________________ सद्द 366 - अभिधानराजेन्द्रः - भाग 7 सद्दणय 'छउमत्थे णमि' त्यादि 'आउडिजमाणाई'ति-जुडबन्धने इति वचनात आजोड्यमानेभ्यः-आसम्बन्ध्यमानेभ्यो मुखहस्तदण्डादिना सह शङ्खपटहझल्लर्यादिभ्यो वा द्यविशेषेभ्यः आकुट्यमानेभ्यो वा एभ्य एव ये जाताः शब्दास्ते आजोड्यमाना आकुटयमाना एव वा उच्यन्ते अतस्तानाजोड्यमानानाकुट्यमानान्वा शब्दान् शृणोति / इह च प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः। अथवा- 'आउडिजमाणाई' | ति-आकुट्यमानानि परस्परेणाभिहन्यमानानि, 'सवाई' ति-शब्दानिशब्दद्रव्याणि शड् खादयः प्रतीताः नवरं 'संखिय' त्ति- शनि का ह्रस्वः शङ्खः 'खरमुहि' त्ति-काहला पोयामहती काहला, 'पिरिपिरिय' त्तिकोलिकपुटकाव नद्धमुखो वाद्यविशेषः। 'पणव' त्ति-भाण्डपटहो लघुपटहो वा तदन्यस्तु पटह इति, 'भभ'त्ति ढक्का, 'होरंभ' त्ति-रूढिगम्या 'भेरि' ति-महाढक्का, 'झल्लरि' त्ति-वलयाकारो वाद्यविशेषः, 'दुंदुहि' त्ति--देववाद्यविशेषः / अथोक्तानुक्तसंग्रहद्वारेणाह- 'तताणि वे' त्यादि ततानि-वीणादिवाद्यानितजनितशब्दा अपि तताः, एवमन्यदपि पदत्रय, नवरमयं विशेषस्ततादीनाम्-"तत वीणादिकं ज्ञेयं, वितत पटहादिकम्। घनं तु कास्यतालादि, वंशादि शुषिरं मतम्" // 1 // इति पुट्ठाइं सुणेइ इत्यादि तु प्रथमशते आहाराधिकारवदवसेयमिति 'आरगयाई' तिआरा-दागस्थितानिन्द्रियगोचरमागतानित्यर्थः, 'पारगयाइं लि-इन्द्रियविषयात्परतोऽवस्थितानिति,' 'सव्वदूरमूलमणतियं' ति-सर्वथा दूर विप्रकृष्ट मूलं च निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम् / अत्यर्थ दूरवर्तिनमत्यन्तासन्न चेत्यर्थः / अन्तिकम्-आसन्न तन्निषेधादनन्तिकम्, नमोऽल्पार्थत्वात् नात्यन्तमन्तिकम्-अदूरासन्नमित्यर्थः तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम् अथवा- 'सव्य'ति, अनेन 'सव्वओ समंता' इत्युपलक्षितम्, 'दूर मूलं' ति–अनादिकमिति हृदयम 'अणंतिय' ति-अनन्तिकमित्यर्थः “मियं पि' ति-परिमाणवत् / गर्भजमनुष्यजीवद्रव्यादि, 'अमिय पि' ति-अनन्तमसंख्येयं वा, वनस्पतिपृथिवीजीवद्रव्यादि। 'सव्वं जाणई' इत्यादि / द्रव्याद्यपेक्षयोक्तम्। अथ कस्मात् सर्व जानाति केवलीत्याधुच्यते / इत्यत आह-- 'अणंते' त्यादि, अनन्त ज्ञानमनन्तार्थविषयत्वात्, तथा- 'निब्बुडे नाणे केवलिस्स' त्ति-निर्वृत-निरावरणं ज्ञान केवलिनः क्षायिकत्वाच्छुद्धमित्यर्थः वाचनान्तरे तु-- 'निव्वुड़े वितिमिरे विसुद्धे' त्ति-विशेषणत्यं ज्ञानदर्शनयोरभिधीयते, तत्र च-निर्वत-निष्ठागतं वितिमिरक्षीणावरणमत एव विशुद्धमिति। भ०५ श० 4 उ० / (वागद्रव्याणामादानम्, उत्सर्गो वा 'भासा' शब्दे पञ्चमभागे विरतो गतम्।) 