________________ सद्द 345 - अभिधानराजेन्द्रः - भाग 7 सद्द तद्भेदोऽवकल्प्यते। तथाहि-यदि गवादीना वस्तुभूतं सारूप्यं प्रसद्धि भवेत् तदा श्वाद्यपोहाश्रयत्वमेषामविशेषेण सिद्धयेत [त] नान्यथा, अतोऽपोहविषयत्वमषामिच्छताऽवश्यं सारूप्यमड़ीकर्तव्यम्, तदेव च सामान्य वस्तुभूतं शब्दवाच्यं भविष्यतीत्यपोहकल्पना व्यर्थव / अपोह्यभेदोऽपि वस्तुभूतसामान्यमन्तरेण न सिद्धिमासदयति / तथाहि यद्यश्वादीनामेकः कश्चित् सर्वव्यक्तिसाधारणो धर्मोऽनुगामी स्यात् तदा ते सर्वे गव दिशब्दैरविशेषेणापोहोरन् नान्यथा, विशेषापरिज्ञानात् / साधारणधर्माभ्युपगमे चापोहकल्पनावैयर्थ्यम्। अपि च-अपोहःशब्दलिङ्गाभ्याम्व प्रतिपाद्यत इति भवद्भिरिष्यते, शब्दलिङ्गयाश्च वस्तु भूतसामान्यमन्तरेण प्रवृत्तिरनुपपन्नेति नातोऽपोहप्रतिपत्तिः। तथाहिअनुगतवस्तुव्यतिरेकेण न शब्दलिङ्गाभ्यां न शब्द लिङ्गयोः प्रवृत्तिः,न च शब्दलिडाभ्यां ] विनाऽपोहप्रतिपत्तिः, न चासाधारणस्यान्वयः, तदेयमपोह कल्पनायां शब्दलिङ्गयोः प्रवृत्तिरेव न प्राप्रोति, प्रवृत्तौ वा प्रामाण्यम-युपगतं हीयेत। तथाहि-प्रतिपाद्या व्यभिचारित्वं / तयां प्रामाण्यम्, अपोहश्च प्रतिपाद्यत्वेन भवताऽभ्युपगम्यमानो - ऽभावरूपलान्निःस्वभाव इति क्व तयोरव्यभिचारित्वम् ? न च विजातीयादर्शनमााणैव शब्दलिङ्गे अगृहीतसाहचर्ये एव स्वमर्थ गमयिष्यतः, विजातीयादर्शनमात्रेण गमकत्वाभ्युपगमे स्वार्थः परार्थ इति विशेषानुपपत्तेः तथा च स्वार्थमपि न गमयेत् तत्र अदृष्टत्वात् परार्थवत्। तदेवं शब्दलिगयारप्रामाण्याभ्युपगमप्रसङ्गान्नापोहः शब्दार्थो युक्तः / यदि वा-असत्यपि सारूप्ये शाबलेयादिष्वगोऽपोहकल्पना तदा गवाश्वस्यापि करमान्न कल्प्येतासौ अविशेषात्। तदुक्तं कुमारिलेन"अथासत्यपि सारूप्ये, स्यादपोहस्य कल्पना। गवाश्वयोग्य कस्मा-दगोपोहो न कल्प्यते" / / [लो०व० अपो० श्लो०७६ ] 'वाश्वटो:' इति “गवाश्वप्रभृतीनि च" (पाणि०-२-४-११) / इत्यकवद्भवलक्षणास्मरणादुक्तम् / अविशेषप्रतिपादनार्थ स एव पुनरप्युक्त वान"भाबलेयाच भिन्नत्वं, बाहुलेयाश्वयोः समम्। सामान्य नान्यदिष्ट चेत्, वागोऽपोहः प्रवर्त्तताम्"?|| (श्लो०व० अपो० श्लो०७७) यथैव हि शाबलेयाद् वैलक्षण्यादश्वे न प्रवर्त्तते तथा बाहुलेयस्यापि | तता वैलक्ष्ण्यमस्तीति न तत्राप्यसौ प्रवर्तेत; एवं शाबलेयादिष्वपि योज्यम्, सर्वत्र वैलक्षण्याविशेषात् / अपि च यथा स्वलक्षणादिषु समयासमवान्न शब्दार्थत्वम् तथाऽपोहेऽपि / तथाहि-निश्चितार्थो हि समयकृत् समयं करोति; न चापोहः के नचिदिन्द्रियेय॑वसीयते, व्यवहारात पूर्व तस्याऽवस्तुत्वात् इन्द्रियाणां च वस्तुविषयत्वात् / न चान्यव्यावृत्तं स्वलक्षणमुपलभ्य शब्दः प्रयोक्ष्यते, अन्यापोहादन्यत्र शब्दवृत्तेः प्रवृत्त्यनभ्युपगमात् / नाप्यनुमाने नापोहाध्यवसायः, “न चान्वयनिविनिर्मुक्ता प्रवृत्तिः शब्दलिङ्गयोः" इत्यादिना तत्प्रतिषेधस्य तत्राक्तत्व त् / तस्मात् 'अकृतसमयत्वात्' इत्यस्य हेतोरनैकान्तिकत्वमपोहेन, अकृतसमयत्वेऽप्यपोहे शब्दप्रवृत्त्यभ्युपगमात्। इतश्चापोहे सङ्केतासम्भवः अतिप्रसक्तेः। तथाहि-कथमश्चादीनां