________________ सह 360 - अभिधानराजेन्द्रः - भाग 7 सह कारतया परिस्फुटमुद्भासमानयोस्तदभिन्न भिन्न वा दर्शनारूढ़ साधारणं रूपमाभाति / अथ कल्पनाबुद्धिह्याकारा अभिधीयते। तथाहि-यदि नाम अपास्तकल्पने दर्शने नजातिरुद्धाति कल्पना तु तामुल्लिखन्ती व्यवसीयते ‘गौरें :' इति,एतदप्यसत्; कल्पनाज्ञानेऽपि जातेरनवभासनात् / तथाहि-कल्पनाऽपि पुरः परिस्फुटमुद्भासमानं व्यक्तिस्वरूपं व्यवस्यन्ती हदि चाभिजल्पाकारं प्रतियते, न च तद्व्यतिरिक्तः वर्णाकृत्यक्षराकार शून्यः प्रतिभासो लक्ष्यते वर्णादिस्वरूपरहितं च जातिस्वरूपमभ्युपगम्यते, तन्न कल्पनावसेयाऽपि जातिः / यच्च क्वचिदपि ज्ञानेनावभाति तदसत, यथा शशविषाणम्, जातिश्च क्वचिदपि ज्ञाने परिस्फुटव्यक्तिप्रतिभासवेलाया स्वरूपेन नाभाति तन्न सती। अथापि शब्द-लिङ्गजे ज्ञाने स्वरूपेण सा प्रतिभाति तत्र सम्बन्धप्रतिपत्तेः, स्वलक्षणस्य च तत्रासाधारणरूपतया प्रतिभास-- नावसायात् सम्बन्धग्रहणासम्भवाच्च तन्न शब्दलिग भूमिः / ननु तत्रापिपरिस्फुटतरो व्यक्तेरेवाकारः शब्दस्य वा प्रतिभाति न तु वर्णाकाररहितोऽनुगतैकस्वरूपः प्रयोजनसामर्थ्यव्यतीतः कश्चिदाकारः केनचिदपि लक्ष्यते, शब्दलिङ्गान्वयं हि दर्शनमर्थक्रियासमर्थतयाऽस्फुटदहनाकारमाददानं प्रवर्तयति जनम्, तत् कथमन्यावभासस्य दर्शनस्याऽन्याकारो जात्यादिविषयः? यदि च जात्यादिरेव लिङ्गादिविषयः तथा सति जाते रथ क्रियासाम र्थ्यविरहादधिगमेऽपि शब्द-लिङ्गाभ्यां न बहिरर्थे प्रवृत्तिर्जनस्ये-ति विफलः शब्दादिप्रयोगः स्यात्। अथ जातेरर्थक्रियासामर्थ्यविरहेऽपि स्वलक्षणं तत्र समर्थमिति तदर्था प्रवृत्तिरर्थिनाम्, ननु तत् स्वलक्षणं लिङ्गादिजे दर्शन सदपि न प्रतिभाति, न चात्मान-मनारूढ़ेऽर्थे विज्ञान प्रवृत्ति विधातुमलम् सर्वस्य सर्वत्र प्रवर्तकत्वप्रसङ्गात्। यत तु तत्र प्रतिभाति सामान्यं न तद् दाहादियोग्यम्, यदपि ज्ञानाभिधानं तस्य फलं मत तदपि पूर्वमेवोदितमिति न तदर्थाऽपि प्रवृत्तिः साध्वी। अथ प्रथमं शब्दलिङ्गाभ्यां जातिरवसीयते ततः पश्चात्तया स्वलक्षणं लक्ष्यते तेन विना तस्या अयोगादिति लक्षितलक्षणया प्रवृत्तिर्भवत्, नैतदपि सम्यक् ; न ात्र क्रमवती:-पूर्व जातिराभाति पश्चात् स्वलक्षणमिति। किञ्च-जात्यापि स्वलक्षण प्रतिनियतेन वा रूपेण लक्ष्येत, साधारणेन वा? तत्र न तावदाद्यः पक्षः, प्रतिनियतरूपस्य स्वलक्षणस्य प्रतिपत्तेरसम्भवात; न हि शब्दानुमावेलायां जातिपरिमित प्रतिनियतं स्वलक्षणमुद्राति सर्वतो व्यावृत्तरूपस्याननुभवात्, अनुभवे वा प्रत्यक्षप्रतिभासाविशेषः स्यात् / न च प्रतिनियतरूपमन्तरेण जातिर्न सम्भवति,तत् कु तरतया तस्य लक्षणम् ? अथापि साधारणेन रूपेण तया स्वलक्षणं लक्ष्यते 'दाहादियोग्यं वह्निमात्रमस्ति' इति तदप्यसत; साधारणस्थापि रूपस्यार्थक्रियाऽसम्भवात् प्रतिनियतस्यैव रूपस्य तत्र सामोपलब्धेः ततश्च तत्प्रतिपत्तावपि कथं प्रवृत्तिः? पुनस्तेनापि साधारणेनापरं साधारण रूपं प्रत्येतव्यम् तेनाप्यपरमिति साधारणरूपप्रतिपत्तिपरम्परा निरवधिर्भवत; तथा चार्थक्रियासमर्थरूपानधिगतेर्वृत्त्यभाव एव। किञ्च यदि नाम जातिराभाति शब्दलिङ्गाभ्याम् व्यक्तेः