________________ सद्द 346 - अभिधानराजेन्द्रः - भाग 7 सद्द वा०) किच- "क्रियारूपत्वादपोहस्य विषयो वक्तव्यः / तत्र 'अगौर्न भवति' इत्ययमपोहः किं गोविषयः, अथागोविषयः? यदिगोविषयः कथं गार्गव्येवाऽभावः? अथो गो विषयः कथमन्यविषयादपोहादन्यत्र प्रतिपत्तिः, न हि खदिरे छिद्यमाने पलाशे छिदा भवति / अथागोर्गवि प्रतिषेधो गौरगौन भवति' इति,केनागोत्वं प्रसक्तं यत्प्रतिषिध्यत इति" (न्यायवा०) "इतश्चायुक्तोऽपोहः विकल्पानुपपत्तेः। तथाहि-योऽयमगोरपोहो गवि स कि गोव्यतिरिक्तः, आहोश्विदव्यतिरिक्तः? यदि व्यतिरिक्तः स | किमाश्रितः अथाऽनाश्रितः? यद्याश्रितस्तदाऽऽश्रितत्वाद् गुणः प्राप्तः, ततश्चगोशब्देन गुणोऽभिधीयते 'न गौः' इति-गौस्तिष्ठति 'गार्गच्छति' इति न साम्गनाधिकरण्यं प्राप्रोतीति / अथानाश्रितस्तदा केनार्थेन 'गोरगोपाहः' इति षष्ठी स्यात्? अथाव्यतिरिक्तस्तदा गौरेवासावितिन किश्चित् कृतं भवति" [न्यायवा० पृ०३३० पं०८-१४] "अय चापोहः प्रतिवस्त्वेकः, अनेको वेति वक्तव्यम् / यद्येकस्तदानेकगोद्रव्यसम्बन्धी गोस्वमेवासौ भवेत् / अथानेकस्ततः पिण्डवदानन्यादाख्यानानुपपत्तेखाच्य एव स्यात्" [न्यायवा० पृ०३३० पं०१५-१७ ] किञ्च-“इदं तावत् प्रष्टव्यो भवति भवान्-किमपोहो वाच्यः, अथावाच्य इति / वाच्यत्वे विधिरूपेण वाच्यः स्यात, अन्यव्यावृत्त्या वा ? तत्र यदि विधिरूपेण तदा नैकान्तिकः शब्दार्थः 'अन्यापोहः शब्दार्थः' इति। अथान्यव्यावृत्त्येतिपक्षस्तदा तस्याप्यन्यप्यवच्छेदस्यापरेणान्वयव्यवच्छेदरूपेणाभिधानम् तस्याप्यपरणेत्यव्यवस्था स्यात। अथावाच्यस्तदा 'अन्य-शब्दार्थापोह शब्दः करोति' इति व्याहन्येत" [न्यायवा० पृ०३३०पं०१८-२२] आचार्यदिनागोक्तम्- "सर्वत्राभेदादाश्रयस्यानुच्छेदात् कृत्स्नार्थपरिसमाप्तेश्च यथाक्रमं जातिधर्मा एकत्वनित्यत्वप्रत्येकपरिसपाप्तिलक्षणा अपोह एवावतिष्ठन्ते; तस्माद् गुणोत्कर्षादर्थान्तरापोह एव शब्दार्थः साधुः" इत्येतदाशङ्कय कुमारिल उप (ह) सह (संहर) नाह"अपि चैकत्व-नित्यत्व-प्रत्येकसमवायित्वाः(ताः)। निरूपाख्यष्वपोहेषु, कुर्वतोऽसूत्रकः पटः" / / "तस्माद् येष्वेव शब्देषु, नञ्योगस्तेषु केवलम्। भवेदन्यनिवृत्त्यशः, स्वात्मैवान्यत्र गम्यते" / / [श्लो० वा० अपो० श्लो० 163-164 ] 'स्वात्मैव' इति स्वरूपमेव विधिलक्षणम्। 'अन्यत्र' इति नत्रा रहिते। तन्नापोहः शब्दार्थ इति भट्टोद्ध्योतकरादयः। (स्वपक्षाक्षेपेषु प्रतिविधातव्येषु पूर्वम् अपोहवादिकृतं स्वमतस्पष्टीकरणम्)अत्र सौगताः प्रतिविदधतिद्विविधोऽस्माकमपोहः पर्युदासलक्षणः, प्रसह्यप्रतिपंधलक्षणश्च / पर्युदासलक्षणोऽपि द्विविधः-बुद्धिप्रतिभासोउर्थेष्वनुगतैकरूपत्वेनाध्यवसितो बुध्द्यात्मा, विजातीयव्यावृत्तस्वलक्षणात्मिकथातत्र यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यलक्षणमेकमर्थ ज्वरादिशमनं कार्यमुपजनयति तथा, शाबलेयादयोऽप्यर्थाः सत्यपि भेद प्रकृतैकाकारपरामर्शहतवो भविष्यन्त्यन्तरेणापि वस्तुभूतं सामान्यम्। तदनुभवबलेन यदुत्पन्नं विकल्पज्ञानंतत्र यदाकारतयाऽर्था (र्थ) प्रतिबिम्बकं ज्ञानादभिन्न-माभाति तत्र 'अन्यापोहः' इतिव्यपदेशः। नचासावर्थाभासो ज्ञानतादात्म्येन व्यवस्थितः सन् बाह्यर्थाभावेऽपि तस्य तत्र प्रतिभासनाद्वाहाकृतः। न चापोहव्यपदेशस्तत्र निर्निमित्तः, मुख्यगौणभेदभिन्नस्य निमित्तस्य सद्भावात्। तथाहि-विकल्पान्तरारोपितप्रतिभासान्तरोदावन (प्रतिभासान्तराद्भेदेन) स्वयं प्रतिभासनात् मुख्यस्तत्र तद्व्यपदेशः 'अपोह्यत इत्यपोहः अन्यस्मादपोहः अन्यापोहः' इति व्युत्पत्तेः। उपचारात् तु त्रिभिः कारणैस्ता तव्यपदेशः-(१) कारणे कार्यधारोपाद्वा अन्यव्यावृत्तवस्तुप्राप्तिहेतुतया, (2) कार्ये वा कारणधर्मोपचारात् अन्यविविक्तवस्तुद्वारायाततया, (3) विजातीया-पोढपदार्थन सहैक्येन भ्रान्तैः प्रतिपत्तृभिरध्यवसितत्वाच्चेति। अर्थस्तु विजातीयव्यावृत्तत्वाद् मुख्यतस्तद्व्यपदेशभाक्। प्रसज्यप्रतिषेध-लक्षणस्त्वपोहः"प्रसज्यप्रतिषेधस्तु, गौरगौन भवत्ययम्। इति विस्पष्ट एवाय–मन्यापोहोऽवगम्यते" / / [तत्त्वस०का०१०१०] तत्र य एव हि शाब्दे ज्ञाने साक्षाद् भासते स एव शब्दाऽर्थो युक्तः। न चात्र प्रसज्यप्रतिषेधावसायः, वाच्याध्यवसितस्य बुद्ध्याकारस्य शब्दजन्यत्यात। नापीन्द्रियज्ञानवद् वस्तुस्वलक्षणप्रतिभासः, किं तर्हि? बाह्यर्थाध्यवसायिनी केवलशाब्दी बुद्धिरुपजायते तेन तदेवार्थप्रतिबिम्बक शाब्दे ज्ञाने साक्षात् तदात्मतया प्रतिभासनाच्छब्दार्थो युक्त इति अपोहत्रये प्रथमोऽपोहव्यपदेशमासादयति। यश्चापि शब्दस्यार्थेन सह वाच्यवाचकभावलक्षणसम्बन्धः प्रसिद्धो नासौ कार्यकारणभावादन्योऽवतिष्ठते, बाह्यरूपतयाऽध्यवसितस्य बुद्ध्याकारस्य शब्दजन्यत्वाद् द्वाच्यवाचकलक्षणसम्बन्धः कार्यकारणभावात्मक एव; तथा चशब्दस्तस्य प्रतिबिम्बात्मनो जनकत्वाद्वाचक उच्यते प्रतिबिम्ब च शब्दजन्यत्वाद् वाच्यम्। ('निषेधमात्रमेव अन्यापोहः' इति मत्वा अपोहपक्षमा क्षिप्तवतः कौमारिलस्य निराकरणम्)तेन यदुक्तम्- 'निषेधमात्रं नैवेह शाब्दे ज्ञानेऽवभासते'। इति, तदसङ्गतम्, निषेधमात्रस्य शब्दार्थत्वानभ्युपगमात्। एवं तावत् प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छन्दैरूपजन्यत्वाद् मुख्यः शब्दार्थो व्यवस्थितः शेषयोरप्यपोहयोर्गाणं शब्दार्थत्वमविरुद्धमेव / तथाहि"साक्षादपि च एकस्मिन्नेवं च प्रतिपादिते। प्रसज्यप्रतिषेधोऽपि,सामर्थ्येन प्रतीयते" / / (तत्वसं०का० 1013) सामर्थ्य च गवादिप्रतिबिम्बात्मनोऽपरप्रतिबिम्बात्मविविक्तत्वात् तदसंयुक्ततया प्रतीयमानत्वम्, तथा तत्प्रतीतौ प्रसज्यलक्षणापोहप्रतीतरप्यवश्यं सम्भवात; अतस्तस्यापि गौणशब्दार्थत्वम्। स्वलक्षणस्यापि गौणशब्दार्थत्वमुपपद्यत एव। तथापि-प्रथम यथावस्थितवस्त्यनुभवः,ततो विवक्षा, ततस्ताल्वादिपरिस्पन्दः,ततःशब्दइत्येवंपरम्परयायदा