SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सद्द 347 - अभिधानराजेन्द्रः - भाग 7 सद्द नायोगेन वासनाधायकविज्ञानाऽभावतो न वासना; ततश्च वासनाऽभावात् कुतो वासनाकृतोऽपोहाना भेदः सद्रूपता वा ? अतो वाच्याभिमतापोहाऽभावः / तथा, वाच्काभिमतस्यापि तस्याभाव एव, तथापि शब्दाना भिनसामान्यवाचिनां विशेषवाचिनां च परस्परतो वासनाभेदनिमित्तो वा स्यात्वाच्या पोहभेदनिमित्तो वा? ननु प्रत्यक्षतएव शब्दानां कारणभंदाद् विरुद्धधर्माध्यासाच भेदः प्रसिद्ध एवेति प्रश्नानुपपत्तिः, असदेतत्, यतो वाचक शब्दमङ्गीकृत्य प्रश्नः, नच श्रोत्रज्ञानावसेयः स्वलक्षणात्मा शब्दो वाचकः, सङ्कतकालानुभूतस्य व्यवहारकाले चिरविनष्टत्वात् तस्य न तेन व्यवहार इति न स्वलक्षणस्य वाचकत्वं भवदभिप्रायेण, अविवादश्वात्र / यथोल्तम"नार्थशब्दविशेषस्य, वाच्यवाचकतेष्यते। तस्य पूर्वम्दृष्टत्वात, सामान्यं तूपदेक्ष्यते" ||1|| इति। तस्माद् वा चकं शब्दमधिकृत्य प्रश्रकरणाददोषः / "तत्र शब्दन्तरापोहे, सामान्ये परिकल्पिते। तथवावस्तुरूपत्वा-च्छब्दभेदोन कल्प्यते" / / [श्लो० वा अपो० श्लो० 104] यथा पूर्वक्तेन विधिना 'संसृष्टकत्वनानात्व' -इत्यादिना वाच्यापोहानः परस्परतो भेदो न घटते तथा शब्दापोहानामपि नीरूपन्चान्नारो युक्तः,यथा च वाचकानां परस्परतो भेदोन सङ्गच्छते एवं वाच्यवाचक योरपि मिथोऽनुपपन्नः, निःस्वभावत्वात्। न चापोह्यभेदाद् भदो भविष्पति, 'न विशेषः स्वतस्तस्य इत्यादिना प्रतिविहितत्वात्। तदेयं प्रतिज्ञायाः प्रतीत्यभ्युपेतबाधा व्यवस्थिता। साम्प्रतं वाच्यवाचकत्वाभावप्रसङ्गापादनादभ्युपे तबाधादिदोष प्रतिपिपाद येषुः प्रमाणयति-ये अवस्तुनी न तयोर्गम्यगमकत्वमस्ति, यथा खपुष्पशशङ्गयोः, अवस्तुनी च वाच्यवाचकापोही भवतामिति व्यापकविरुद्धोपलब्धिः / ननु च मेघाभावाद् वृष्ट्यभावप्रतीतेर्हेतोरनैकान्तिकता, अयुक्तमेतत्, यस्मात् तद्विविक्ताकाशाऽऽलोकात्मकं च वस्तु मत्पक्षेऽत्रापि प्रयोगो (गे) ऽस्त्येव, अभावस्य वस्तुत्वप्रतिपादनात्। भवत्पक्षेतुन केवलमपोहयोर्विवादास्पदीभूतयोर्गम्य-गमकत्वं नयुक्तम् अपि त्वेतदपिवृष्टिमेघाभावयोगम्यग मकत्वमयुक्तमेव। किचयदेतद्भवद्भिरन्वयापसर्जनयोर्व्यतिरेकप्रधानयोः स्वविषयप्रतिपादकत्वं शब्दलिङ्गयोर्वर्ण्यत,यच्च"अदृष्टर यशब्दार्थे , स्वार्थस्याशेऽपि दर्शनात्। श्रुतेः सम्बन्धसॉकर्य, न चास्ति व्यभिचारिता" ||1|| इत्यादिवर्णितम् तदप्यपोहाभ्युपगमेऽसङ्गतम्, यतः"विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते। न भवेद् व्यतिरेकोऽपि, तस्य तत्पूर्वको ह्यसौं” / / [लो० सा० अपो० श्लो० 110] विधिनिवृत्तिलक्षणत्याद व्यति- | रेकस्येति भावः। किञ्च-नीलोत्पलादिशब्दानां विशेषणविशेष्यभावः सामानाधिकरण्यं | च यदेतल्लोकप्रतीतं तस्यापह्नवोऽपोहवादिनः प्रसक्तः / यकोदं विशेषणटिशेष्यभावसामानाधिकरण्यसमर्थनार्थमुच्यते “अपोह्यभेदा भिन्नार्था,स्वार्थभदगतौ जड़ा। एकत्वाभिन्नकार्यत्वाद, विशेषणविशेष्यता" / / 1 / / "तन्मात्राकानणाद् भेदः, स्वसामान्येन