________________ सह 364 - अभिधानराजेन्द्रः - भाग 7 सह नमुपलभ्यते ततो जलाभावेऽपि जलज्ञानप्रतिभासाऽविशेषात्। सत्यपि जले जलप्रत्यक्ष प्रादुर्भवन्न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोः अननुकारादित्यादि सर्व समानमेव / अत्र देशकालस्वरूपपर्यालोचनया तत्प्राप्त्यभावादिना च मरुमरीचिकासु जलोल्लेखिनः | प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भान्तं चाप्रमाणम्, ततो न लेन व्यभिचारः, प्रमाणभूतस्य च वस्त्वन्वयव्यतिरेकानुविधायित्वात व्यभिचार एव तदेतदन्यत्रापि समानम, तथा हि-यथार्थदर्शनादिगुणयुक्तः पुरुष आपः,तत्प्रणीतशब्दसमुत्थं च ज्ञान प्रमाणम, नच तस्य वस्त्यन्वयव्यतिरेकानुविधायित्वव्यभिचारसंभवः / यत्पुनरनाप्त प्रणीतशब्दसमुत्थं ज्ञानं तदप्रमाणम्। अप्रमाणत्वाच्च न तेन व्यभिचारः / यदपि च प्रमाणमुपन्यस्तं तदपि हेतोरसिद्धत्वान्न साध्यसाधनायालम, असिद्धता च हेतोराप्तप्रणीतशब्दर वस्तुव्यतिरेकाग प्रवृत्त्यसंभवात / रात्पुनरिदमुच्यते -शब्दः श्रूयमाणो वक्त्रभिप्रायविषय विकल्पप्रतिविम्य लत्यार्य-तया धूम इव वह्निमनुमापयति, तत्र स एव वक्ता विशिष्टार्थाभि -- प्रायशब्दयोराश्रयो धर्मी अभिप्रायविशेषः साध्यः, शब्दः साधनमिति / तदाह- “वक्तुरभिप्रेतं तु सूचयेवु” रिति स एव तथा प्रतिपद्यमान आश्रयाऽस्त्विति, तत्पापात्पापीयः, तथा प्रतीतेरभावात् ! न खलु कश्चिदिह धूमादिव वह्नि तत्कार्यतया शब्दादभिप्रायविषयं विकल्प - प्रतिबिम्बमनुमिमीते, अपि तु वाचकत्वेन बाह्यमर्थ प्रत्येति, देशान्तरे कालान्तरे च तथा प्रवृत्त्यादिदर्शनात् / नच देशान्तरादादपि तथा प्रतीतावन्यथा परिकल्पनं श्रेयः, अतिप्रसङ्ग प्राप्तः नानिधूमं जनयति किं त्वदृष्टः पिशाचादिरित्यस्याः अपि कल्पनायाः प्रसङ्गात / अपिच - अर्थक्रियाथीं प्रेक्षावान् प्रमाणमन्वेषयति, नचाभिप्रायविषयं विकल्पप्रतिबिम्ब विवक्षितार्थक्रियासमर्थम्, किंतु-बाह्यमेव वस्तु, नच वाच्यम् - अभिप्रायविषयं विकल्पप्रतिबिम्ब ज्ञात्वा बाह्ये वस्तुनि प्रवर्ति-ष्यते तेनायमदोष इति, अन्यस्मिन ज्ञातेऽन्यत्र प्रवृत्त्यनुपपत्तेः, नहि घटे परिच्छिन्ने पटे प्रवृत्तियुक्ता, एतेन विकल्पप्रतिबिम्बकं शब्दवाच्यमिति यत्प्रतिपन्नतदपि प्रतिक्षिप्तमवसेयन। तत्रापि विकल्पप्रतिबिम्बके शब्देन प्रतिपन्ने वस्तुनि प्रवृत्त्यनुपपत्तेः / दृश्यविकल्पावविकीकृत्य वस्तुनि प्रवर्तत इति चेत्, तथाहि-तदेव विकल्पप्रतिबिम्बकं बही रूपतयाऽध्यवस्यति ततो बहिः प्रवर्तते, तेनायमदोष इति, न तयोरेकीकरणासिद्धेः, अत्यन्तवैलक्षण्येन साधायोगात्, साधर्म्य चेकीकरणनिमित्तम्, अन्यथाऽतिप्रसगात्। अपि च कश्चैतावेकीकरोतीति वाच्यम, स एव विकल्प इति चेत्, न, तत्र बाह्यस्वरूपलक्षणानवभासात, अन्य-- था विकल्पत्वायोगादनवभासितेन