________________ सद्द 348 - अभिधानराजेन्द्रः - भाग 7 सद्द तिपादिता भवता "तद्वतो न वाचकः शब्दः, अस्वतन्त्रत्वात” इति स / व्यावृत्तिमन्मात्रपक्षेऽपि तुल्यः / तथाहि-जातिमन्मात्रे शब्दार्थे सच्छब्दो जातिस्वरूपोपसर्जनं द्रव्यमान साक्षादिति तद्गतघटादिभेदानाक्षेपात् अतद्भेदत्वे सामानाधिकरण्याभावप्रसङ्ग उक्तः; स व्यावृत्तिमन्मात्रपक्षेऽपि समानः-तत्राऽपि हि सच्छब्दो व्यावृत्युपसर्जन द्रव्यमाह न साक्षादिति तद्गतभेदानाक्षेपोऽत्राऽपि समान एव; को पत्र विशेषः जातिव्या (या) वृत्तिर्जातिमव्या (जातिमान व्या) वृत्तिमानिति / न च लिङ्ग सङ्ख्या क्रियाकालादिभिः सम्बन्धोऽपोहस्यावस्तुत्वादयुक्तः एषां वस्तुधर्मत्वात्। न च लिङ्गादिविविक्तः पदार्थः शक्यः शब्देनाभिधातुम्, अतः प्रतीतिबाधाप्रसङ्ग : प्रतिज्ञायाः / न च व्यावृत्त्याधारभूताया व्यक्तेर्वस्तुत्वाल्लिङ्गादिसम्बन्धात् तद्द्वारेणापोहस्याप्यसौ व्यवस्थाप्यः, व्यक्तेर्निर्विकल्पकज्ञानविषयत्वाल्लिङ्ग सङ्खयादिसम्बन्धेन व्यपदेष्ट मशक्यत्वात अपोहस्य तद्वारेण तव्यवस्थाऽसिद्धेः / अव्यापित्वं चापोह. शब्दार्थव्यवस्थायाः, 'पचति' इत्यादिक्रियाशब्देष्वन्यव्यवच्छदाप्रतिपत्तेः। यथा हि घटादिशब्देषु निष्पन्नरूपं पटादिकं निषेध्यमस्ति म तथा पचति' इत्यादिषु, प्रतियोगिनो निष्पन्नस्य कस्यचिदप्रतीतेः। अथ मा भूत् पर्युदासरूपं निषेध्यम्, 'न पचति' इत्येवमादि प्रसज्यरूपं पचति' इत्यादेर्निषेध्यं भविष्यति, असदेतत् 'तन्न (नन) पचति' इत्येवमुच्यमाने प्रसज्यप्रतिषेधस्य निषेध एवोक्तः स्यात्, ततश्च प्रतिषेधद्वयस्य विधिविषयत्वाद् विधिरेव शब्दार्थः प्रसक्तः। किन-- 'पचति' इत्यादौ साध्यत्व प्रतीयते; यस्यां हि क्रियायां केचिदवयवा निष्पन्नाः केचिदनिष्पन्नाः सा पूर्वापरीभूतावयवा क्रिया साध्यत्वप्रत्ययविषयः, तथा- 'अभूत्' 'भविष्यति' इत्यादौ भूतादिकालविशेषप्रतीतिरस्ति, न चापोहस्य साध्यत्वादिसम्भवः निष्पन्नत्वादभावकरसत्वेन, तस्मादपोहशब्दार्थपक्षे साध्यत्वप्रत्ययो भूतादिप्रत्ययश्च निर्मिमित्तः प्राप्नोतीति प्रतीतिबाधा / न च विध्यादावन्यापोहप्रतिपत्तिरस्ति, पर्युदासरूपस्य निषेध्यस्य तत्राभावात्। 'न न पचति देवदत्तः' इत्यादौ च नञा (गो) ऽपरेण कत्रो योगे नैवापोहः,प्रतिषेधद्वयेन विधेरेव संस्पर्शात् / अपि चचादीनां निपातोपसर्गकर्मप्रवचनीयानां पदत्वमिष्टम, न चैषां ना सम्बन्धोऽस्ति असम्बन्धवचनत्वात् / तथाहि-यथा हि घटादिशब्दानाम् 'अघटः' इत्यादौ नञा सम्बन्धेऽर्थान्तरस्य पटादेः परिग्रहात्तद्व्यवच्छेदेन नञा रहितस्य घटशब्दस्यार्थोऽवकल्पते न तथा चादीनांना सम्बन्धोऽस्तिन चासम्बन्ध्यमानस्य नाऽपोहनं युक्तम; अतश्चादिष्वपोहाभावः / अपि च-कल्माषवर्णवच्छबलैक्यरूपो वाक्यार्थ इति नान्यनिवृत्तिस्तत्त्वेन व्यपदेष्टुं शक्या, निष्पन्नरूपस्य प्रतियोगिनोऽप्रतीतेः / या तु 'चैत्र! गामानय' इत्यादावचैत्रादिव्यवच्छेदरूपाऽन्यनिवृत्तिरवयवपरिग्रहण वर्ण्यते सा पदार्थ एवं स्यात् न वाक्यार्थः; तस्यावयवस्येत्थ विवेक्तुम शक्यत्वादित्यव्यापिनी शब्दार्थव्यवस्था। किश्न- 'न अन्यापोहः अनन्यापोहः' इत्यादी शब्दे विधिरूपादन्यद् वाच्य नोपलभ्यते, प्रतिषेधद्वयेन विधेरेवावसायात् / अत्र