किमायातम् येन सा तां व्यनक्ति? तयोः सम्बन्धादिति चेत,सम्बन्धस्तयोः किं तदा प्रतीयते,उत पूर्व प्रतिपन्नः? न तावत् / तदा भात्यसौ व्यक्तेरनधिगतेः केवलव हितदा जाति ति यदि तु व्यक्त्तिरपितदा भासेत तदा किलक्षितलक्षणेन? सैव शब्दार्थः स्यात् तदनधिगमे न तत्सम्बन्धाधिगतिः। अथ पूर्वमसौ तत्र प्रतीतः तथापि तदैवासौ भवतु; नोकदा तत्सम्बन्धेऽन्यदापि तथैव भवति अतिप्रसङ्गात्। अथ जातेरिदमेव रूपम्,यदुत विशेषनिष्ठता? ननु 'सर्वदा सर्वत्र जातिर्विशेषनिष्ठा' इति किं प्रत्यक्षेणावगम्यते, यद्वाऽनुमानेन? तत्र न तावत्प्रत्यक्षेण सर्वव्यक्तीनां युगपदप्रतिभासनान्नैकदातन्निष्ठता तेन गृह्यते, क्रमेणापि व्यक्तिप्रतीतौ निस्वधेय॑क्तिपरमारायाः सकलायाः परिच्छेत्तुमशक्यत्वात् तन्निष्ठता न जातेरधिग्न्तुं शक्या / कादाचित्के तु जातेय॑क्तिनिष्ठताऽधिगमे 'सर्वदा न तन्निष्ठता इत्युक्तम्। तन्न प्रत्यक्षेण जातेस्तनिष्ठता प्रतिपत्तुं शक्या। नाप्यनुमानेन, तत्पूर्वकत्वेन तस्य भावनाप्रवृत्तेः / तन्न जात्यपि तदभावे व्यक्तेरधिगमः कर्तुं शक्यः। किञ्च-यदि जातिरभिधानगोचरः तथा सति नीलत्दजातिरुत्प-- लत्वजातिश्च रामपि परस्परभिन्न प्रतीतमिति न सामानधिकरण्यं भवेत्। न परस्परविभिन्नार्थप्रतीतो तद्व्यवस्था 'घटापटः' इति दृश्यते / अथ गुणजाती प्रतिनियतभेकमधिकरण विभ्राते ततस्तद्वारेणैकाधिकरणता शब्दयोः / ननु गुणजातिप्रतीतौ शब्द-जायां न तदधिकरणमाभाति तस्य शब्दागोचरत्वात्, न चानुदासमानवपुरधिकरण सन्निहितमिति न समानाधिकरणताव्यवस्था अतिप्रसङ्गात. पुनरपि तदेव वक्तव्यम्- 'शब्दैरनभिधीय-मानमधिकरणं तदभिहितर्जात्यादिभिराक्षिप्यमाणं तदव्यवस्था-कारि' इति। तत्र च समाधिन सामर्थ्यायातमधिकरणं (मधिकर-णमेकाधिकरणता) शब्दयोः कर्तुमलम, घटपटशब्दयोरपि ता-भ्यामभिहिताभ्यामेकस्य भूतलादेराधारस्याऽऽक्षेपादेकार्थताप्र-सङ्गात् / तथ:-जातिपक्षे धर्मधर्मिभावोऽप्यनुपपन्न एव, यदि हि व्यक्तावाश्रिता जातिः प्रतीयते तदा तद्धर्मः स्यात्, यदा तु व्यक्तिः सत्यपि नाभाति शब्दजे ज्ञाने तदा जातरेव केवलायाः प्रतिभासनात् कथं जाति-जातिमतोधर्मधर्मिभावः? नहि नीलादिः केवलं प्रतीयमानः कस्यचिद्धर्मो धमी वा; यदापि प्रत्यक्ष द्वयं प्रतिभाति तदाऽपि भेदप्रतिभसे सति न धर्मधर्मिभावः, सर्वत्र तथाभाव-प्रसङ्गात्। अथ प्रत्यक्षे ताप्यं प्रतिभासे जाति-व्यक्तयोः तेनायमदोष इति चेत्, अत्रोच्यतेतादूप्येण विज्ञानमिति किं व्यक्तिरूपतया जातेरधिगतिः, अथ जातिरूपतया व्यक्तैरिति? तत्र यद्याद्यः पक्षः तथा सति व्यक्तिरेव गृहीता न जातिः। द्वितीयेऽपि जातिरूपाधिगतिरेव न व्यक्तरितिन सर्वथा धर्मिधर्मभावः। तन्न जातिः शब्दलिङ्ग योर्विषयः / / अथाकृतिविशिष्ता व्यक्तिस्तयोरर्थः, तदप्यसत, तस्यः प्रतिभासाभावात्, न हि शब्द लिङ्गप्रसवे विज्ञानेव्यक्ति(क्त) रूपतया प्रतिभाति, तदभावेऽपि तस्योदयात् अव्यक्ताकारानु भावाच / अथापि व्यक्तेरेवाकारद्वयमेतत् व्यक्तरूपमव्यक्तरूपं चेति। तत्र व्यक्तरूपमिन्द्रियज्ञानभूमिः,अव्यक्तंच शब्दपथः। ननुरूपद्वयंव्यक्तेः केन गृह्यते? नतावदभिधानजेन ज्ञानेन,तत्र स्पष्टरूपानवभासनात अस्पष्टमयंहितद