चैकीकरणासंभवात्, अतिप्रसक्तेः। अथ विकल्पादन्य एव कश्चिद्विकल्प्यमेवार्थ दृश्यमि-त्यध्यवस्यति, हन्त तर्हि स्वदर्शनपरित्यागप्रसङ्गः एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्तेः, तथाहि निर्विकल्पिकम् न विकल्प्यमर्थं साक्षात करोति तदगोचरत्वात्, ततो न तत् दृश्यमर्थ विकल्पेन सहकीकर्तुमलम, नच देशकालस्वभावव्यवहितार्थविषयेषु शाब्दविकल्पेषु तद्विषये निर्विकल्पकसंभवः, तत्कथं तत्र तेन दृश्यविकल्पार्थकीकरणम्? ततो विकल्पादन्यः सर्वत्र दृश्यविकल्पावर्थावकीकुर्वन् बलादात्मैवोपपद्यते? नच सोऽभ्युपगम्यते, तस्माच्छब्दो बाह्यस्यार्थस्य वाचक इत्यकामेनापि प्रतिपत्तव्यम् / इतश्च प्रतिपत्तव्यम्, अन्यथा संकेतस्यापि कर्तुमशक्यत्वात्, तथाहि-येन शब्देन इदं तदित्यादिना सङ्केतो विधेयः तेन कि सङ्केतितेन उताऽसङ्केतितेन, न तावत्सङ्केतितेन अनवस्थाप्रसङ्गात्, तस्यापि हि येन शब्देन सङ्केतः कार्यः तेन किं सङ्केतितेन रतासंकेतितेनत्यादितदेवावर्तते / अथासंकेतितेन सिद्धस्तर्हि शब्दार्थयोस्तिवः सम्बन्ध इति। नं०। आचा एगे सुब्भिसद्दे, एगे दुन्भिसद्दे। (सू०४७x) 'सुभिसदि' त्ति शुभशब्दा मनोज्ञा इत्यर्थः 'दुब्भि' त्ति अशुभोमनोज्ञो यो न भवतीति। एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम्। स्था० 1 टा०। द्विविधःशब्दः-- दुविहे सद्दे पण्णत्ते, तं जहा-भासासद्दे चेव, नो भासासद्दे चेव। भासासद्दे दुविहे पण्णत्ते, तं जहा-अक्खरसंबद्धे चेव, णो अक्खरसंबद्ध चेव। णो भासासहे दुविहे पण्णत्ते, तंजहा-आउज्जसद्दे चेव, णो आउज्जसद्दे चेव। (सू०८१+) 'दुविह' त्यादि अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः / इहानन्तरोद्देशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते इत्येवं सम्बन्धायातस्यास्य व्याख्या, सा च सुकरैव-नवरं भाषाशब्दो-भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः, अक्षरसम्बद्धो वर्णव्यक्तिमान, नो अक्षरसंबन्धरित्वतर इति। आतोद्य-पटहादि तस्य यः शब्दः स तथा नोआतोद्यशब्दोवंशस्फोटादिरवः / स्था० 2 ठाः 3 उ० / (आताद्यशब्दभेदाः 'आउज्ज' शब्दे द्वितीयेभागे 26 पृष्ठे गताः।) दुविहा सद्दा पन्नत्ता, तंजहा–अत्ता चेव, अणत्ता चेव। एवमिट्ठा० जाव मणामा। (सू०५३४) स्था०२ ठा०३ उ०। दशविधः शब्दःदसविहे सद्दे पण्णत्ते, तं जहा-"नीहारि पिंडिमे लुक्खे, मिन्ने जज्जरिए इय। दीहे (र) हस्से पुहत्ते य, काकणी खिंखिणिस्सरे // 11 // " (सू०७०५) 'दसविहे' त्यादि- 'नीहारिसिलोगो' 1 निहारीघोषवान् शब्दो घण्टाशब्दवत, पिण्डेन निवृत्तः पिण्डिमो घोषवर्जितः, ढक्कादिशब्दवत्, रूक्षः काकादिशब्दवत्, भिन्नः कुष्ठाद्युपहतशब्दवत्, झर्झरितो जर्जरितो वा सतन्त्रीककरटिकादिवाद्यशब्दवत्, दीर्घः दीर्घवर्णाश्रितो दूर