च 'नत्रश्चापिनजा योगे' इत्यनेनार्थस्य गतत्वेऽपि 'अन्यापोहः शब्दार्थः' इत्येवंवादिनां स्ववचनेनैव विधिरिष्ट इति ज्ञापनार्थ पुनरुक्तम्। तथाहि-अनन्यापोहशब्दस्यान्यापोहः शब्दार्थो व्यवच्छेद्यः, स च विधेनन्यिो लक्ष्यते / ये च प्रमेय-ज्ञेयाऽभिधेयादयः शब्दास्तेषां न किश्चिदपोह्यमस्ति, सर्वस्यैव प्रमेयादिस्वभावत्वात्। तथाहि-यन्नाम किश्चिद्व्यवच्छेद्यमेषां कल्प्यतेतत् सर्व व्यवच्छेद्याकारणालम्ब्यमानं ज्ञेयादिस्वभावमेवावतिष्ठते, न ह्यविषयीकृतंव्यवच्छेत्तुं शक्यम्। अतोऽपोह्याभावादव्यापिनी व्यवस्था। ननु हेतुमुखे निर्दिष्टम् "अज्ञेयं कल्पितं कृत्वा तद्वयवच्छेदेन ज्ञेयेऽनुमानम्" (हेतु०) इति तत् कथमव्यापित्वे कथमव्यापित्वंशब्दार्थव्यवस्थायाः, नैतत्, यतो यदि ज्ञेयमप्यज्ञेयत्वेनापोह्यमस्य कल्पप्यते तदा वरं वस्त्वेव विधिरूपं शब्दार्थत्वेन कल्पितं भवेत् यदध्यवसीयते लोकेन: एवं हादृष्टाध्यारोपी दृष्टापलापश्च न कृतः स्यात्।। (विकल्पप्रतिबिम्बार्थवादिमतमुल्लिख्य तन्निरसनम्)-- ये त्याहु:-"विकल्पप्रतिबिम्बमेव सर्वशब्दानाम:, तदेव चाभिधीयते व्यवच्छिद्यत इति च" तेऽपि न युक्तकारिणः / निरकारा बुद्धिः आकारवान् बाह्योऽर्थः- "स बर्हिर्देशसम्बन्धो विस्पष्टमुपलभ्यते" इत्यादिना ज्ञानाकारस्य निषिद्धत्वात् आन्तरस्य बुद्ध्यारूढरयाकारस्यासत्त्वात्तदवसायकत्वं शब्दाना-मयुक्तम्, अत एव तस्यापो ह्यत्वमप्यनुपपन्नम्।ये च एवम्' इत्यादयः शब्दास्तेषामपि न किश्चिदपोह्यम्, प्रतियोगिनः पर्युदासरूपस्य कस्यचिदभावात्। अथ 'नैवम्' इत्यादिप्रसज्यरूपं प्रतिषेध्यमत्रापि भविष्यति, न; उक्तोत्तरत्वात्। "न नैवमिति निर्देशे, निषेधस्य निषेधनम्। एवमित्यनिषेध्यं तु, स्वरूपेणैव तिष्ठति॥१॥" इति न्यायात्। (अपोहपक्षे उद्द्योतकरकृलानामाक्षेपाणामुपन्यासः)उद्द्योतकरस्त्वाह-"अपोहः शब्दार्थः इत्ययुक्तम् अव्यापकत्वात् / यत्र द्वैराश्यं भवति तत्रेतरप्रतिषेधादितरः प्रतीयते, यथा- 'गौः' इति पदाद् गौः प्रतीयमानः अगौनिषिध्यमानः नपुनः सर्वपद एतदस्ति, न ह्यसर्व नाम किञ्चिदस्ति यत् सर्वशब्देन निवर्तेत / अय मन्यसे एकादि असर्व तत् सर्वशब्देन निवर्त्तत इति, तन्न; स्वार्थापवाददोषप्रसङ्गात् / एवं ह्येकादिव्युदासेन प्रवर्त्तमानः सर्वशब्दोऽङ्गप्रतिषेधादग व्यतिरिक्तस्याङ्गिनोऽनभ्युपगमादनर्थकः स्यात् / अङ्गशब्देन ह्येकदेश उच्यते; एवं सति सर्वे समुदायशब्दा एकदेशप्रतिषेधरूपेण प्रवर्त्तमानाः समुदायिव्यतिरिक्तस्यान्यस्य समुदायस्याऽनभ्युपगमादनर्थकाः प्राप्नुवन्ति। व्यादिशब्दानां तु समुच्चय - विषयत्वादेकादिप्रतिषेधे प्रतिषिध्यमानार्थानामसमुचयत्वादनर्थकत्वं स्यात्" (अ०२ आ०२ सू०६७न्यायवा०) “यश्चायमगोऽपोहोऽगौर्न भवतीति गोशब्दस्यार्थः स किञ्चिद् भावः, अथाऽभावः? भावोऽपि सन् किं गौः, अथागौरिति / यदि गौः नास्ति विवादः / अथाऽगौः, गोशब्दस्यागौरर्थ इत्यतिशब्दार्थकौशलम्। अथाभावः, तन्न युक्तम; प्रैषसम्प्रतिपत्त्योरविषयत्वात् न हि शब्दश्रटणादभावे प्रेष:-प्रतिपादके न श्रोतुरर्थे विनियोगः-प्रतिपादकधर्म:, सम्प्रतिपत्त (त्ति) श्च–श्रोतृधर्मोभवेत्। अपि च शब्दार्थः प्रतीत्या प्रतीयते, न च गोशब्दादभावं कश्चित् प्रतिपद्यते" ( न्याय