________________ सद्द 352 - अभिधानराजेन्द्रः - भाग 7 सद्द विविक्तवस्तुसङ्केतादेनिमित्ता व्यावृत्तवस्त्वध्यवसायिनः न त्वर्थाः / तथाहि-वृक्षत्वादिसामान्यरूपेण नैकात्मतांधवादयः प्रतिपद्यन्ते, नापि क्षणिकाऽनात्मकादिधर्मभेदेनखण्डशो भिद्यन्ते, केवल विकल्प एव तथा प्लवते; नत्वर्थः / यथोक्तम् "संसृज्यन्ते न भिद्यन्ते, स्वतोऽर्थाः पारमार्थिकाः। रूपमेकमनेक वा, तेषु बुद्धरुपप्लवः" ||1|| यचोक्तम्- 'न चाप्रसिद्धसारूप्य' -इत्यादि। तत्र.. "एकधर्मान्वयासत्त्वेऽ-प्यपोह्याऽपोहगोचराः। वैलक्षण्येन गम्यन्तेऽ-भिन्नप्रत्यवमर्शकाः" / / (तत्त्वसं० का० 1050) अपोह्याच अपोहगोचराश्चेति विग्रहः। तत्रापोह्या अश्वादयः गोशब्दस्य तदपोहेन प्रवृत्तत्वात्, अपोहगोचराः शायलेयादयः तद्विषयत्वाद् अगोपोहस्य, तेन यद्यप्येकस्य सामान्यरूपस्यान्वयो नास्ति तथाप्यभिन्नप्रत्यवमर्शहतवो ये ते प्रसिद्धसारूप्या भवन्ति, ये तु विपरीतास्ते विपरीता इति। स्यादेतत् तस्यैवैकप्रत्यवमर्शस्य हेतवोऽन्तरेण सामान्यमेक कथमा भिन्नाः सिद्ध्यन्ति? उच्यते"एकप्रत्यवशर्मे हिकेचिदेवोपयोगिनः। प्रकृत्या भेदवन्तोऽपि, नान्य इत्युपपादितम्" / / (तत्त्वस०का० 1051) प्रतिपादितमेतत् सामान्यपरीक्षायाम्-यथा धात्र्यादयोऽन्तरेणापि सामान्यमेकार्थक्रियाकारिणो भवन्ति तथैकप्रत्यवमर्शहतवो भिन्ना अपि भावाः केचिदेव भविष्यन्ति' इति। 'न चान्वयविनिर्मुक्ता' इत्यादावाहयद्यपि सामान्य वस्तुभूतं नास्ति तथापि विजातीयव्यावृत्तस्वलक्षणमात्रेणैवान्वयः क्रियमाणो न विरुध्यते। "यस्मिन्नधूमतो भिन्नं, विद्यते हि स्वलक्षणम्। तस्मिन्ननग्नितोऽप्यस्ति, परावृत्तं स्वलक्षणम्" || "यथा महानसे वेह, विद्यतेऽधूमभेदितत्। तस्मादनग्नितो भिन्न, विद्यतेऽत्र स्वलक्षणम्" / (तत्त्वस० का० 1053-1054) अवयवपञ्चकमपि स्वलक्षणेनान्वये क्रियमाणे शक्योपदर्शनमित्येव प्रयोगप्रदर्शनं कृतम्, इदं च कार्यहतावुदाहरणम् / स्वभावहेतावपि यद् असतो व्यावृत्तं स्वलक्षणं तत् सर्व स्थिरादपि व्यावृत्तम्, यथा बुद्ध्यादि, तथा चेदं शब्दादि स्वलक्षणमसदूपं न भवतीति / अमुना न्यायेन विशेषाऽसंस्पर्शात् स्वलक्षणेनान्वयः क्रियमाणो न विरुध्यते। यदि तर्हि स्वलक्षणेनैवान्वयः कथं सामान्यलक्षणविषयमनुमानम? तदेव हि स्वलक्षणमविवक्षितभेदं सामान्य लक्षण मित्युक्तम् 'सामान्येन भेदापरामर्शन लक्ष्यतेऽध्यवसीयते' इति कृत्वा। तदुवतम्"अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात्। सामान्यविषयं प्रोक्तं लिङ्ग भेदाप्रतिष्ठितः" / / इति तेन साहचर्यमपि | लिङ्गशब्दयोः स्वलक्षणेनैव कथ्यते। न चाप्यदर्शनमात्रेणास्माभिर्विपक्षे लिङ्गस्याभावोऽवसीयते, किं तर्हि? अनुपलम्भविशेषादेव। यच्चोक्तम्'शाबलेय' इत्यादि, तत्रेदं भवान् वक्तुमर्हति- 'शाबलेया बाहुलेयाऽश्वयोस्तुल्येऽपि भेदे किमिति तुरङ्गपरिहारेण गोत्वं शाबलेयादौ वर्तत नाश्वे' इति? स्यादेतत् किमत्र वक्तव्यम् ? गोत्वस्याभिव्यक्ती