रैविध्यात् आवृत्त्या त्रिविधोभयबोध इति न्यायमार्गः / सामान्यशक्तावप्युभयपदादेकदैव, समभिव्याहारविशेषमहिम्ना त्रिविधविशेषप्रकारको बोध इत्यनुभवमार्गः, तदेव स्याद्वाददृष्टसप्तभेदं घटादिकमर्थ यथाविवक्षितमेकेन केनापि भङ्गकेन विशेषिततरमसी शब्दनयः प्रतिपद्यते, नयत्वादृजुसूत्राद्विशेषिततरवस्तुगाहित्वाच्च। स्यावादिनस्तु संपूर्णसप्तभङ्ग्यात्मकमपि प्रतिपद्यन्त इति विशेषावश्यकवृत्तावुक्तम् / तत्रायं विचारावकाशः-किमियं सप्त-- भनी अर्थनयाश्रिता,उत शब्दनयाश्रिता? आद्ये तदेकतरभङ्ग विशेषणे कथभृजुसूत्राच्छब्दस्य विशेषिततरत्वम् अर्थतयाऽऽश्रितभङ्गस्य शब्दस्य नयाविशेषक-वादुभयेषां विषयविभागस्य दूरान्तरत्वात्। द्वितीयविकल्प च ऋजुसूत्राभिमतार्थपर्यायाविषयत्वेनाशुद्धव्यञ्जनपर्यायग्राहिणः कुतः शब्दस्य विशेषिततरार्थत्वम्, नहि तदविषयविषयकत्वं विशेषितशब्दार्थः, किं तु-तद्विषयताव्याप्यविषयकत्वमिति / नच ऋजुसूत्राभिमतसत्त्वमुप-मृद्यासत्त्वाख्यद्वितीयभङ्गोत्थापनाच्छब्दस्यर्जुसूत्राद्विशेषिततरचं वक्तुं युक्तम्, एवं सति ऋजुसूत्राभिमतं सत्त्वमुपमृद्यासत्त्वग्रहणव्यावृत्तस्य व्यवहारस्यापि ततो विशेषिततरार्थत्वापत्तेर्विशेध्यक भगानिधारक वचनापत्ते श्वे ति, तत्रायमस्माकं मनीषोन्मेषः यद्यप्यर्थपर्यायाश्रिता सप्तभङ्गी संग्रहव्यवहारर्जुसूत्रैर्व्यञ्जनपर्यायाश्रिता शब्दसमभिरुदैवभूतैः “सम्मतौ” (ग्रन्थे) सूचिता तथाऽप्येतत्प्रकारद्वया - भिधानमर्थव्यञ्जनसाधारणं पर्यायसामान्याश्रितसप्तभङ्ग्या अनुपलक्षणम्, सा च स्वपरपर्यायाणां क्रमयुगपद्विवक्षावशान्नयद्वयेन शुद्धशुद्धतरपर्यायविवक्षया च नयत्रयेणापि संभवतीति ऋजुसूत्रशब्दप्रयुक्तसप्तभड़ ग्यां द्वितीयादिना व्यवहारर्जुसूत्रप्रयुक्तायां च तस्यां तृतीयादिना भङ्गेनर्जुसूत्राच्छब्दस्य विशेषिततरार्थत्वं युक्तम्। नचैवम्-ऋजुसूत्रकृत्सत्त्वापेक्षया सताग्राहिणो व्यवहारस्यापि ततो विशेषिततरार्थत्वप्रसहदूषणानुद्धारः संप्रदायाविरुद्धभङ्गविषयीभूतेनार्थेन विशेषिततरत्वस्याभिधित्राितत्वात्, संप्रदायश्चोत्तरोत्तरभङ्ग प्रवृत्तावुत्तरोत्तरनयावलम्बनेनैव दृष्टो नान्यथेति न कश्चिद्दोष इति। वा अथवालिङ्गभेदादेरर्थभेदाश्रयणादस्य-शब्दनयस्य ऋजुसूत्राद्विशेषः, तथाहि (तटःतटी तटम् इत्यादौ) अन्यलिङ्गवृत्तिशब्दस्य नान्यलिङ्गभेदलक्षणेन गुरुः गुरव इत्यादौ च वचनभेदलक्षणेन वैधयेणार्थभेदः स्पष्ट एवानुभवात्, एवमन्यकारकयुक्तं यत्तदेवास्य मतेऽपरकारकसम्बन्धं नानुभवति इत्यधिकरणत्वाद ग्रामोऽधिकरणाभिधानविभक्तिवाच्य एव न कर्माभिधानविभवत्यभिधेय इति, ग्राममधिशेते इति प्रयोगोऽनुपपन्नः / तथा पुरुषभेदेऽपि नैक बस्त्विति, एहि मन्ये रथेन यास्यसि नहि या स्यसि यातस्ते पितेति च प्रयोगो न युक्तोऽपि त्वेहि मत्यसे यथाहं रथेन यास्यामीत्येवं परभावेनैतन्निर्देष्टव्यम्. एवभुपग्रहणभेदोऽपि विरमतीत्यादिर्न युक्त आत्मार्थतया हि विरमत इत्यस्यैव प्रयोगस्य संगतेन चैवं लोकशारत्रविलोपः सर्वत्रैव नयमते तल्लोपस्य समानत्यादिति सम्मतिवृत्ती ध्यवरिथतम, यद्यपि ग्राममधिशेते इत्यादौ ग्रामोत्तर द्वितीयादिपदादधिकरणत्वादिप्रकारकप्रतीत्यर्थमधिकरणत्वादिविशिष्ट लक्षणैव स्वीकार्या नाम्नि तन्निरूढत्वसमानार्थमेवं च विशेषानुशासनमिति वक्तुं शक्यते, तथाप्युक्तविपरीतप्रयोगप्रामाण्याय- 'उपपदविभक्तेः कारक-विभक्तिबलीयसी' इत्यादिन्यायसाम्राज्यवानयं विशेष इति दिग्। उक्तयुक्त्या यथा अनेन ऋजुसूत्रमतं दूष्यते। तथाऽऽहसामानाधिकरण्यं चे--न्न विकारापरार्थयोः। भिन्नलिङ्गवचःसंख्या-रूपशब्देषु तत्कथम् // 35! सामानाधिकरण्यमिति चेत्-यदि विकारापरार्थयोः विकाराविकारार्थकशब्दयोः पलालं दहतीत्यादौ सामानाधिकरण्यभेका-- न्वयजननयोग्यत्वं नेष्टमृजुसूत्रनये चेत्? तर्हि भिन्नानि लिङ्गवचःसंख्यारूपाणि येषां तादृशेषु तटस्तटी तटगुरुः गुरुवः सच त्वं च यास्यथः कुरुले करोति इत्यादिषु कथं सामानाधिकरण्यं न कथंचिदित्यर्थः / यथाहि- त्वयाऽग्निष्टोमयाजी पुत्रोऽस्य जनिता' इत्युक्तं स्वीक्रियते कालभेदात् तथा लिङ्गादिभेदादर्थभेदः सुतरां स्वीकर्तव्य इत्युपदेशः। नयो०। स्या०। शब्दनयमाहसवणं सपइ स तेणं, व सप्पए वत्थु जं तओ सहो। तस्सत्थपरिग्गहओ, नओ विसद्दो त्ति हेउव्व // 2227 / /