________________ सह 346 - अभिधानराजेन्द्रः - भाग 7 सद्द तर्हि ? वस्त्येव, अतोऽपोहस्य बोधासम्भवाद् न तेन स्वबुद्धया रज्यतेऽश्वादि / न चाज्ञातोऽप्यपोहो विशेषणं भवति, न ह्यगृहीतविशेषणा विशेष्ये बुद्धिरुपजायमाना दृष्टा; भवतु वाऽपोहज्ञानम् तथापि वस्तुनि तदाकारबुझ्यभावात् तस्य तद्विशेषणत्वमयुक्तम्, सर्वमेव हि विशेषणं स्वाकारानुरूपा विशेष्ये बुद्धि जनयद् दृष्टम्, न त्वन्यादृर्श विशेषणमन्यादृशी बुद्धि विशेष्ये जनयति; न हि नीलमुत्पले 'रक्तम' इति प्रत्ययमुत्पादयति, दण्डो वा 'कुण्डली' इति; न चात्राश्वादिष्वभावानुरक्ता शाब्दी बुद्धिरुपजायते, किं तर्हि? भावाकाराध्यवसायिनी। यदि पुनर्विशेषणाननुरूपतयाऽन्यथा व्यवस्थितेऽपि विशेष्ये साध्वी विशेषणकल्पना तथासतिसर्वमेव नीलादिसर्वस्य विशेषणमित्यव्यवस्था स्यात्। नाप्यपोहेनापि स्वबुद्ध्या विशेष्यं वस्त्वनुरज्यते इति वक्तव्यम्, तथा ऽभ्युपगमे अभावरूपेण वस्तुनः प्रतीतेर्वस्तुत्वमेव न स्यात् भावाभावयोर्विरोधात्। एतदेवाह"न चासाधारणं वस्तु, गम्यतेऽपोहवत्तया। कथं वा परिकल्प्येत, सम्बन्धो वस्त्ववस्तुनोः॥" "स्वरूपसत्त्वमात्रेण न स्यात् किञ्चिद् विशेषणम्। स्वबुद्ध्या रज्यते येन, विशेष्यं तद् विशेषणम्॥" "न चाप्यश्वादिशब्देभ्यो, जायतेऽपोहबोधनम्। विशेष्यबुद्धिरिष्टह, न चाज्ञातविशेषणा।" "न चान्यरूपमन्यादृक, कुर्याज ज्ञानं विशेषणम्। कथं चान्यादृशे ज्ञाने, तदुच्येत विशेषणम्।" “अथान्यथा विशेष्येऽपि, स्याद् विशेषणकल्पना। तथासति हि यत् किश्चित्, प्रसज्येत विशेषणम्" / / "अभावगम्यरूपे च न विशेष्येऽस्ति वस्तुता। विशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः" / / [श्लो० वा० अपो० श्लो० 86-87-88-60-61] इतिअथान्यव्यावृत्ते एव वस्तुनि शब्द-लिङ्गयोः प्रवृत्तिर्दृश्यते नापोहरहिते अतोऽपोहः शब्द-लिङ्गाभ्यां प्रतिपाद्यत इत्यभिधीयतेन प्रसज्यप्रतिधमात्रप्रतिपादनात् अत एव न प्रतीत्यादिविरोधोद्भावनं युक्तम्, असदेतत्, यतो यदि नाम तद्वस्त्वन्यतो व्यावृत्तं तथापि तत्रोत्पद्यमानः शब्द-लिङ्गोद्भवो बोधोऽन्यव्यावृत्तिं सतीमपि नावलम्बते, कि तर्हि ? वस्त्वंशमेवाभिधावति, तत्रैवानुरागात् / य एव चांशो वस्तुनः शाब्देन लैङ्गिकेन वा प्रत्ययेनावसीयते स एव तस्य विषयः नानवसीयमानः सन्नपि, न हि मालतीशब्दस्य गन्धादयो विद्यमानतया वाच्या व्यवस्थाप्यन्ते। नचाप्येतदु (धु) क्तम् यद् अन्यव्यावृत्ते वस्तुनि शब्द-लिङ्गयोः प्रवृत्तिः यतोऽन्यव्यावृत्तं वस्तुभवतां मतेन स्वलक्षणमेवं भवेत् न च तत् शब्दलिङ्गजायां बुद्धौ विपरिवर्त्तत इति, तस्य निर्विकल्पकबुद्धिविषयत्वात भवदभिप्रायेण शब्दलिङ्गजबुद्धश्च सामान्यवियत्वात् / न चासाधारणं वस्तु शाब्दलिङ्गजप्रत्ययाधिगम्यम्, तत्र विकल्पाना प्रत्यस्तमयात्। तथाहि-विकल्पो जात्यादिविशेषणसंस्पर्शेनैव प्रवर्तते न शुद्धवस्तूपग्रहणे, न च शब्देनागम्यमानमप्यसाधारण वस्तु व्यावृत्त्या विशिष्टमित्यभिधातुं शक्यम् / यतः "शब्देनागम्यमानं