शाबलेयादिरेव समर्थो नाश्वादिः अतस्तत्रैव तद् वर्तते नान्यत्र / न चाय पर्यनुयोगो युक्तः 'कस्मात् तस्या भिव्यक्तौ शाबलेयादिरेव समर्थः' ? यतो वस्तुस्वभावप्रतिनियमोऽयम्; न हि वस्तूनां स्वभावाः पर्यनुयोगमर्हन्ति तेषां स्वहेतुपरम्पराकृतत्वात् स्वभावभेदप्रतिनियमस्येति / नन्वेव यथा शाबलेयादिरेव गोत्वाभिव्यक्तौ समर्थस्तथा सत्यपि भेद सामान्यमन्तरेणापि तुल्यप्रत्यवमर्शोत्पादने शाबलेयादिरेव शकतो न तुरङ्गम इत्यस्मत्पक्षो न विरुध्यत एव। तेन-- "तादृक् प्रत्यवमर्शश्च, विद्यते यत्र वस्तुनि। तत्राभावेऽपि गोजाते-रगोपोहः प्रवर्तते" / [तत्त्वसं० का० 1060] यचोक्तम्- 'इन्द्रियैः' इत्यादि, तदसिद्धम्, तथाहि-स्वलक्षणात्मा तावदपोह इन्द्रियैरवगम्यत एव, यश्वार्थप्रतिबिम्बात्माऽपोहः स परमार्थतो बुद्धिस्वभावत्वात् स्वसंवेदनप्रत्यक्षत एव सिद्धः, प्रसह्यात्माऽपि सामर्थ्यात् प्रतीयत एव 'न तदात्मा परात्मा' इति न्यायात्; अतः स्वलक्षणादिरूपमपोहं दृष्ट्वा लोकः शब्दं प्रयुक्त एट न वस्तुभूतं सामान्यम्, तस्याऽसत्त्वात् अप्रतिभासनाच्च / यदेव च दृष्ट्वा लोकेन शब्दः प्रयुज्यते तेनेव तस्य सम्बन्धोऽवगम्यते नान्येन अतिप्रसङ्गात्।यच्च'अगोशब्दाभिधेयत्वं गम्यतां च कथं पुनः' इति, अत"तादृक् प्रत्यवमर्शश्व, यत्र नैवास्ति वस्तुनि। अगोशब्दाभिधेयत्वं विस्पष्ट तत्र गम्यते" / [तत्त्वसं० का० 1063 ] यच्चोक्तम्- 'सिद्धश्वागौरपोहोत' इत्यादि, तत्र, स्वत एव हि गवादयो भावाः भिन्नप्रत्यवमर्श जनयन्तो विभागेन सम्यग् निश्चिताः तेषु व्यवहारार्थव्यवहर्तृभिर्यथेष्ट शब्दः सिद्धः प्रयुज्यते। तथाहि-यदि भिन्नं वस्तु स्वरूपप्रतिपत्त्यर्थभन्यपदार्थग्रहणमपेक्षते तदा स्यादितरेतराश्रय दोषः यावताऽन्यग्रहणमन्तरेणैव भिन्न वस्तु संवेद्यते; तस्मिन् भिन्नाकारप्रत्यवमर्शहेतुतया विभागेन 'गौर्गाः' इति च सिद्धे यथेष्ट संकेतः क्रियते इति कथमितरेतराश्रयत्वं भवेत्? यच्चोक्तम्-'नाधाराधेय' - इत्यादि, तत्र, न हि परमार्थतः कश्चिदपोहेन विशिष्टो-ऽर्थः शब्दरभिधीयते / तेनैव यतः प्रतिपादितमेतत्- 'यथा न किञ्चिदपि शब्दैर्वस्तु संस्पृश्यते, क्वचिदपि समयाभावात्' इति / तथाहि-शाब्दी बुद्धिबाह्यार्थविषयाऽपि सतीस्वाकार बाह्यार्थतयाऽध्यवस्यन्ती जायते, न परमार्थतो वस्तुस्वभावं स्पृशति यथातत्त्वमनध्यवसायात् / यद्येवम् कथमाचार्येणोक्तम्-- "नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टान नाहुः" इति। “अन्तिरनिवृत्त्याह, विशिष्टानिति यत् पुनः। प्रोक्तं लक्षणकारेण, तत्रार्थोऽयं विवक्षितः" / / 1068|| "अन्यान्यत्वेन ये भावा, हेतुना करणेन वा। विशिष्टा भिन्नजातीय-रसङ्कीर्णा विनिश्चिताः" // 1066 / / "वृक्षादीनाह तान् ध्वान-स्तद्भावाध्यवसायिनः। ज्ञानस्योत्पादनादेत-ज्जात्यादेः प्रतिषेधनम् / / 1070|| "बुद्धी येऽर्था विवर्तन्ते, तानाह जननादयम्। निवृत्त्या च विशिष्टत्व-मुक्तमेषामनन्तरम्" / / 1071 / / [तत्त्वसं०का०]