________________ सद्द 350 - अभिधानराजेन्द्रः - भाग 7 सद्द शब्दस्य बाह्यार्थेष्वभिसम्बन्धः स्यात् तदा विजातीयव्यावृत्तस्यापि वस्तुनोऽर्थापत्तितोऽधिगम इत्यन्यव्यावृत्तवस्त्वात्माऽपोहशब्दार्थ इत्युपचर्यते। तदुक्तम्“न तदात्मा परात्मेति, सम्बन्धे सति वस्तुभिः / व्यावृत्तवस्त्वधिगमोऽ-प्यर्थादेव भवत्यतः" / / (तत्त्वसं० का० 1014) "तेनायमपि शब्दस्य, स्वार्थ इत्युपचर्यते। न च साक्षादयं शब्दे, द्वि(ब्दै)ि विधोऽपोह उच्यते" / / (तत्त्वसं० का० 1015) इति। (उद्योतकरदूषितस्य दिग्नागकथनस्य अभिप्रायमुद्धाट्य कण्टकोद्धारः)तेनाचार्यदिग्नागस्योपरि यद् उद्योतकरेणोक्तम्- “यदि शब्द-- स्यापोहोऽभिधेयोऽर्थस्तदाऽभिधेयार्थव्यतिरेकेणास्य स्वार्थो वक्तव्यः, अथ स एव स्वार्थस्तथापि व्याहतमेतत् अन्यशब्दाथपोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्त इत्युच्यते इति, अस्य हि | वाक्यस्यायमर्थस्तदानीं भवत्यभिदधानाभिधत्त इति" [अ०२ आ० २सू०६७न्यायवा० / तदेतद्वाक्यार्थापरिज्ञानादुक्तम्। तथाहिस्वलक्षणमपि शब्दस्योपचारात् स्वार्थ इति प्रतिपादितम; अतः स्वलक्षणात्मके स्वार्थेऽर्थान्तरव्यवच्छेदं प्रतिबिम्बान्तराद्व्यावृत्तं प्रतिबिम्बात्मकमपोहं कुर्वती श्रुतिरभिधत्ते इत्युच्यते इत्येतदाचार्याय वचनमविरोधि / अयमाचार्यस्याशयः-न शब्दस्य बाह्यार्थाध्यवसायिविकल्पप्रतिबिम्बोत्पादव्यतिरेकेणान्यो बाह्याभिधानव्यापारः, नियापारत्वात् सर्वधर्माणाम् अतो बाह्यार्थाध्यवसायेन प्रवृत्तं विकल्पप्रतिबिम्ब जनयन्ती श्रुतिःस्वार्थमभिधत्ते इत्युच्यते, न तु विभेदिनं सजातीयविजातीयव्यावृत्तं स्वलक्षणमेषा स्पृशति, तथाविधप्रतिबिम्बजनकत्वव्यतिरे के ण नापरा श्रुते रभिधा क्रियाऽस्तीत्यर्थः। एवंभूते चापोहस्य स्वरूपे नपरोक्तदूषणावकाशः / तेन यदुक्तम्- 'यदि गो रिति शब्दश्च' इत्यादि। तत्र गोबुद्धिमेव हि शब्दो जनयति, अन्यविश्लेषस्तु सामर्थ्यदम्यते न तु शब्दात्तस्य गोप्रतिबिम्ब-स्य प्रतिभासान्तरात्मरहितत्वादन्यथानियतरूपस्य प्रतिपत्तिरेव न स्यात्तेनापरोध्वनिोबुद्धेर्जनको न मृग्यते, गोशब्देनैव गोबुद्धेर्जन्यमानत्वात् / यदपि-- 'ननु ज्ञानफलाश्शब्दाः' इत्यादि कुमारिलवचनं, तदप्यसारं; यतो यथा 'दिवान भुङ्क्ते पीनो देवदत्तः' इत्यस्य वाक्यस्य साक्षाद् दिवाभोजनप्रतिषेधः स्वार्थः, अभिधानसामर्थ्यगम्यस्तु रात्रिभोजनविधिर्न साक्षात्, तद्वत् 'गौः' इत्यादेरन्वयप्रतिपादकस्य शब्दस्यान्वयज्ञानं साक्षात् फलम् व्यतिरेकगतिस्तु सामति, यस्मादन्वयो विधिख्यतिरेकवान्नास्ति विजातीयव्यवच्छेदाव्यभिचारित्वात् तस्य, इत्येक ज्ञानस्य फलद्वयमविरुद्धमेव / यतो यदि साक्षादेकस्य शब्दस्य विधिप्रतिषेधज्ञानलक्षणं फलद्वयं युगपदभिप्रेतं स्यात् तदा भवेद् विरोधः यदा तु दिवाभोजनवाक्यवदेकंसाक्षात् अपरं सामर्थ्यलभ्यं फलमभीष्ट | तदाको विरोधः? यचोक्तम्- 'प्रागगौरिति ज्ञानम्' इत्यादि, तदपि निरस्तम्; अनभ्युपगमात्-न ह्यगोप्रतिषेधमाभिमुख्येन गोशब्दः करोतीत्यभ्युपगतमस्माभिः, किंतर्हि ? सामर्थ्यादिति। यत्रोक्तम् 'अगोनिवृत्तिः सामान्यम्' इत्यादि, तदप्यसत्; बाह्यरूपतयाऽध्यस्तो बुद्ध्याकारः सर्वत्र शाबलेयादौ 'गौर्गाः' इति समानरूपतयावभासनात् सामान्यमित्युच्यते।