________________ सह 363 - अभिधानराजेन्द्रः - भाग 7 सद्द सरन्ती दुर्भिधारेत्यलं दुर्मतिविस्पन्दितेषु प्रयासेन / ननु यदि पारमार्थिक सम्बन्धनिबद्धस्वरूपत्वादिमे शब्दास्तात्त्विकार्थाऽभिधानप्रभाविष्णवः तर्हि दर्शनान्तरनिवेशिपुरुषपरिकल्पितेषु वाच्येष्येतेषां प्रवृत्तिपपोत, परस्परविरुद्धत्वेन तेषामर्थानां स्वरूपतोऽभावात्। यदपि च विनष्टमनुत्पन्नं वा तदापि स्वरूपेण न समस्तीति तत्राऽपि वाचो न प्रवर्तेरन। अपि च-यदि वाचां सद्भूतार्थमन्तरेण न प्रवृत्तिः तहिन कस्याश्चदपि वाचोऽलीकता भवेत, नचैतत् दृश्यते,तस्मात्सर्वमपि पूर्वोक्त मिथ्या / तदप्ययुक्तम्, इह द्विधा शब्दाः-मृषाभाषावर्गण)पादानाः, सत्यभाषावर्गणोपादानाश्च / तत्र ये मृषाभाषावर्गणोपादानाः ते तु तीर्थान्तरीयपरिकल्पिताः कुशास्त्रसंपर्कवशसमुत्थवासनासंपादितसत्ताकाः प्रधानरूपं जगत् ईश्वरकृतं विश्वम्, इत्येवमाकारास्तेऽनर्थका एवाभ्युपगम्यन्ते / ते हि बन्ध्याऽबला इव तदर्थप्राप्त्यादिप्रसवविकलाः केवल तथाविधसंवेदनभोगफला इति न तैय॑भिचारः / अथ तेऽपि सत्याभिमतशब्दा इव प्रतिभासन्ते तत्कथमय सत्यासत्यविवको निर्धारणीयः?, ननु प्रत्यक्षाऽऽभासमपि प्रत्यक्षमिवाऽऽभासत तत स्तत्रापि कथ सत्याऽसत्यप्रत्यक्षविवेकनिर्धारणम्?,स्वरूपविषयषर्यालोचनयेति चत, तथाहि- अभ्यासदशामापन्नाः स्वरूपदर्शनमात्रादेव प्रत्यक्षस्य सत्यासत्यत्वमवधारयन्ति, यथा मणिपरीक्षका मणः, अनभ्यासदशामापन्नास्तु विषयपर्यालोचनया यथा किमयं विषयः सत्य उताहो नेति', तथार्थक्रियासंवाददर्शनतः तद्गतस्वभावलिङ्गदर्शनतो वा सत्यत्वमवगच्छन्ति अन्यथा त्वसत्यत्वमिति। तदेतत स्वरूपविषयपर्यालोचनया सत्यासत्यत्वविवेकनिर्धारणमिहापि समानम् / तथाहिदृश्यन्ते एव कंचित् प्रज्ञातिशयसमन्विताः शब्दश्रवणमात्रादेव पुरुषाणां मिथ्याभाषित्वममिथ्याभाषित्वं वा सम्यक्अवधारयन्तः, विषयसत्यासत्यत्वपर्यालोचनायां तु किमेष वक्ता यथावदाप्त उत नेति। तत्र यदि यथावदाप्त इति निश्चितं ततो विषयसत्यत्वमितरथा त्वसत्यत्वम् / आलेतरविवेकोऽपि परिशीलनेन लिङ्ग तो वा कुतश्चिदवसेयो निपुर्णन हि प्रतिपत्रा भवितव्यम्। यदप्युक्तं यदपि च-विनष्टमनुत्पन्नं वा तदपि न स्वरूपेण समस्तीत्यादि, तत्रापि यदि विनष्टानुत्पन्नयोर्तिमानिकविद्यमानरूपाभिधायकः शब्दः प्रवर्तत तर्हि स निरर्थकोऽभ्युपगम्यत एव, ततो न तेन व्यभिचारः / यदा तु तेऽपि विनष्टानुत्पन्ने विनष्टानुत्पन्न तयाऽभिधत्ते शब्दस्तदा तद्विषयसार्वज्ञज्ञानमिव सद्भूतार्थविषयत्वात सप्रमाणम् / इत्थं चैतदङ्गीकर्तव्यम् / अन्यथाऽतीतकल्पान्तरवर्तिपादिसर्वज्ञदेशना भविष्यच्छंखचक्रवादिदेशना च सर्वथा नोपपद्येत / तद्विषयज्ञाने शब्दप्रवृत्त्यभावात् / अथोच्येत, अनलेऽनलशब्दः तदभिधानस्वभावतया यमभिधेयपरिणाममाश्रित्य प्रवर्तत, स जले नास्ति जलाऽनलयोरभेदप्रसङ्गात् / अथ च प्रवर्तत संकेतवशाजलेऽप्यनलशब्दः तत्कथं शब्दार्थयोर्वास्तवः सम्बन्धः?. तदसत्, शब्दस्यानेकशक्तिसमन्वितत्वेनोक्तदोषानुपपत्तेः, तथाहि नाऽनलशब्दस्याऽनलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानविषय एवैकः