नोज्झितः। नोपत्तिः संशयोत्पत्तेः, सैव चैकार्थता तयोः" / 2 / / इति, तदप्यमनुपपन्नम्, यतः परस्परं व्यवच्छेदा (द्य) व्यवच्छेदकभावी विशेषणविशेष्यभावः स च बाह्य (वाक्य) एव व्यवस्थाप्यते यथा 'नीली (नीलमु) त्पलम्' इति। व्यधिकरणयोरपि यथा 'राज्ञः पुरुषः' इत्यादी। भिन्ननिमित्तप्रयुक्त योस्तु शब्दयोरेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम,तच 'नीलोत्पलम्' इत्यादौ वृत्तावेव व्यवस्थाप्यते / न च नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु तत्सिद्धिः, शबलार्थाभिधायित्वं च तेषाम- "न हि तत् केवलं नील, न च केवलमुत्पलम् / समुदायाभिधेयत्वात्,” इत्यादिना प्रतिपादितम्। यतः अनीलत्वव्युदासेऽनुत्पलव्युदासौ नास्ति, नाप्यनुत्पलप्रच्युतावनीलव्युदास इति नाऽनयोः परस्परमाधाराधेयसम्बन्धोऽस्ति नीलरूप (नीरूप) त्वात्: न चासति सम्बन्धे विशेषणविशेष्यभावो युक्तः अतिप्रगसङ्गात्; अतो युष्मन्मतेनाभाववाचित्वाच्छबलार्थाभिधायित्वासम्भवान्न विशेषणविशेष्यभावो युक्तः / अभिधेयद्वारेणैव हि तदभिधायिनोः शब्दयोर्विशेषणविशेष्यभाव उपचर्यत, अभिधेये च तस्यासम्भवेऽभिधानेऽपि कुतस्तदारोपः? सामानाधिकरण्यमपि नीलोत्पलशब्दयोन सम्भवति, तद्वाच्ययोरनीलानुत्पलव्यवच्छेद-लक्षणयोरपोहयोभिन्नत्वात् / तब भवद्भिरेव- 'अपोह्यभेदाद् भिन्नार्था' इत्यभिधानादवसीयते / प्रयोगःन नीलोत्पलादिशब्दाः समानाधिकरणव्यवहारविषयाः, भिन्नविषयत्वात्, घटादि-शब्दवत्। न च यत्रैव ह्यर्थेऽनुत्पलव्युदासो वर्त्तते तत्रैवानीलव्युदासोऽपीति नीलोत्पल-शब्दवाच्ययोरपोहयोरेकस्मिन्नर्थे वृत्तेः अर्थद्वारक सामानाधिकरण्यं शब्दयोरपीति वक्तुं युक्तम्, अपोहयोनीरूपत्वेन क्वचिदवस्थाना-सम्भवतो वास्तवाधेयतायोगाद् वन्ध्यासुतस्येव / भवतु वा नीलोत्पलादिष्वर्थेषु तयोराधेयता तथापि सा विद्यमानापिनशब्दैः प्रतिपाद्यते, यतस्तदेवासाधारणत्वान्नीलोत्पलादि वस्तु न शब्दगम्यम्, स्वलक्षणस्य सर्वविकल्पातीतत्वात् तदप्रतिपत्तौ च तदधिकरणयोर-पोहयोस्तदाधेयता कथं गृहीतु शक्या धम्मिग्रहणनान्तरीयकत्वाद् धर्मग्रहणस्य ? न चासाधारणवस्तुव्यतिरकण तयोरन्यदधिकरणं सम्भवति भवदभिप्रायेण / न चाप्रतीयमानं सदपि सामानाधिकरण्यव्यवहाराङ्गम् अतिप्रसङ्गात्। न च व्यावृत्तिमद् वस्तु शब्दवाच्यम्-यतो व्यावृत्तिद्वयोपाधिकयोः शब्दयोरेकस्मिन्नपोहवति वस्तुनि वृत्तः सामानाधिकरण्यं भवेत्-परतन्त्रत्वाद् नीलादिशब्दस्येतरभेदाना-क्षेपकत्वात्; स हि व्यावृत्त्युपसर्जन तद्वन्तमर्थमाह न साक्षात् ततश्च साक्षादनभिधानात् तद्गतभेदाक्षेपो न सम्भवति, यथा.मधुरशब्देन शुक्लादेः / यद्यपि शुक्लादीना मधुरादिभेदत्वमस्ति तथापि शब्दस्य साक्षादभिहितार्थगतस्यैव भेदस्याक्षेपे सामर्थ्यम् न तु पारतन्त्र्यणाभिहितार्थगतस्य; ततश्च नीलादिशब्देन तद्ग-तभेदानाक्षेपात् उत्पलादीनामतनेदत्वं स्यात्; अतड़ेदत्वे च न सामान्याधिकरण्यम, तेन जातिमन्मात्रपक्षे यो दोषः प्र
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy