________________ सह 353 - अभिधानराजेन्द्रः - भाग 7 सद्द अस्य तात्पर्यार्थः द्विविधो ह्यर्थः-बाह्यो, बुद्ध्यारुढश्च / तत्र बाह्यस्य न परमार्थतोऽभिधानं शब्दैः, केवलं तदध्यवसायिविकल्पोत्पादना- | दुपचारादुक्तग 'शब्दोऽर्थानाह' इति / उपचारस्य च प्रयोजनं जात्यभिधाननिराकरणमिति। अवयवार्थस्तु-'अन्यान्यत्वेन' इति अन्यस्मादन्यत्वं व्यावृत्तिस्तेनान्यान्यत्वेन हेतुना करणेन वा ये वृक्षादयो भावा विशिष्टा निश्चिता अन्यतो व्यावृत्ता निश्चिता इति यावत् : एतेन 'अर्थान्तरनिवृत्तिविशिष्टान्' इत्यत्र पदे 'निवृत्ता' इति ('निवृत्त्या' इति) तृतीयार्थी व्याख्यातः। 'ध्वानः' इतिशब्दः / यस्तु बुद्ध्यारूढोऽर्थस्तस्य मुख्यत एव शब्दैरभिधानम् / 'अयम्' इति ध्वानः / अर्थान्तरनिवृत्तिविशिष्टत्वं कथमेषा योजनीयमित्याशङ्य 'निवृत्त्या विशिष्टत्वमुक्तमेषामनन्तरम्' इत्युक्तम्। एषामपि बुद्धिसमारूढानामर्थानामन्यतो व्यावृत्ततया प्रतिभासनादित्यभिप्रायः / ननु यदि न कश्चिदेव वस्त्वंशः शब्देन प्रतिपाद्यते तत्कथमुक्तमाचार्येण- "अर्थान्तरनिवृत्त्या कश्चिदेव वस्तुनो भागा गम्यते" इति, अर्थान्तरपरावृत्तदर्शनद्वारायातत्वात् बुद्धिप्रतिबिम्बकमर्थान्तरपरावृत्ते वस्तुनि भ्रान्तस्तादात्म्येनाऽऽरो पितत्व चोपचाराद् 'वस्तुनो भागः' इति व्यपदिष्टम् / ननु चार्थान्तरनिवृत्तिर्याह्यवस्तुगतो धर्मः, सा कथं प्रतिबिम्बाधिगमे हेतुभावं करणभावं वा प्रतिपद्यते येन 'निवृत्ता' इति ('निवृत्त्या' इति) उच्यत इति, उच्यते; यदि हि विजातीयाद् व्यावृत्तं वस्तु न स्यात् तदा न तत्प्रतिम्बिक विजातीयपरावृत्तवस्त्वात्मनाऽध्यवसीयतेतस्मादर्थान्तरपरावृत्तेर्हेतुभावः करणभावश्च युज्यत एव। 'नचान्यरूपमन्यादृक् कुर्याद् ज्ञानं विशेषणम्' इत्यादावपि, यदि ह्यन्यव्यावृत्तिरभावरूपा वस्तुनो विशेषणत्वेनाभिप्रेता स्यात् तदेतत् (तदैतत्) सर्व दूषणमुपपद्येत यावता वस्तुस्वरूपैवान्यव्यावृत्तिर्विशेषणत्वेनोपादीयते तेन विशेषणानुरूपेव विशेष्ये बुद्धिर्भवत्येव / तशाहि- अगोनिवृत्तियों गौरभिधीयते सोऽश्वादिभ्यो यदन्यत्वं तत्स्वभावैव नान्या; ततश्च यद्यप्यसौ व्यतिरेकेणागोनिवृत्तिः 'गौः' इत्यभिधीयते भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायाम् तथापि परमार्थतो गोरात्मगतैव सायथाऽन्यत्वम् नहि अन्य (अन्यत्वं) नाम अन्यस्माद्वस्तुनोऽन्यत्-अन्यथा तद वस्तु ततो भिन्नमित्येतन्न सिद्ध्येत् / तस्मात् विशेषणभावेऽप्यन्यव्यावृत्तेर्विशेष्ये वस्तुधीर्भवत्येव / अथ व्यतिरिक्तमेव विशेषणं लोके प्रसिद्धम्; यथा-दण्डः पुरुषस्य, व्यावृत्तिश्चाव्यतिरिक्ता वस्तुनः, तत् कथमसौ तस्य विशेषणम्? असदेतत्; नहि परमार्थेन किश्चित् कस्यचित् विशेषणम् अनुपकारकस्य विशेषणत्वायोगात्, उपकारकत्वे चाङ्गीक्रियमाणे कार्यकाले कारणस्यानवस्थानाद् अयुगपत्कालभाविनोविशेषणविशेष्यभावोऽनुपपन्नः, युगपत्कालभावित्वेऽपि तदानीं सर्वात्मना परिनिष्प”र्न परस्परमुपकारोऽस्तीति न युक्तो विशेषणविशेष्यभाव इतिसर्वभावानां