________________ सह 356 - अभिधानराजेन्द्रः - भाग 7 सद्द षये / योऽपि मन्यते "संस्त्यान-प्रसवस्थितिषु यथाक्रम स्त्रीपुंनपुंसकव्यवस्थाति (स्था" इति) तस्यापि तन्न युक्तम्; यतो यदि स्थित्याद्याश्रया लिङ्ग व्यवस्था तदा तटशृङ्खलादिवत् सर्वपदार्थेष्वविभागेन त्रिलिङ्गताप्रसक्तिः स्थित्यादेविद्यमानत्वात्-अन्यथा 'तट:' 'तटी' 'तटम्' इत्यादावपि लिङ्ग त्रयं न स्यात विशेषाभावात्इत्यतिव्यापिता लक्षणदोषः / व्यभिचारदर्शनाद् वाऽव्यापिता चअसत्यपि हि स्थित्यादिके शशविषाणादिष्वसद्रूपेसु (षु) 'अभावः' निरुपाख्यम् 'तुच्छता' इत्यादिभिः शब्दैः लिङ्ग त्रयप्रतिपत्तिदर्शनात् / इतश्चाव्यापिनीस्थित्यादिष्वेव प्रत्येकं लिङ्गत्रययोगिशब्दप्रवृत्तिदर्शनात् / तथाहि-प्रसव उत्पादः, संस्त्यानं विनाशः, आत्मस्वरूप च स्थितिः; तत्र प्रसवे स्थिति संस्त्यानयोरभावात् कथं 'उत्पादः''उत्पत्तिः' 'जन्म' इत्यादेः स्त्रीपुंनपुंसकलिङ्गस्य शब्दस्य प्रवृत्तिर्भवेत्? तथा, संस्त्याने स्थितीप्रसवयोरभावात् कथं 'तिरोभूतिः' 'विनाशः' 'तिरोभवनम्' इत्यादिभिःशब्दैर्व्यपदिश्यते 'संस्त्यानम्' इत्यनेन च? तथा, स्थितौ संस्त्यान-प्रसवयोर सम्भवात् 'स्थितिः' 'स्थानम्' 'स्वभावः' चेत्यादिभिः शब्दैः कथमुच्यते ? अथ स्थित्यादीनां परस्परमविभक्तरूपत्वात प्रत्येकमेषु लिङ्ग त्रययोगिता, ननु यद्येषां परस्परमविभक्तं रूपं तदैकमेव परमार्थतो लिङ्ग स्यात् न लिङ्ग त्रयम् / अन्यस्त्वाह- "स्त्रीत्वादयो गोत्वादय इव सामान्यविशेषाः" तत्र पक्षे सामान्यविशेषाणामभावा(वात्) स्त्रीत्वादीनामपि तद्रूपाणामभाव इत्यसम्भवि लक्षणम् / किञ्च- तेष्वेव सामान्यविशेषेष्वन्तरेणाप्यपरं सामान्यविशेष 'जातिः' 'भावः' 'सामान्यम्' इत्यादेः स्त्रीपुंनपुंसकलिङ्ग स्य प्रवृत्तिदर्शनात् अव्यापिता च लक्षणस्य, न हि सामान्येष्वपराणि सामान्यानि “निःसामान्यानि" इति वैशेषिकसिद्धान्तात् / यदा तु सामान्यस्याप्यपराणि सामान्यानीष्यन्ते वैयाकरणः-यथोक्तम्"अर्थजात्यभिधानेऽपि, सर्वे जातिविधायिनः / व्यापारलक्षणा यस्मात्,पदार्थाः समवस्थिताः" / / (वाक्यप० तृ० का० श्लो०११) न हि शास्त्रान्तरपरिदृष्टा जातिव्यवस्था नियोगतो वैयाकरणैरभ्युपगन्तव्या, प्रत्ययाभिधानाऽन्वयट्यापारकार्योन्नीयमानरूपा हि जातयः न हि तासामियत्ता काचित, अतो यथोदितकार्यदर्शनात सामान्याधारा जातिः सम्प्रति ज्ञायते तथाभूतप्रत्ययशब्दनिबन्धनम्। 'व्यापारलक्षणा' इति अभिधानप्रत्ययव्यापारतो व्यवस्थितलक्षणा इत्यर्थः तदाऽनन्तरोक्तमेव दूषणम्- 'सामान्यस्याभावात्' इत्यादि / अपि च, न हि असत्सु शशविषाणादिषु जातिरस्ति वस्तुधर्मत्वात् तस्याः, इति तेषु 'अभावआदिशब्दप्रयोगो न स्यात् / तस्मादव्यपिनी लिङ्गव्यवस्थेति इच्छारचित-सङ्केतमात्रभाविन्येवेयं लिङ्ग त्रयव्यवस्थेति स्थितम् / सङ्ख्याया अपि वस्तुगतान्वयव्यतिरेकानुविधानाभावो नासिद्धः / तथाहि-सामायिक्ये (क्येव) न वास्तवी दारादिष्वसत्यपि वास्तवे भेद विवक्षावशेनोपकल्पित्वात्; अन्यथा बहुत्वैकत्वादिसङ्ख्या यस्तुगतभेदाभेदलक्षणा यदि स्यात् तदा 'आपः' 'दाराः' 'सिकताः' 'वर्षाः' इत्यादावसत्यपि वस्तुनो भेदे बहुत्वसङ्ख्या कथं प्रवर्तते? तथा, 'वनम्' 'त्रिभुवनम्' 'जगत्' 'षण्णगरी' इत्यादिष्वसत्यप्य-भेदेऽर्थस्यकत्वसङ्ख्या न व्यपदिश्येत; अतो नासिद्धता हेतोः / नाप्यनेकान्तिकः सर्वस्य सर्वधर्मत्वप्रसङ्गात्, सपक्षे भावाचन विरुद्धः। अत्र च कुमारिलो हेतोरसिद्धता प्रतिपादयन्नाह-दारादिशब्दः कदाचित् जातौ प्रयुज्यते कदाचित् व्यक्ती, तत्र यदा जातौ तदा व्यक्तिगत सङ्ख्यामुपादाय वर्तते व्यक्तयश्च वढयो योषितः,यदा तुव्यक्तौ प्रयुज्यते तदा तद्व्यक्त्वयवानां पाणिपादादीनां बहु-त्वसङ्ख्यामादाय वर्तत। वनशब्देन तु धवखदिरपलाशादिलक्षणा व्यक्तयस्तत्सम्बन्धिभूतवृक्षत्वजातिगतसङ्ख्याविशिष्टाः प्रतिपाद्यन्ते तेन 'वनम्' इत्येकवचन भवति जातिगतैकसंख्याविशिष्टद्रव्याभिधानात् अथवा-धवादिव्यक्तिसमाश्रिता जातिरेव 'वन' शब्देनोच्यते; तेनैकवचनं भवति जातेरेकत्वादिति। नन्वेवं 'वृक्षः' 'घटः' इत्यादावप्येकवचनमुच्छिन्नं स्यात् सर्वत्रैवास्य न्यायस्य तुल्यत्वात्। तथाहि-अत्रापि शक्यमेवं वक्तुम्-'जातौ व्यक्ती वा वृक्षादिश्चेत् प्रयुज्यते' इत्यादि। अथ मतम्-वृक्षादौ व्यक्तेरवयवाना च संख्याविवक्षानास्ति, यद्येवं न तर्हि वस्तुगतान्वयाद्यनुविधायिनी संख्या,विवक्षाया एवान्वयव्यतिरेकानुविधानात् ततश्च सैव 'दार:' इत्यादिषु बहुवचनस्य निबन्धनमस्तु भेदाभावेऽप्येकमपि वस्तु बहुत्वेन विवक्ष्यते इति नाऽसिद्धता हेतोः। यचोक्तम्-'वनशब्दो जातिसंख्याविशेषिता व्यक्तीराह' इति, तत्र,न जातेः संख्याऽस्ति द्रव्यसमाश्रितत्वादस्याः / अथ वैशेषिकप्रक्रिया नाश्रीयते तदा भावे संख्यायास्तया कथं धवादिव्यक्तियो विशषिता सिद्धयन्ति ? स्यादेतत् सम्बद्धसम्बन्धात् तत्सम्बन्धतो वा सिद्ध्यन्ति। तथाहि-यदा जातेर्व्यतिरेकिणी संख्या तदैकत्वसंख्यासम्बद्धया जात्या धवादिव्यक्तीना सम्बन्धात् पारम्पर्येण तया धवादिव्यक्तयो विशेष्यन्ते, यदा तु जातेरव्यतिरिक्तैव सङ्ख्या तदा साक्षादेव सम्बन्धात् तया विशेष्यन्त इतिजातिसङ्ख्याविशेषिताः सिद्ध्यन्ति,असदेतत्, यतो यदि सम्बद्धसम्बन्धात् सम्बन्धतो वा धवादिव्यक्तिषु वनशब्दस्य प्रवृत्तिस्तदेकोऽपि पादपो 'वनम्' इत्युच्येत प्रवृत्तिनिमित्तस्य विद्यमानत्वात् / तथाहि- बहवोऽपि धवादयो जातिसङ्ख्यासम्बन्धादेव 'वनम्' इत्युच्यते नान्यतः स च सम्बन्धः एकस्मिन्नपि पादपेऽस्तीति किमिति नताच्येत अथवा-- 'धवादिव्यक्तिसमाश्रिता' इत्यत्र पक्षे एकस्यापि तरोः 'वनम्' इत्यभिधानं स्यात्। तथाहि यैवासौ वनशब्देनजातिर्बहुव्यक्त्याश्रिताऽभिधीयते सैवैकस्यामपि धवादिव्यक्तौ व्यवस्थिता, ततश्च वनधियों निमित्तस्य सर्वत्र तुल्यत्वाद् एकत्रापि पादपे किमिति वनधीन भवेत्? क्रियाकालादीनां त्वसत्त्वादेवायुक्तं वस्तुधर्मत्वम, भवतु वा वस्तुधर्मत्वमेषां तथापि प्रतिबिम्बलक्षणस्यापोहस्य भ्रान्ति| (न्तैबा) ह्यव्यक्तिरूपत्वेनावसितत्वादध्यवसायववशाद् व्यक्तिद्वारको लिङ्गसङ्ख्यादिसम्बन्धो भविष्यति,तेन यदुक्तम् 'व्यक्तेश्चा-व्यपदेश्यत्वात्, तद्वारेणापि नास्त्यसौ' इति, तदनैकान्तिकम् संवृतिपक्षे चासिद्धम्