SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सह 341 - अभिधानराजेन्द्रः - भाग 7 सह ति नान्यथा-अतिप्रसङ्गात्- शब्दभेदस्मरणकाले च चिरनिरुद्ध | स्वलक्षणमिति / अजातवज्जातेऽपि कथं समयः समयक्रियाकाले द्वयोरप्यसन्निहितत्वात् ? तथाहि-अनुभवावस्थायामपि तावतत्कारणतया स्वलक्षणं क्षणिकं न सन्निहितसत्ताकं भवति, कि पुनरनुभवोत्तरकालभाविनामभेदाभोगस्मरणोत्पादकाले भविष्यति? 'नापि तज्जातीये तत्सामर्थ्यबलोपजाते समयक्रियाकालभाविनि क्षणे समयः संभवति तस्याऽन्यत्वात् / यद्यपि समयक्रियाकाले सन्निहितं क्षणान्तरमास्ते तथापि तत्र समयाभोगाऽसंभवान्न समयो युक्तः, नह्यश्वमुपलभ्य तन्नामस्मरणोपक्रमपूर्वकं समयं कुर्वाणस्तत्काल- / सन्निहिते गवादावाभोगाविषयीकृते 'अश्वः' इति समय समयकृत्करोति / अथापि स्यात्सर्वेषां स्वलक्षणानां सादृश्यमस्ति तेनैक्यमध्यवस्य समयः करिष्यते। असदेतत्; यतो विकल्पबुद्ध्याऽध्यारोपितं सादृश्य,तस्य च ध्वनिभिः प्रतिपादने स्वलक्षणमवाच्यमेवेति नस्वलक्षणे समयः। नाऽपि शब्दस्वलक्षणस्य / तथाहि-स्वसमयकृतस्मृत्युपस्थापितमेव नामभेदमर्थेन योजयति, नच स्मृतिर्भावतोऽनुभूतमेवाभिलापमुपस्थापयितुं शक्नोति तस्य चिरनिरुद्धत्वात्, यं चोचारयति तस्य पूर्वमननुभूतत्यान्न तत्र स्मृतिः, न चाविषयीकृतस्तया समुत्थापयितुं शक्यः, अतः स्मृत्युपस्थापितमनुसंधीयमानं विकल्पनिनिमित्तत्वेनास्वलक्षणमेवेति न स्वलक्षणत्वेऽस्य समयः। तस्मादव्यपदेश्य स्वलक्षणमिति सिद्धम् / (सम्म०) नैयायिकास्तु- "व्यक्त्याकृतिजातयस्तु पदार्थः (न्यायद० अ० 2 आ० 2 सू०६५) इति, प्रतिपन्नाः / तत्र व्यक्तिशब्देन द्रव्यगुणविशेषकमाण्यभिधीयन्ते (सम्म०1) ('गुणविसेसासय' शब्देतृतीयभागे 640 पृष्ठेऽत्रत्या वक्तव्यता गता) तथा च सूत्रम्-"आकृतिर्जातिलिङ्गाख्या" (न्यायद० अ०२ आ०२ सू०६७) इति / अस्य भाष्यम्- “यया जातिर्जातिलिङ्गानि च व्याख्यायन्ते तामाकृतिं विद्यात् सा च सत्त्वावयवानाम् / तदवयवानां च नियतो व्यूहः" (न्यायद० वात्स्या० भा० पृ० 225) व्यूहशब्देन संयोगविशेष उच्यते, नियतग्रहणेन कृत्रिमसंयोगनिरासः, तत्र जातिलिङ्गानि प्राण्यवयवाः शिरः-पाण्यादयः तैर्हि गोत्वादिलक्षणा जातिर्लिङ्गयते, आकृत्या तुकदाचित् साक्षाज्जातिय॑ज्यते यदा शिर:पाण्यादिसन्निवेशदर्शनाद् गोत्वं व्यज्यते. कदाचिज्जातिलिङ्गानि यदा विषाणादिभिरवयवैः पृथक् पृथक् स्वावयवसन्निवेशाभिव्यक्तैर्गोत्वादिय॑ज्यते; तेन जातेस्तल्लिङ्गानां च प्रख्यापिका भवत्याकृतिः। जातिशब्देनाभिन्नाभिधान-प्रत्यय प्रसवनिमित्तं सामान्याख्य वस्तूच्यते / तथा च सूत्रम्- “समानप्रत्ययप्रसवात्मिका जातिः" (न्यायद० अ०२ आ०२ सू०६८) इति समानप्रत्ययोत्पत्तिकारण जातिरित्यर्थः / तत्र व्यक्त्याकृत्योः एतेनैव स्वलक्षणस्य शब्दार्थत्वनिराकरणेन शब्दार्थत्वं निराकृतम्। तथाहि-यथा स्वलक्षणस्याकृतसमयत्वादशब्दार्थत्वं तथा तयोरपीति 'अकृतसमयत्वात्' इत्यस्य हेतो सिद्धिः, नाप्यनैकान्तिकता / अपि च-व्यक्तिर्द्रव्यगुणविशेषकर्मलक्षणा, आकृतिश्च संयोगात्मिका, एतेच द्रव्यादयः