गोशब्दानभिधेयत्वम् ? सम्बन्धानुभवक्षणेऽश्वादेस्तद्विषयत्वेनादृष्टरिति चेत्, असदेतत्; यतो यदियद गोशब्दसङ्केतकाले उपलब्धततोऽन्यत्र गोशब्दप्रवृत्तिर्नेष्यत तदैकस्मात् सङ्केतेन विषयीकृताच्छाबलेया-दिकाद गोपिण्डादन्यद् वाहुलेयादि गोशब्देनापोह्य भवेत्, ततश्च सामान्य वाच्यमित्येतन्न सिध्ोत् / इतरेतराश्रयदोषप्रसक्तेश्चा-पोहे सङ्केतोऽशक्यक्रियः / तथाहि-अगोव्यवच्छेदेन गोः प्रति-पत्तिः, स चागौर्गानिषेधात्मा; ततश्च 'अगौः' इत्यत्रोत्तरपदार्थो वक्तव्यः यो 'न गौरगौः' इत्यत्र नञा प्रतिषिध्येत, न ह्यनितिस्वरूपस्य निषेधः शक्यते विधातुम्। अथापि स्यात् किमत्र वक्तव्यम्--अगोनिवृत्त्यात्मा गौः, नन्वेवमगोनिवृत्तिस्वभावत्वाद् गोरगोप्रतिपत्तिद्वारेणेव प्रतीतिः, अगोश्च गोप्रतिषेधा.. त्मकत्वाद् गोप्रतिपत्तिद्वारिकैव प्रतीतिरिति स्फुटमितरेतराश्रयत्वम्। अथाप्यगोशब्देन यो गौनिषिध्यते स विधिरूप एव अगोवव्यच्छेदमल (दल) क्षणापोहसिद्ध्यर्थम् तेनेतरेतराश्रयत्वं न भविष्यति / यद्येवं 'सर्वस्य शब्दरयापोहार्थः' इत्येवमपोहकल्पना वृथा, विधिरूपस्यापि शब्दार्थस्य भावात। अतः (अतोन) कश्चिद् विधिरूपः शब्दार्थः प्रसिद्धोऽङ्गीकर्तव्यः तदनङ्गीकरणे चेतरेतराश्रयदोषो दुर्निवारः। तदुक्तम्"सिद्धश्वागौरपोह्येत, गोनिषेधात्मकश्च सः / तत्र गौरव वक्तव्यो, नया यः प्रतिषिध्यते" / / “स चेदगोनिवृत्त्यात्मा भवेदन्योऽन्यसंश्रयः। सिद्धश्चेद् गौरपोहाथ , वृथाऽपोहप्रकल्पनम्" / / "गव्यसिद्धे त्वगौ स्ति, तदभावेऽपि गौः कुतः।" [श्लो० वा० अपो० श्लो०८३-८४-८५ अर्द्ध] इति। "नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानर्थानाहुः" इत्याचार्यदिग्नागेन विशेष्यविशेषणभावसमर्थनार्थ यदुक्तं तदयुक्तमिति दर्शयन्नाह भट्टः- “नाधाराधेयवृत्त्यादि-सम्बन्धश्वाप्यभावयोः" / / [ श्लो० वा० अपो० श्लो० 85 ] यस्य हि येन सह कश्चिद् वास्तवः सम्बन्धः सिद्धो भवेत् तत् तेन विशिष्ट मिति युक्त वक्तुम्। न च नीलोत्पलयोरनीलानुत्पल व्यवच्छे दरूपत्वे नाभावारू पयोराधाराधेयादिः सम्बन्धः सम्भवति, नीरूपत्वात् / आदिग्रहणेन संयोगसमवायकार्थसमवायादिसम्बन्धग्रहणम् / न चासति वास्तवे राम्बन्धे तद्विशिष्टरय प्रतिपत्तिर्युक्ता, अतिप्रसङ्गात् / अथापि स्यात् नैवास्माकमनीलादिव्यावृत्त्या विशिष्टोऽनुत्पलादिव्यवच्छेदोऽभिमतः थतोऽयं दोषः स्यात्; किं तर्हि ? अनीलानुत्पलाभ्यां व्यावृत्तं वस्त्वेव तथा व्यवस्थितं तदर्थान्तरनिवृत्त्या विशिष्टं शब्दे नोच्यत इत्ययमर्थोऽत्राभिप्रेतः, असदेतत, स्वलक्षणस्यावाच्यत्वात् तत्पक्षभाविदोषप्रसङ्गाच / न च स्वलक्षणस्यान्यनिवृत्त्या विशिष्टत्वंसा (सि)ध्यति यता न वस्त्वपोहः, असाधारणं तु वस्तु / न च वस्त्ववस्तुनोयुक्तः, वस्तुद्वयाधारत्वात् तस्य / भवतु वा सम्बन्धस्तथापि विशेषणत्वमपोहरयायुक्तम्, न हि सत्तामात्रेणोत्पलादीनां नीलादि विशेषणं भवति, कि तर्हि ? ज्ञातंसदयत्रवाकारानुरक्तया बुध्द्या विशेष्यंरञ्जयतितद्विशेषणम,न चापोहेऽयं प्रकारः सम्भवति, न हाश्वादिबुद्ध्याऽपोहोऽध्यवसीयते, कि