स्वभावः,अपितु-समयाधानतत्स्मरणपूर्वकतया विलम्बितादिप्रतीतिनिबन्धनत्वेन जलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानस्थभावोऽपि, तथा तस्यापि प्रतीतेः, अन्यथा निर्हेतुकत्वेनतत्प्रतीत्यभावप्रसङ्गात् / ननु कथमेते शब्दा वस्तुविषयाः प्रतिज्ञायन्ते?, चक्षुरादीन्द्रियसमुत्थबुद्धाविव शाब्दे ज्ञाने वस्तुनोऽप्रतिभासनात्, यदेव चक्षुरादीन्द्रियबुद्धी प्रतिभासते व्यक्त्यन्तराननुयायी प्रतिनियतदशकालं तदेव वस्तु, तस्यैवार्थक्रियासमर्थत्वात्, नेतरत्परपरिकल्पित सामान्य विपर्ययात, नच तदर्थक्रियासमधू वस्तु शाब्दे ज्ञाने प्रतिभासते, तस्मादवस्तुविषया एते शब्दाः / तथा चात्र प्रमाणम्-योऽर्थः शाब्दे ज्ञाने येन शब्देन सह संस्पृष्टो नावभासतेन सः तस्य शब्दस्य विषयः, यथा गोशब्दस्याश्वः। नावभासते चेन्द्रियगम्योऽर्थः, शाब्दे ज्ञानेशब्देन संस्पृष्ट इति। यो हि यस्य शब्दस्यार्थः स तेन शब्देन सह संस्पृष्टः शाब्दे ज्ञाने प्रतिभाराते. यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिबन्धन-त्वाद्वाच्यत्वस्येति / तदेतदसमीचीनम्, इन्द्रियगम्यार्थस्य शाब्द ज्ञाने शब्देन सहानवभासासिद्धेः, तथाहि-कृष्णं महान्तमखण्डं मसृणमपूवम पवष्फात् घटगानयेत्युक्तः कश्चित्तज्ज्ञानावरणक्षयोपशमयुक्तः तमर्थ तथैव प्रत्यक्षा पातिम शाब्दे ज्ञाने प्रतिपद्यते, तदन्यघटमध्ये तदानयनाय तं प्रतिभेदेन प्रवर्त्तनात्, तथैव च तत्प्राप्तेः / अथ तत्राप्यस्फुटरूप एव वस्तुनः प्रतिभासोऽनुभूयते, स्फुटाभश प्रत्यक्षम्, तत्कथं प्रत्यक्षगम्यं वस्तुशाब्दज्ञानस्य विषयः?, नैवदोषः, स्फुटास्फुटरूप-प्रतिभासभेदमात्रेण वस्तुभेदायोगात्, तथाहि-एकस्मिन्नेव नीलवस्तुनिदूरासन्नवर्त्तिप्रतिपतृज्ञाने स्फुटास्फुटप्रतिभासे उपलभ्येते, नच तत्र वस्तुभेदाभ्युपगमः, द्वयोरपि प्रत्यक्षप्रमणतयाऽभ्युपगमात्, तथेहाप्येकस्मिन्नपि वरतुनीन्द्रियजशाब्दज्ञाने स्फुटास्फुटप्रतिभासे भविष्यतः / नच तगोचरवस्तुभेदः / अथ वस्त्वभावेऽपि शाब्दज्ञानप्रतिभासाविशेषात्, सत्यपि वस्तुनिशाब्दज्ञानं न तद्याथात्म्यसंस्पर्शि तद्रावाभावयोरननुविधानात, यस्य हि ज्ञानस्य प्रतिभासो यस्य भावाभावावनुविधत्ते तत्तस्य परिच्छेदकम्, नच शाब्दज्ञानप्रतिभासो वस्तुनो भावाभावावनुविधत्ते, वस्त्वभावेऽपि तदविशेषात्, तन्न वस्तुनः परिच्छेकं शाब्दज्ञानम्, रसज्ञानमिव गन्धस्य / प्रमाणं चात्र, यज ज्ञान यदन्वयव्यतिरेकानुविधायि न भवति न तत्तद्विष यम, यथा रुपज्ञानं रसविषयम्, न भवति चेन्द्रियगम्यार्थान्वयव्यतिरेकानुविधायि शाब्दं ज्ञानमिति व्यापकानुपलब्धः, प्रतिनियतवस्तुविषयत्वं हि ज्ञानस्य निमित्तवत्तया व्याप्तम्, अन्वयव्यतिरेकानुविधानाभावे च निमित्तवत्त्वाभावः स्यात्, निमित्तान्तरासंभवात् तेन तद्विषयवत्त्व निमित्तवत्त्वाभावात् विपक्षाद् व्यापकानुपलब्ध्या व्यावय॑मानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रतिबन्धसिद्धेःतदयुक्तम-प्रत्यक्षज्ञानेऽप्येवमविषयत्वप्रसक्तेः, तथाहि यथा जल-वस्तुनि जलोले खिप्रत्यक्षमुदयपदवीमासादयति, तथा जलाभावेऽपि मरौ मध्याह्नमार्तण्डमरीचिकास्वक्षणजलप्रतिभासमुदयमा--