'आउद्देमाणे सद्देण घोसेण' आक्रुट्टयन अयोधनघात-प्रभवेण ध्वनिना पुरुषहुकृतिरूपेण वा तस्यैवानुनादेन। भ०६ 101 उ० / सदाइं अणेगरूवाइं अहिआसए / (सू०४) शब्दा अनेकरूपाः--वीणावेणुमृदङ्गादिजनिताः / तथा क्रमेलका- | रमिताद्युत्त्यापितास्ताश्चाविकृतमना अध्यासयति-अधिसहते। आचा० 1 श्रु०६ अ०२ उ० / सू०। प्रज्ञा० / प्रसिद्धौ, ज्ञा०१ श्रु०१ अ०॥ एकदिग्व्यापिनि वर्णे, स्था० 10 ठा० 3 उ० / शब्द्यते-प्रतिपाद्यते वस्त्वनेनेति शब्दः, शब्दस्य यो वाच्योऽर्थः स एव येन तत्त्वतो गम्यते स नथ उपचारात शब्दः इत्युच्यते / नयभेदे, विशे०। (शब्दनयमतमिहैवानुपदं 'सघणय' शब्दे वक्ष्यते।) शाब्दमपि न सर्व प्रमाणम्, कि तर्हि ? आप्तप्रणीतस्यैवागमस्य प्रामाण्यात् / न चाहद्व्यतिरेकेण अपरस्याप्तता युक्तियुक्ता। सूत्र०१ श्रु०१२ अ०। सदसण न० (सद्दर्शन) शोभन दर्शनं सद्दर्शनम् / सम्यग्दर्शने, दर्श० 2 तत्त्व। सद्दकर पुं० (शब्दकर) रात्रौ महता शब्देनोल्लापे, स्वाध्यायादिकारके गृहस्थभाषाभाषके, असमाधिस्थानप्राप्ते च। स०२० सम० आ० चू०। सद्द करेति असंखडसवं करेति। आव० 4 अ०। सद्दकरण न० (शब्दकरण) शब्दः क्रियते यरिमन तत् शब्दकरणम्। आ० म०१ अ० / उदात्ताऽऽदिस्वरविशेषे, विशे०। सद्दकरणं नामज सद्देहिं पगडत्थं कीरति न पुण गोवित संकेतिगं, तंजधा-उप्पण्णे त्ति वा भूते त्ति वा विगते त्ति वा परिणाते त्ति वा / उदात्ता अनुदाताश्च / णिसीह पच्छण्णगोवितसंकेतितं / आ० चू०१ अ०। आ० म० / शब्दः क्रियते यस्मिन् तत्-शब्दकरणम् / उक्तं च- 'उत्ती उ सद्दकरण, पगासपाढं व सरविसेसो वा / तं निशीथं ति निशीथं भवति / इयमत्र भावना- यत् उत्पादाद्यर्थप्रतिपादकः / तथा महताऽपि शब्देन प्रतिपाद्यं तत् प्रकाशपाठात् प्रकाशो-पदेशाच्च शब्दकरणं नाम / आ० म०१ अ०। सद्दऽज्झयण न० (शब्दाध्ययन) शब्दशक्तिप्रतिपादके आचारागाध्ययनस्य द्वितीयश्रुतस्कन्धस्य चतुर्थसप्तैककाध्ययने, आचा० 2 श्रु०२ 0 4 अ०। आव०। सद्दणय पुं० (शब्दनय) शप् आक्रोशे, शष्यते अवधीयते वस्त्वनेनेति शब्दः / तमेव गुणीभूतार्थमुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, स चासौ नयश्च / अनु०। शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दः, तस्यार्थपरिग्रहादभेदोपचारात् नयोऽपिशब्द एव। स्था०७ठा० 3 उ० / सप्तसु नयेषु अन्यतमे नये, नं०। शब्दनयं लक्षयतिविशेषिततरः शब्दः, प्रत्युत्पन्नाश्रयो नयः। तरप्रत्ययनिर्देशा-द्विशेषिततमे गतिः।।३३|| 'विशेषिततर' इति-विशेषिततरः प्रत्युत्पन्नाश्रयऋजुसूत्राभिमतग्राही नयः शब्द इत्याख्यायते,यत्सूत्रम्- 'इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सदो' त्ति ।अत्र तरप्रत्ययनिर्देशाद्विशेषिततमाधोवर्तिविषयत्वलाभाद्विशेषिततमे समभिरूढे एवंभूते वा गति तिव्याप्तिः।