प्रति-षिद्धत्वाद् असन्तः कथं शब्दार्थतामुपयान्ति? (2-5 जाति-तद्योग-तद्वत्सु संकेतासंभवप्रदर्शनम्)-एवं स्वलक्षणवज्जाति-तद्योग-जातिमत्स्वपि-जात्यादेरसम्भवात्समयासम्भवः / यथा च जातेस्तद्योगस्य च समवायस्यासम्भवस्तथा प्रागेव प्रतिपादितम्, जाति-तद्योगयोश्वाभावे तद्वतोऽप्यसम्भव एव तत्कृतत्वात् तद्व्यपदेशस्य, तद्वतश्च स्व-लक्षणात्मकत्वात्तत्पक्षभावी दोषः समान एव। (पदवाच्यविषयाणि वाजध्यायन व्याडि पाणिनीनां मतानि)- "जातिःपदार्थः इति वाजध्यायनः।" "द्रव्यम्” इति व्याडिः। "उभयम्” पाणिनिः। तदप्यनेनैव निरस्तम् जातेरयोगाद् द्रव्यस्य च स्वलक्षणात्मक-त्वात् तत्पक्षभाविदोषानतिवृत्तेः। (बुध्द्याकारे समयासंभवसाधनम्)बुध्द्याकारेऽपि न समयः सम्भवति, तस्य बुद्धितादात्म्येन व्यवस्थितत्वाद् नासौ तद्बुद्धिस्वरूपवत् प्रतिपाद्यमर्थ बुद्धयन्तरं वाऽनुगच्छति; ततश्च सङ्केत-व्यवहारकालाव्यापकत्वात्स्वल-क्षणवत् कथं तत्रापि समयः? भवतु वा तस्य व्यवहारकालान्वयस्तथापि न तत्र समयो व्यवहर्तृणां युक्तः / तथाहि- 'अपि नामेतः शब्दादर्थक्रि. यार्थी पुभानर्थक्रियाक्षमानर्थान् विज्ञाय प्रवर्त्तिष्यते' इति मन्यमानैर्व्यवहतृभिरभिधायका ध्वनयो नियोज्यन्ते न व्यसनितया; न चासौविकल्पो बुध्द्याकारोऽभिप्रेतशीताऽपनोदादिकार्य तदर्थिनः सम्पादयितुमलम् तदनुभवोत्पत्तावपि तदभावात्, तेन तत्रापि समयाभावान्नासिद्धः 'अकृतसमयत्वात्' इति हेतुः। ('अस्त्यर्थादयः शब्दार्थाः' इति वादिनां पक्षसप्तके निरूपयितव्ये प्रथमम् अस्त्यर्थवादिमतम)अथ अस्त्यर्थादयोऽपरे शब्दार्थाः सन्ति, ततश्च तत्र समयसम्भ-- वादसिद्धतैव हेतोः / तथाहि- 'अस्त्यर्थः' इति यदेतत् प्रतीयते तदेव सर्वशब्दानामभिधयं न विशेषः, यथैव ह्यपूर्वदेवतादि-शब्दा नार्थाकारं विशेष बुद्धिषु सन्निवेशयन्ति केवल तत्रैतावत् प्रतीयते- 'सन्ति केऽप्यर्थाः येष्वपूर्वादयः शब्दाः प्रयुज्यन्ते' तथा दृष्टार्थेष्वपि गवादिशब्देष्वेतत् तुल्यम्, यतस्तेभ्योऽप्येवं प्रतीतिरुपजायते- 'अस्ति कोऽप्यर्थो यो गवादिशब्दाभिधेयो गोत्वादिः' यस्तु तत्राकारविशेषपरिग्रहः केषाञ्चिदुपजायते स तेषां सिद्धान्तबलात् : न तु शब्दात्। (समुदायार्थवादिमतम्)अपरे "ब्राह्मणादिशब्दैस्तपो-जाति-श्रुतादिसमुदायो विना विकल्पसमुचायाभ्यामभिधीयते,यथा वनादिशब्दैर्धवादयः" इत्याहुः। तथाहि'वनम्' इत्युक्ते 'धवो' (वो वा) खदिरो वा' इति न विकल्पेन प्रतीतिरुपजायते, नापि 'धवश्वखदिरश्च' इति समुचयेन; अपि तुसामस्त्येन प्रतीयन्ते धवादयः तथा 'ब्रह्मणः' इत्युक्ते 'तपो वा जातिर्वा श्रुतं वा' 'तपश्च जातिश्च श्रुतं च' न प्रतिपत्तिर्भवति; अपि तुसाकल्येन सम्बन्ध्यन्तरव्यवच्छिन्नास्तपःप्रभृतयः संहताः प्रतीयन्त इति / बहुष्वनियतैकसमुदायिभेदावधारणं विकल्पः, एकत्र युगपदभिसम्बन्ध्यमानस्य नियतस्यैकस्य (तस्यानेकस्य) स्वरूपभेदावधारण समुच्चयः, तद्व्यतिरेकेणात्र प्रतिपत्तिर्लोकप्रतीतैव। {असत्यसंबन्धपदार्थवादिमतम् ]अपरे "द्रव्यत्वादिभिरनिर्धारितरूपैर्यः सम्बन्धो द्रव्या
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy