________________ सद्द 355 - अभिधानराजेन्द्रः - भाग 7 सद्द न्वेष्यते, असदेतत, न टेकस्य वस्तुनो देशाः सन्ति येनैक देशेनाभिधानं रयात् एकत्वानेकत्वयोः परस्परपरिहारस्थितलक्षणत्वात, इति यावन्तस्त एकदेशास्तावन्त्येव भवता वर तूनि प्रतिपादितानीति नैकमनेक सिद्धयेत् / स्यादेतत् न नीलशब्देन द्रव्यमभिधीयते किं तर्हि ? नीलाख्यो गुणः तत्समवेता वा नीलत्वजातिः, उत्पलशब्देनाप्युत्पलजातिरेवोच्यते न द्रव्यम: तेन भिन्ना भिधानादुत्पलादिशब्दान्तराकासा युज्यत एव / नन्वेवं परस्परभिन्नाथप्रतिपादकत्वेन नितरां नीलोत्पलशब्दयोर्न सामानाधिकरण्यम् बकुलोत्पलशब्दयोरिवैकस्मिन्नर्थे वृत्त्यभावात्। अथ नीलशब्दो यद्यपि गुणविशेषवचनस्तथापि तद्वारेण नीलगुणतजातिभ्यां सम्बद्धं द्रव्यमप्याह, तथोत्पलशब्देनापि जातिद्वारे (द्वारेण) तदेव द्रव्यमभिधीयत इति तयोरेकार्थवृत्तिसम्भवात् सामानाधिकरण्यं भविष्यति न बकुलोत्पलशब्दयोरिति, असदेतत्; नीलगुणतजातिसम्बद्धस्य द्रव्यस्य नीलशब्देन प्रतिपादनात् सर्वात्मना उत्पलश्रुतैर्वैयर्थ्यप्रसङ्गात् / स्योदतत् यद्यपि नीलशब्देन गुणतजातिमद् द्रव्यमभिधीयते तथापि नीलशब्दस्यानेकार्थवृत्तिदर्शनात् प्रतिपत्तुरुत्पलार्थ (\) निश्चितरूपा न बुद्धिरुपजायतेकोकिलादेरपि नीलत्वात्-अतोऽर्थान्तरसंशयव्यवच्छेदायोत्पलश्रुतेः प्रयोगः सार्थक एव, तदप्यसम्यक् प्रकृतार्थानभिज्ञतयाभिधानात / विधिशब्दार्थपक्षे कि सामानाधिकरण्यं न सम्भवतीत्येतदत्र प्रकृतम्, यदि चोत्पलशब्दः संशयव्यवच्छेदायैव च्याप्रियते न द्रव्यप्रतिपत्तये न तर्हि विधिः शब्दार्थ: स्यात् उत्पलशब्दन भ्रान्तिसमारोपिताकारव्यवच्छेदमात्रस्यैव प्रतिपादनात्,परस्परविरुद्ध चेदमभिधीयते- 'नीलशब्देनोत्पलादिक द्रव्यमभिधीयते अथं पं प्रतिपत्तुस्तत्र निश्चयो न जायते' इति, न हि यत्र संशयो जायते स शब्दार्थो युक्तःअतिप्रसङ्गात्, नापि निश्चयेन विषयीकृते वस्तुनि संशयोऽवकाशं लभते निश्चयाऽऽरोपमनसोबर्बाध्यबाधक भावात् / स्यादेतत् यद्यपि नीलोत्पलशब्दयोरे करिमन्नर्थे वृत्ति स्ति तदर्थयोस्तु जातिगु (योस्तु गु) णजात्यो रेकस्मिन् द्रव्ये वृत्तिरस्तीत्यतोऽर्थद्वारकमनयो: सामानाधिकरण्यं भविष्यति, तदेतदयुक्तम् अतिप्रसङ्गात एवं हि रूपरसशब्दयो रपि सामानाधिकरण्यं स्यात् तदर्थयो रूप रसयोरेकस्मिन् पृथिव्यादिद्रव्ये वृत्तेः / किञ्च-तर्हि 'नीलोत्पलम' इत्येकार्थविषया बुद्धिर्न प्राप्नोति एकद्रव्यसमवेतयोर्गुणजात्योभ्यां पृथक् पृथगभिधानात्; न चैकार्थविषयज्ञानानुत्पादे शब्दयोः सामानाधिकरण्यमस्तीत्यलमतिप्रसङ्गेन / अथापि स्यात् यदेव नीलगुण-तजातिभ्यां सम्बद्ध वस्तु न तदेवोत्पलशब्देनोच्यते; तेनोत्पलश्रुतिर्व्यर्था न भविष्यति / नन्वेवं भिन्नगुणजात्याश्रयद्रव्यप्रतिपादकत्वान्नीलोत्पलशब्दयोः कुतः सामानाधिकरण्यम् ? अथ यद्यपि यदेव द्रव्यं नीलशब्देनोच्यते-उत्पलशब्देनापि तदेव तथापि नीलशब्दो नोत्पलजातिसम्बन्धिरूपेण द्रव्यमभिधत्ते, किं तर्हि? नीलगुणतजातिसम्बन्धिरूपेणैव, तेनोत्पलत्वजातिसम्बन्धिरूपत्वमस्याभिधातुमुत्पलश्रुतिः प्रवर्तमानानां (ना) नर्थिका भविष्यति, असदेतत्; न हि नीलगुणतजातिसम्बन्धिरूपत्वादन्यदेवोत्पलत्वजातिसम्बन्धिरूपत्वं येन नीलतज्जातिसम्बन्धि रूपत्वाभिधाने द्रव्यस्योत्पलत्वजातिसम्बन्धिरूपत्वाभिधानं (नंन) भवेत, एकरमाद् द्रव्याद् द्वयोरपि सम्बन्धिरूपत्वयोरव्यतिरेकात् तयोरप्येकत्वमेवेत्ययुक्तमेकरू-पाभिधानेऽपररूपस्यानभिधानम्। भवतु वोत्पलत्वसम्बन्धि-रूपत्वं नीलतज्जातिसम्बन्धिरूपत्वादन्यत् तथाऽप्युत्पलश्रुतिर-नर्थिकैव / तथाहि-यत् तद् अनंशं वस्तु उत्पलजात्या सम्बद्धं तदेव नीलगुणतज्जातिभ्यां सम्बद्ध्यते, तच्चानंशत्वात सर्वात्मना नीलश्रुत्यैवाभिहितम् किमपरमनभिहितमस्य स्वरूपमस्ति यद-भिधानायोत्पलश्रुतिः सार्थिका भवेत्। उद्योतकरस्त्वाह- "निरंशं" 'वस्तु सर्वात्मना विषयीकृतं नांशेन' इत्येवं विकल्पो नावतरति, सर्वशब्दस्यानेकार्थविषयत्वात् एकशब्दस्य चावयववृत्तित्वात्" इति, असदेतत्; वाक्यार्थापरिज्ञा--नत एवमभिधानात् / तथाहि- 'प्रथमेनैव नीलशब्देन सर्वात्मना तत प्रकाशितम' इत्यस्यायमर्थो विवक्षितः--यादृशं तद् वस्तु तादृशमेवाभिहितम् न तस्य कश्चित् स्वभावस्त्यक्तः यदभिधानायोत्पलश्रुतियाप्रियेत निरंशत्वात् तस्य, इति वाक्छलमेतत्'कृत्स्नैकदेशविकल्पानुपपत्तिस्तत्र' इति, एवमन्येषामप्यनित्यादिशब्दानां प्रयोगोऽर्थकः, प्रयोगे वा पर्यायत्वमेव स्यात् तरु-- पादपादिशब्दवत / उक्तं च“अन्यथैकेन शब्देन, व्याप्त एकत्र वस्तुनि। बुद्ध्या वा नान्यविषय, इति पर्यायता भवेत्" / / 1 / / इति। अथ भवत्पक्षेऽप्येकेन शब्देनाभिहिते वस्तुनि भेदान्तरे संशयविपर्यासाभावप्रसङ्गः शब्दान्तराप्रवृत्तिप्रसङ्गश्च करमान्न भवति? संवत्या शब्दार्थाभ्युपगमान्नास्माकमयं दोषः। तथाहि-नीलशब्देनानीलपदार्थव्यावृत्तमुत्पलादिषूपप्लवमानरूपतया तेषामप्रतिक्षेपकमध्यवसितबाह्यरूपं विकल्पप्रतिबिम्बकमुपजायतेपुनरुत्पलश्रुत्या तदेवानुत्पलव्यावृत्तमारोपितबाहीक-वस्तुस्वरूपमुपजन्यते; तदेवं क्रमेणानीलानुत्पलव्यावृत्तमध्यवसितबाौकरूपं भ्रान्तं विकल्पप्रतिबिम्बकमुपजन्यत इति तदनुरोधात् सांवृतं सामानाधिकरण्यं युज्यत एव / यदुक्तम्- 'लिङ्गसङ्ख्यादिसम्बन्धोनचापोहस्य विद्यते' इति, अत्र वस्तु-धर्मत्वं लिङ्ग-सङ्ख्यादीनामसिद्धम् स्वतत्रेच्छाविरचितसङ्केत-मात्रभावित्वात् / प्रयोगः- यो यदन्वय-व्यतिरेको नानुविधत्ते नासौ तद्धर्मः, यथा शीतत्वमने:, नानुविधत्ते च लिङ्ग सङ्ग्यादिर्वरतुनोऽन्वय-व्यतिरेकाविति व्यापकानुपलब्धिः / न चायमसिद्धो हेतुः यतोयदि लिङ्गं वस्तुतो वस्तुस्यात्तदैकश्मिस्तटाख्ये वस्तुनि तटः' 'तटम्' इति लिङ्गत्रययोगिशब्दप्रवृत्तेरेकस्य वस्तुनस्रीरूप्यप्रसक्तिः स्यात् / न चैकस्य स्त्री-पुं-नपुंसकाख्यं स्वभावत्रयं युक्तम् एकत्वहानिप्रसङ्गात्, विरुद्धधर्माध्यासितस्याप्येकत्वे सर्वविश्वमेकमेव वस्तु स्यात्। ततश्च सहोत्पत्तिविनाश-प्रसङ्गः। किञ्च-सर्वस्यैव वस्तुन एकशब्देन शब्दान्तरेण वा लिङ्ग त्रय प्रतिपत्तिदर्शनात तद्विषयाणां सर्वचेतसां मेचकादि-- रत्नवच्छबलाभासताप्रसङ्गः / अथ सत्यपि लिङ्गत्रययोगित्वे सति सर्ववस्तूनां यदेव रूपं वक्तुमिष्ट प्रतिपादकेन तन्मात्रावभासान्येव विवक्षावशाचे तांसि भविष्यन्ति न शबलाभासानि; ननु यदि 'विवक्षावशादेकरूपाणि चेतांसि भवन्ति' इत्यङ्गीक्रियते तदा तानि त्र्यात्मकवस्तुविषयाणि न प्राप्नुवन्ति तदाकारशून्यत्वात्, शब्दवि