च, विशेष्यमिति साहसम्। तेन सामान्यमेष्टव्यं, विषयो बुद्धि-शब्दयोः" / / [श्लो० वा० अपो० श्लो०६४] इतश्व सामान्य वस्तुभूतं शब्दविषयः यतो व्यक्तीनामसाधारणवस्तुरूपाणामवाच्यत्वान्नापोह्यता अनुक्तस्य निराकर्तुमशक्यत्वात्, अपोह्येत सामान्यम् तस्य वाच्यत्वात्, अपोहानां त्वभाव-रूपतयाऽपोह्यत्वासम्भावात् तत्त्वे वा वस्तुत्वमेव स्यात्-तथाहि यद्यपाहानामपोह्यत्वं भवेत् तदेषामभावरूपत्वं विप्रतिषिद्धं भवेत्, प्रतिषेध च सति अभावैरभावरूपत्वं त्यक्तं स्यात्, तत-श्वाभावानाम-पोहलक्षणानाम भावरूपत्यागाद्वस्तुत्वमेव भवेत्, तच्चन शब्दविषयः-यद्वाऽभावानामभावाभावात् नाभावस्वभावा अपोहा अपोह्या युज्यन्ते, वस्तुविषयत्वात् प्रतिषेधस्य, तरमादश्वादौ गवादेपोहो भवन सामान्यस्यैवेति निश्चीयत इति सिद्धमपोह्यत्वाद्वस्तुत्वं सामान्यस्य। तदुक्तम्"यदा वा शब्दवाच्यत्वा-न्न व्यक्तीनामपोह्यता। तदाऽपोह्येत सामान्य, तस्यापोहाच वस्तुता" / / "नापोह्यत्वमभावाना-मभावाऽभावधर्जनात्। व्यक्तोऽपोहान्तरेऽपोहस्तस्मात् सामान्यवस्तुनः" / / [श्लो० वा० अपो० श्लो०६५-६६] इति। अपि च, अपोहाना परस्परतो वैलक्षण्यमवैलक्षण्यं वा ? तत्राद्ये पक्ष अभावस्यागौशब्दस्याभिधेयस्याभावो गोशब्दाभिधेयः, स चेत पूर्वोक्तादभावाद् विलक्षणस्तदा भाव एव भवेत् अभावनिवृत्ति रूपल्याद् भावस्य / न चेद् विलक्षणस्तदा गौरप्यगौः प्रसज्येत, तदवै लक्षण्येन तादात्म्यप्रतिपत्तेः / स्यादेतत् गवाश्वादिशब्दैः स्वलणान्येव परस्परता व्यावृत्तान्यपोह्यन्ते नाभावा तेनापोह्यत्वेन वस्तुत्वप्रसङ्गापादन नाऽनिष्टम्, असदेतत्; यद्यपि सच्छब्दादन्येषु गवादिशब्देषु वस्तुन (नः पर्वतादेपोह्यता सिद्ध्यति सच्छब्दस्य त्वभावाख्यादप'ह्यान्नान्यदपोह्यमस्ति असद्व्यवच्छेदेन सच्छब्दस्य प्रवृत्तत्वात; ततश्च पूर्ववदभावाभाववर्जनाद् असतोऽपोहे वस्तुत्वमेव स्याद् इत्यपोहवादिनोऽभ्युपगमविरुद्धाऽसद्वस्तुत्वप्रसक्तिः / अथास्त्वभावस्यापि वस्तुत्वम्, न, अभावस्यापि सि (स्याऽसिद्धौ कस्यचिद्भावस्यैवासिद्धेः, अभावव्यवच्छेदेन तस्य भवन्मतेन स्थितलक्षणत्वात्। अभावस्य वाऽपोहात्वे सति वस्तुत्वप्रसङ्गेनस्वरूपासिद्धरसत्त्वमपिन सिद्ध्यति; तस्य सत्त्वव्यवच्छेदरूपत्वात्, सत्त्वस्य च यथोक्तेन प्रकारेणायोगात्। नचात्र-"अपोझैः संबहिः संस्थितैर्भिद्यते” इत्यादौ “अवस्तुत्वादपोहानां नैव भेदः" इत्यादी च 'न खल्वपोह्यभेदादाधारभेदाद् वाऽपोहानां भेदः, अपित्वनादिकालप्रवृत्तविचित्रवितथार्थविकल्पवासनाभेदान्वयैस्तत्त्वतो निर्विषयरप्यभिन्नविषयालम्बिभिर्भिनरिव प्रत्ययभिन्नष्वर्थेषु बाह्येषु भिन्ना इवार्थात्मानझ्वास्वभावा अप्यपोहाः समारोप्यन्ते, तेचैवंतथा तैः समारोपिला भिन्नाः सन्तश्च प्रतिभासन्ते येन वा-सनाभेदाद् भेदः सद्रूपता वाऽपोहानां भविष्यति' इत्ययं परिहारो वक्तु युक्तः यतो न हावस्तुनि वासना सम्भवति, वासना-हेतोर्निर्विषयप्रत्ययस्यायोगात्,तदभावाविल्यार्थाना विकल्पानामसम्भवात् आलम्बनभूते वस्तुन्यसति निर्विषयज्ञा--