स्वस्वभावव्यवस्थितेरयः शलाकाकल्पत्वात् कल्पनया अमीषां मिश्रीकरणम् / अतः परमार्थतो यद्यपि व्यावृत्तितद्वतोरभेदस्तथापि कल्पनारचित भेदमाश्रित्य विशेषणविशेष्यभावोऽपि भविष्यति / यचोक्तम्- 'यदा वाऽशब्दवाच्यत्वान्न व्यक्तीनाम-पोह्यता' इत्यादि, तत्र 'व्यक्तीनामवाच्यत्वात्' इत्यसिद्धम् / तथाहि-यद् व्यक्तीनामवाच्यत्वमस्माभिर्वर्णितं तत् परमार्थचिन्तायाम् न पुनः संवृत्यापि, तया तु व्यक्तीनामेव वाच्यत्वमविचारितरमणीयतया प्रसिद्धमिति कथं नासिद्धो हेतुः? अथ पारमार्थिकमवाच्यत्वं हेतुल्वेनोपादीयते तदाऽपोह्यत्वमपि परमार्थतो व्यक्तीनां नेष्टमिति सिद्धरााध्यता / यत्रोक्तम्- 'तदापोह्येत सामान्यम्' इत्यादि, तत्रापि 'अपोह्यत्वात्' इत्यस्य हेतोरसिद्धत्वमनैकान्तिकत्वं च, व्यक्तीनामेवा-- पोहस्य प्रतिपादितत्वात् / न चापोहेऽपि वस्तुता, साध्यविपर्यये हेतोर्बाधकप्रमाणाभावात्। यदपि- 'अभावानामपोह्यत्वं न' इत्यादि, तत्र, "नाभावोऽपोह्यते होव, नाभावो भाव इत्ययम्। भावस्तु न तदात्मेति, तस्येष्टवमपोह्यता" / / "यो नाम न यदात्मा हि, स तस्यापोह्य उच्यते। न भावोऽभावरूपश्च. तदपोहे न वस्तुता" || [तत्सर्व०का०१०८१-१०८२] 'नाभावः' इत्येवमभावो नापोह्यते येनाभावरूपतायास्त्यागः स्यात्, कि तर्हि? भावो यः स विधिरूपत्वादभावरूपविवेकनावस्थित इति सामादपोह्यत्वं तस्याभावस्येष्टत्वम् (ष्टम) तदेव स्पष्टीकृतम् 'यो नाम' इत्यादिश्लोकेन। 'तदपोहे' इति तस्याभावस्यैवमपोहे सति न वस्तुता प्राप्नोति / अत्रोभयपक्षप्रसिद्धोदाहरणप्रदर्शनेनानैकान्तिकतामेव स्फुटयति"प्रकृतीशादिजन्यत्वं, न हि वस्तु प्रसिद्ध्यति" / / "नातोऽसतोऽपि भावत्व-मिति क्लेशो न कश्चन" / (तत्त्वसं०का०१०८३-१०८४) तथाहि-प्रकृति-ईश्वर–कालादिकृतत्वं भावाना भवद्भिर्मीमांसकैरपि नेष्यत एव, तस्य च प्रतिषेधे सत्यपि यथा न वस्तुत्वमापद्यते तथा अपोह्यत्वेऽप्यभावस्य वस्तुत्वापत्तिर्न भविष्यतीत्यनेकान्तः। यदुक्तम्'तत्रासतोऽपि वस्तुत्वमिति क्लेशो महान् भवेत्' इति तदप्यनेनैवानैकान्तिकत्वप्रतिपादनेन प्रतिविहित-मिति दर्शयति–'नातोऽसतोऽपि' इत्यादिना / 'तदसिद्धौ न सत्ताऽस्ति, न चासत्ता प्रसिद्ध्यति' / / इति / अत्र अभावस्ययथोक्तेन प्रकारेणासिद्धावपि भावस्य सत्ता सिद्ध्यत्येव, तस्य स्वस्वभावव्यवस्थितत्वात् / या च भावस्य यथोक्तेन प्रकारेण सिद्धिः सैव सत्तेति प्रसिद्ध्यति। एतदेवोक्तम्"अगोतो विनिवृत्तश्च, गौर्विलक्षण इष्यते। भाव एव ततो नाय, गौरगौर्मे प्रसज्यते" / [तत्सर्व० का० 1085] 'भाव एव भवेत्' इति, एतन्नानिष्टापादनम् इष्टत्वात् / तथाहि-- अगोरूपादश्वादेर्गार्भावविशेषरूप एव विलक्षण इष्यतेनाऽभावात्मा; तेन भाव एव भवेत्, अगोतश्च गौलक्षण्यस्येष्टत्वादगोर्न गोत्वप्रसङ्गः / एतेन यदुक्तम्- 'अभावस्य च योऽभावः' इत्यादि, तत् प्रतिविहितम् / यत्रोक्तम्- 'न ह्यवस्तुनि वासना' इति, तत् असिद्धमनैकान्तिकं च / यतः"अवस्तुविषयेऽप्यस्ति, चेतोमात्रविनिर्मिता। विचित्रकल्पनाभेद-रचितेष्विव वासना"।