________________ सद्द 361 - अभिधानराजेन्द्रः - भाग 7 सद्द नुभूयते / नापीन्द्रियज्ञानेन व्यक्तैराकारद्वयं प्रतीयते, तत्र व्य-- क्ताकारस्यैट प्रतिभासनात्; न हि परिस्फुटप्रतिभासवेलायामविशदरूपाकरो व्यक्तिमारूढः प्रतिभाति; तत् कथं व्यक्तेरसायात्मा? अथ 'श्रुतं पश्यामि' इति व्यवसायाद् दृश्यश्रुतयोरेक्ता, ननु किं दृश्यरूपल्या श्रुतमवगम्यते, श्रुतरूपतया वा दृश्यम् ? तत्राद्ये पक्षे दृश्यरूपावभास एवन श्रुतगतिर्भवत्। द्वितीयेऽपि पक्ष श्रुतरूपावगतिरेव व्यक्तः न दृश्यरूपसम्भवः; तस्मात् प्रतिभासरहितमभिमानमात्रमिन्द्रियशब्दार्थयोरध्यवसानम् न तत्त्वम्, अन्यथा दर्शनवच्छाब्दमपि स्फुटप्रतिभार' स्यात्। अथ तत्रेन्द्रियसम्बन्धाऽभावाद्व्यक्तिस्वरूपावभासेऽपि प्रतिपत्तिविशेषः स्यात्, नन्वक्षैरपि स्वरूपमुद्रासनीयम्, तत्र यदि शब्दलिङ्गाभ्यामपि तदेव दीति तथा सतितस्यैवान्यूनातिरिक्तस्य ज्वरूपस्याधिगमे कथं प्रतिपत्तिभेदः? अन्यच्च, प्रत्यक्षेऽपि साक्षादिन्द्रियसम्बन्धोऽस्तीति न स्वरूपेण ज्ञातुं शक्योऽसौ तस्यातीन्द्रियत्वात,किन्तु-स्वरूपप्रतिभासात् कार्या (र्यात्। तच्च वस्तुस्वरूपं गद्यनुमानेऽपि भाति तथा सति तत एवेन्द्रियसम्बन्धः समुन्नीयताम। अथ तत्र परिस्फुटप्रतिभासाऽभावान्नाऽसावनुमीयते; ननु तदभावस्तत्राक्षसङ्गतिविरहात प्रतिपाद्यते तदभावश्च रम्फुटप्रतिभासाभावादिति सोऽयमितरतराश्रयदोषः / अथ व्यक्तिरूपमेकमेव नीलादित्वमुभयत्र प्रतीयते व्यवनाऽव्यक्ताकारौ तु ज्ञानस्यात्मानौ, तत्रोच्यते-- यदि तौ ज्ञानस्याकारी कथं नीलप्रभृतिरूपतया प्रतिभातः? तदूपतया च प्रतिभासनान्नीलाद्याकारावती, नहि व्यक्तरूपतामव्यक्तरूपता च मुक्त्वा नीलादिकमपरमाभाति, तदनवभासात् तस्याभाव एव / व्यक्ताव्यक्लेकात्मनश्व नीलस्य व्यक्ताकारवद् भेदः, नहि प्रतिभासभेदेऽप्येकता अतिप्रसङ्गात् तन्नाक्षशब्दयोरेको विषयः। किनयदि व्यक्तिः शब्द-लिङ्ग योरर्थः तथा सति सम्बन्धवेदन विनव ताभ्यामर्थप्रतीतितिर्भवेत् नहि तत्र तत् तयोः सम्भवति / व्यक्तिर्हि नियतदेशका लादशा (लदशा) परिगता न देशान्तरादिकमनुवर्तत नियतदेशादिरूपाया एव तस्याः प्रतीतेः तथा चैकत्रैकदा सम्बधानुभवेऽन्यस्यार्थस्य कथं प्रतीतिः? अथ व्यक्तीनामेकजात्युपलक्षिते रूपे सम्बन्धादनन्तरा भविष्यति, तदपि न युक्तम्, यतो जात्युपलक्षितमरूपं तासां भिन्नमेव लिङ्गादिगो चरः, तस्याभेदे पूर्वोक्तदोषात; तथा च सम्बन्धाननुभव एव स्यात् / किञ्चव्यक्ती सम्बन्धवेदनं प्रत्यक्षेण, अनुमानेन वा भवेत् प्रत्यक्षेण, तस्य पुरः स्थितरूपमात्रप्रतिभासनात् शब्दस्य वचनयोर्वाच्यवाचकसम्बन्धस्तेन गृह्यते / अर्थन्द्रियज्ञाना रूढे एव रूपे सम्बन्धव्युत्पत्तिर्दृश्यते'इदमेतच्छब्दवाच्यम्' अस्य वेदमभिधानम् इति, अत्र विचार:-'अस्येदं वाचकम्' इति कोऽर्थः-किं प्रतिपादकम, यदि वा–कार्यम्, कारणं वेति? तत्र यदि प्रतिपादकम् तत् किमधुनैव,यद्वाऽन्यदा? तत्र यद्यधुनोच्यते शब्दरूपमर्थस्य प्रतिपादकं विशदेनाकारणेति, तदयुक्तम; अक्षव्यापारेणाधुना विशदाकारेण नीलादेवभासनात्, ततश्चाक्षव्यापार एवाधुना प्रकाशकोऽस्तु न शब्दव्यापारः,तस्य तत्र सामर्थ्यांनधिगतेः / अथान्यदा लोचनपरिस्पन्दाभावे शब्दोऽर्थानुदासयति तदा किं तेनेवाऽऽकारणासौ तानानवभासयति, यद्वा-आकारान्तरेणेति विकल्पद्वयम् / यदि विशदेनाकारेण प्रतिपादयतीत्युच्यते, तदसत्, यतस्तदाप्यसौ चक्षुरादिभिरेव विशदेनाकारणोदास्यतेनशब्देन, तस्य तत्र सामर्थ्यादर्शनात् दर्शनाकाक्षणाका / यदि तु शब्देनेव सोऽर्थः स्वरूपेणेव प्रतिपाद्यते तदाऽस्य सर्वथा प्रतिपन्नत्वात् किमर्थ प्रवृत्तिः? नहि प्रतिपन्न एव तावन्मात्रप्रयोजना वृत्तिर्युक्ता, वृत्तेरविरामप्रसङ्गात्। अथ किञ्चिदप्रतिपन्न रूपं तदर्थं प्रवर्तनम्; ननु यदप्रतिपन्न व्यक्तिरूपं प्रवृत्तिविषयः तत् तर्हि न शब्दार्थ, तदेव च पारमार्थिकम् ततोऽर्थक्रियादणगात,नाव्यक्तम सर्वार्थक्रियाविरहात। अथ कालान्तरे रफुटेतरेणाकारेण व्यक्तीरुदद्योतयन्ति शब्दाः नन्वसावाकारस्तदा सम्बन्धव्युत्पत्तिकाले कालान्तर वा नेन्द्रियगोचरस्तत् कथं तत्र शब्दाः प्रवर्तमाना नयनादिगोचरेऽर्थ वृत्ता भविन्त? तन्नाध्यक्षतःसम्बन्धयेदनम। नाप्यनुमानेन, तदभावे तदनवतारात् / अथाप्यर्थापत्त्या सम्बन्धवेदनम् / तथाहि-व्यवहारकाले शब्दार्थो प्रत्यक्षेप्रतिभातः,श्रोतुश्च शब्दार्थप्रतीति चेष्ट्या प्रतिपद्यन्ते व्यवहारिणः तदन्यथानुपपत्त्या तयोः सम्बन्धं विदन्ति / अत्रोच्यते--सिद्ध्यत्येव काल्पनिकः सम्बन्धः। तथाहि--श्रोतुः प्रतिपत्ति सङ्केतानुसारिणी दृश्यते के (क) लिमाऽऽर्यादिशब्देभ्यो हि द्रविडाऽऽर्ययोविपरीततत्प्रतिपनिदर्शनान्न नियतः सम्बन्धो युक्तः / सर्वगते च तस्मिन सिद्धेऽपि न नियतार्थप्रतिपत्तिर्युक्ता / प्रकरणादिकमपि नियमहेतुः नियतार्थसिद्धौ सर्वमनुपपन्नम् / तथाहि-प्रकरणादयः शब्दधर्मः अर्थधर्मः प्रति-पत्तिधर्मो वा? शब्दधर्म तस्मिन् शब्दरूप नियतार्थप्रतिपत्तिहेतुरिष्ट स्यात्,तच्च सर्वार्थान् प्रति तुल्यत्वात् न युतलम / अर्थोऽपि न नियतरूपः सिद्ध इति न तद्धर्मोऽपि प्रकरणादिः। प्रतिपत्तिधर्मस्तु यदीष्यतेऽसौ तदा काल्पनिक एवार्थनियमः नतात्त्विकः स्यात् / तस्मात् सर्व परदर्शनं ध्यानध्यविजूम्भितम् मनागपि विचाराक्षमत्वात् / तदेवमवस्थितं विचारात् 'न वस्तु शब्दार्थः' इति, किन्तुशब्देभ्यः कल्पना बहिरसिंस्पर्शिन्यः प्रसूयन्ते, ताभ्यश्च शब्दा इति। शब्दानां च कार्यकारणभावमात्र तत्त्वम् नवाच्यवाचकभावः / तथाहि-न जाति-व्यक्त्योर्वाच्यत्वम्, पूर्वोक्तदोषात् / नापि ज्ञानतदाकारयोः, तयोरपि स्वेन रूपेण स्वलक्षणत्वात् अभिधानकार्यत्वाच / शब्दाद विज्ञानमुत्पद्यते न तु तत् तेन प्रतीयते, बहिराध्यवसायात् / कथ त_न्यापाहः शब्दवाच्यः कल्प्यते? लोकाभिमानमात्रेण शब्दार्थोऽन्यापोह इष्यते, लौकिकानां हि शब्दश्रवणात् प्रतीतिः,प्रवृत्तिः,प्राप्तिश्च बहिरर्थे दृश्यते। यदिलोकाभिप्रायोऽनुवय॑ते बहिरर्थस्तर्हि शब्दार्थोऽस्तु तदभिमानात नाऽन्याऽपोहःतदभावात्। अत्रोच्यते-बहिरर्थ एवान्यापोहः तथा चाह– “य एव व्यावृत्तः सैव व्यावृत्तिः" नन्वेवं सति स्वलक्षण शब्दार्थः स्यात्, तदेव विजातीयव्यावृत्तेन रूपेण शब्दभूमिरिष्यतेसजातीयव्यावृत्तस्य रूपस्य शाब्दे प्रतिभासाभावात्-यदि तर्हि विजातीयव्यावृत्तं शब्दर्विकल्पश्चोल्लिख्यते तथा सति तदव्यतिरेकात् सजातीयव्यावृत्तमपि रूप-मधिगतं भवेत्,न; विकल्पानामविद्यास्वभावत्वान्न हि ते स्वलक्षणसंस्पर्शभाजः यतस्तैः सर्वाऽऽकारप्रतीतिदोषः-केवलमभिमानमात्रम्