बाह्यवस्तुरूपत्वमपि तस्य भ्रान्तप्रतिपत्तृपशाद् व्यवहियतेन परमार्थतः। ननु च यदि कदाचित् मुख्यं वस्तुभूतं सामान्य बाह्यवरत्वाश्रितमुपलब्धं भवत्तदा तत्साधर्म्यदर्शनात् तत्र सामान्यभ्रान्तिर्भवत्याक्ता मुख्यार्थासम्भवे सैव भवतामनुपपन्ना, अर-देतत, साधर्म्यदर्शनाद्यनपेक्षद्विचन्द्रादिज्ञानवत् अन्तरुपप्लवादपि तज्झानसम्भवात्; न हि सर्वा भ्रान्तयः साधर्म्यदर्शनादेव भवन्ति किंतर्हि? अन्तरुपप्लवादपीत्यदोष इति सिद्धसाध्यतादोषो न भवति / स एव बुध्द्याकारो बाह्यतयाऽध्यस्तोऽपोहो बाह्यवस्तुभूतं सामान्यमिवोच्यते वस्तुरूपत्वेनाध्यवसायात्, शब्दार्थत्वाऽपोहरूपत्वयोः प्रागेव कारणमुक्तम्'बाह्यार्थाध्यवसायिन्या, बुद्धेः शब्दात समुद्भवात्' 'प्रतिभासान्तराद् भेदात्' इत्यादिना।। कस्मात् पुनः परमार्थतः सामान्यमसौ न भवति? बुद्धेरव्यतिरिक्तत्वेनार्थान्तरानुगमाभावात् / तदुक्तम्- 'ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् / न च भवद्भिर्बुद्ध्याकारो गोत्वाख्य सामान्य वस्तुरूपमिष्टम्, किंतर्हि? बाह्यशाबलेयादिगतमेकमनुगाति गोत्यादि सामान्यमुपकल्पितम्; अतः कुतः सिद्धसाध्यता / यचोक्तम्'निषेधमात्ररूपश्च' इत्यादि, तस्यानभ्युपगतत्वादेव न दोषः / यचेदमुक्तम्-'तस्यां चाश्वादिबुद्धीनाम्' इत्यादि, तदप्यसत् यतः-- "यद्यप्यव्यतिरिक्तोऽयमाकारो बुद्धिरूपतः। तथापि बाह्यरूपत्वं,भ्रान्तैस्तस्याऽवसीयते"। (तत्त्वसं० का० 1026) यदपि 'शब्दार्थोऽर्थानपेक्षः' इति, तत्र यत्र हि पारम्पदि वस्तुनि प्रतिबन्धोऽस्ति तस्य भ्रान्तस्यापि सतो विकल्पस्य मणिप्रभायां मणिबुद्धिवन्न बाह्यार्थानपेक्षत्वमस्ति; अतोऽसिद्धं बाह्यार्थानपेक्षत्वम् / यच्च- 'वस्तुरूपावभासा (रूपा च सा) बुद्धिः' इत्यादि, तत्र यद्यपि वस्तुरूपा सा बुद्धिस्तथापि तस्यास्तेन बाह्यत्मना बुद्ध्यन्तरात्मना च वस्तुत्वं नास्तीति प्रतिपादितम्।तेन 'बुद्ध-बुध्यन्तरापोहो नगम्यते' इत्यसिद्धम् सामर्थ्येन गम्यमानत्वात्। 'असत्यपि च बाह्येऽर्थे इति, अत्र यथैव हि प्रतिबिम्बात्मकः प्रतिभाख्योऽपोहो वाक्यार्थाऽस्माभिरुपवर्णितस्तथैव पदार्थोऽपि, यस्मात्पदादपि प्रतिबिम्बात्मकोऽपोह उत्पद्यत एव, पदार्थोऽपि स एव; अतो न केवल पाक्यार्थ इति विप्रतिपत्तेरभावाद् नोप (पा) लम्भो युक्तः / “बुध्यन्तराद् व्यवच्छेदो न बुद्धेः प्रतीयते” इत्यादावपि यत एव हि स्वरूपोत्पादनमात्रादन्यमंशं सा न बिभर्ति तत एव स्वभाव-व्यवस्थितत्वाद् बुद्धेर्बुध्यन्तराद्व्यवच्छेदः प्रतीयते; अन्यथा-ऽन्यस्वरूपं बिभ्रती कथं ततो व्यवच्छिन्ना प्रतीयते? 'भिन्नसामा-न्यवचनाः' इत्यादावपि यथैव ह्यपोहस्य निःस्वभावत्वादरूपस्य पर-स्परतो भेदो नास्तीत्युच्यतेतथैवाऽभेदोऽपि इति कथमभिन्नार्थाभावे पर्यायत्वासञ्जनं क्रियते ? अभेदो ह्येकरूपत्वम: तच्च नीरूपेष्येक-रूपत्वं नास्तीति न पर्यायता। स्यादेतत् यदि नाम नीरूपेष्वेकरूपत्वं भावो नास्ति तथापि काल्पनिकस्य तस्य भावात् पर्यायतासजन यु