________________ सद्द 340 - अभिधानराजेन्द्रः - भाग 7 सद्द नाध्युपपन्नो भवेत्, एतत्तस्य भिक्षोः सामर, यम् / शेषं पूर्ववत् / इह च सर्वत्राय दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति। [चतुर्थसप्तैककाध्ययनमादित एकादशं समाप्तम्। आचा०२ श्रु०२ चू० 4 अ० / अत्र 'अपोह' शब्दार्थ इति पूर्वम् 'आगम' शब्दे 2 भागे 65 पृष्ठे उक्तम्। अथेहापि किञ्चिद्वक्तव्यशेषमभिधीयते। भवतु वा सामान्य तथापि तस्य स्वभेदेभ्योऽर्थान्तरत्वे भिन्ने स्वभेदाध्यवसायो भ्रान्तिरेव / नह्यन्येनान्ये समानायुक्तास्तद्वतो नाम स्युरनान्तरत्वेऽपि सामान्यस्य सर्वमेव विश्वमेकं वस्तु परमार्थत इति। तत्र सामान्यप्रत्ययो भ्रान्तिरेव न होकवस्तुविषयः समानप्रत्ययः भेदग्रहणपुरःसरत्वात्तस्य भान्तत्वे च सिद्धे निर्विषयत्वमपि सिद्धं स्वाकारार्पणेन जनकस्य कस्यचिदर्थस्यालम्बनलक्षणस्य प्राप्तस्याभावात्। अन्यथा वा निर्विषयत्वं, तथाहियत्रैव कृतसमया ध्वनयस्स एव तेषामर्थो युक्तो नान्योऽतिप्रसङ्गात् / नच क्वचिद्वस्तुन्येषां परमार्थतः समयः संभवतीति निर्विषया ध्वनयः, प्रयोगः-ये यत्र भावतः कृतसमया न भवन्ति न ते परमार्थतस्तमभिदधति यथा सास्नादिमति पिण्डेऽश्वशब्दोऽकृतसमयः, न भवन्ति च भावतः कृतसमयाः सर्वस्मिन्वस्तुनि सवें ध्वनय इति व्यापकानुपलब्धिः, कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात्तस्य चेहाभावः। [संकेता संभवसाधनाय स्वलक्षणाद्यर्थभेदेन विकल्पपञ्चविधानम् ] - नचायमसिद्धो हेतुः / तथाहि-गृहीतसमयं वस्तु शब्दार्थत्वेन व्य-- वस्थाप्यमानं स्वलक्षणं वा व्यवस्थाप्येत, जातिर्वा, तद्योगो वा, जातिमान्वा पदार्थः, बुद्धेर्वा आकारः इति विकल्पाः / सर्वेष्वपि समया संभावन्न युक्तं शब्दार्थत्वं तत्त्वतः; सांवृतस्य तु शब्दार्थत्वस्य न निषेध इति न स्ववचनविरोधः प्रतिज्ञायाः। एवं ह्यसौ स्यात्-स्वलक्षणादीन शब्देनाऽप्रतिपाद्य न शक्यमशब्दार्थत्वमेषां प्रतिपादयितुं, तत्प्रतिपिपादयिषया च शब्देन स्वलक्षणादीनुपदर्शयता शब्दार्थत्वमेषामभ्युपेयं स्यात् / पुनश्च तदेव प्रति-ज्ञया प्रतिषिद्धमिति स्ववचनव्याघातः, नचासावभ्युपगम्यत इति। एतेन यदुक्तमुद्द्योतकरेण-भाष्यकारेण"अवाचकत्वे शब्दानां प्रतिज्ञाहेत्वोयाघातः, [आ०२, आ०२ सू०६७ न्यायवा०] इति, तदपि प्रत्युक्तं भवति; नहि सर्वथा शब्दार्थापवादोऽस्माभिः क्रियते। आगोपालेभ्योऽपि प्रतीतत्वात्तस्य, किंतु-तात्विकत्वं धर्मः परैर्यस्तत्रारोप्यते तस्यैव निषेधो न तु धमिणः / [१स्वलक्षणे संकेतासंभवसाधतम् ] - तत्र -स्वलक्षणेन तावत् समयः संभवति, शब्दस्य समयो, हि व्यवहाराऽर्थ क्रियते न व्यसनितया, तेन यत्रैव सङ्केतव्यवहारकालव्यापकत्वमस्ति तत्रैव स व्यवहर्तृणां युक्तो नान्यत्र, न च स्वलक्षणस्य संकेतव्यवहारकालव्यापकत्वमस्ति तस्मान्न तत्र समयः संकेतव्यवहारकालाऽव्यापकत्वं च शाबलेयादिव्यक्तीनां देशादि भेदेन परस्परतोऽत्यन्तट्यावृत्ततयाऽनन्वयात्तत्रैकत्र कृतसमयस्य पुंसोऽन्यर्व्यवहारो न स्यादिति / तत्र समयाऽभावान्नासिद्धता हेतोः / नचाप्य- | नैकान्तिकत्वं, व्याप्तिसिद्धेः, तथाहि-यद्यगृहीत-संकेतमर्थ शब्दः प्रतिपादयेत्तदा गोशब्दोऽप्यश्व प्रतिपादयेत्सं-केतकरणानर्थक्य च स्यात्, तस्मादतिप्रसङ्गापत्तिबर्बाधकं प्रमाण–मिति कथं न व्याप्तिसिद्धिः? अयमेव वा अकृतसमयत्वादिति हेतुराचार्यदिग्नागेन “न जातिशब्दो भेदानां वाचक; आनन्त्यात्" इत्यनेन निर्दिष्टः, तथाहि- "आनन्त्याद्" इत्यनेन समयाऽसंभव एव दर्शितः / तेन यदुक्तमुद्द्योतकरेण- "यदि शब्दान्पक्षयसि तदा--'आनन्त्याद्' इत्यस्य वस्तुधर्मत्वाद व्यधिकरणा हेतुः अथ भेदा एव पक्षीक्रियन्ते तदा नान्वयीन व्यतिरेकी दृष्टान्तोऽस्तीत्यहेतुरानन्त्यम्।" (अ० 2 आ० 2 सू०६७ न्यायव०) इति, तत्प्रत्युक्तम्।यत्पुनः स एवाह- "यस्य निर्विशेषणाभेदाः शब्दैरप्यभिधीयन्ते तस्यायं दोषः, अस्माकं तु सत्ताविशेषणानि द्रव्यगुणकर्माण्य - भिधीयन्ते / तथा हि-यत्र यत्र सत्तादिकं सामान्यं पश्यति तत्र तत्र सदादिशब्दं प्रयुङ्क्ते एकमेव च सत्तादिकं सामान्यम्, अतः समान्योपलक्षितेषु भेदेषु समयक्रियासंभवाद-कारणमानन्त्यम्" (अ०२ आ०२ सू०६७न्यायवा०) इति, असदेतत्; यतो न सत्तादिकं वस्तुभूतं सामान्य तेभ्यो भिन्नमभिन्नं वाऽस्तीति भवतु वा तत्तथाप्येकस्मिन्भेदेऽनेकसामान्यसंभवाद-साङ्कर्ये ण सदादिशब्दयोजनं न स्यात् / न च शब्देनानुपदर्थ्य सत्तादिकं सामान्यं सत्तादिना भेदानुपलक्षयितु समयकारः शक्नुयात्, न चाकृतसमयेषु सत्तादिषु शब्दप्रवृत्तिरस्तीति इतरे-तराश्रयदोषप्रसक्तिः / अथापि स्यात्स्वयमेव प्रतिपत्ता व्यवहारोपलम्भादन्वयव्यतिरेकाभ्यां सदादिशब्दैः समयं प्रतिपद्यते, असदेतत् अनन्तभेदविषयनिः शेषव्यवहारोपलम्भस्य कस्यचिदसंभवात्। एकदा सत्तादिमत्सु भेदेष्वसकृद्व्यवहारमुपलभ्याऽदृष्टेष्वपि तज्जातीयेषु तान् शब्दान-प्रतिपद्यत इति चेत्, न; अदृष्टत्वात्, नादृष्टष्वतीतादिभेदभिन्नेष्वनन्तेषु भेदेषु समयः संभवत्यतिप्रसङ्गात्। विकल्पबुद्ध्या व्याह (हृत्य) तेषु तत्प्रतिपत्त्याऽभ्युपगमे विकल्पसमारोपितार्थविषय एव शब्दसङ्केतःप्राप्तः / तथा हि अतीतानागतयोरसत्त्वेनासन्निहितत्वात्तत्र विक-ल्पबुद्धिर्भवन्ती निर्विषयैव, तत्र भवन्समयः कथं परमार्थवस्तुविषयो भवेदिति ? सपक्षे भावान्नापि हेतोर्विरुद्धतेति सिद्धं स्वलक्षणाविषयत्वं शब्दानाम् / अथ स्थिरैकरूपत्वाद्धिमाचलादि-भावानां देशादि-भेदाभावात्, सङ्केतव्यवहारकालव्यापकत्वेन समयसंभवात्पक्षैकदेशाऽसिद्धताप्रकृतहेतोः,नैतत्, हिमाचला-दीनामप्यनेकाणुप्रचयस्वभावतया उदयानन्तरापवर्गितया च नाशेषावयवपरिग्रहेण समयकालपरिदृष्ट स्वभावस्य व्यवहारकालानुयायित्वेन च समयःसंभवतीति नासिद्धता हेतोः / अत उक्तन्यायेन समयवैयर्थ्य प्रसङ्गान्न स्वलक्षणे समयः संभवति, अश-क्यक्रियत्वाच न तत्र समयः तथाहिउदयानन्तरापवर्गिषु भावेषु समयः क्रियमाणः अनुत्पन्नेषु वा क्रियेत उत्पन्नेषु वा ? न तावदनुत्पन्नेषु परमार्थतः समयो युक्तः, असतः सर्वोपाख्यार-हितस्याधारत्वानुपपत्तेः, अपारमार्थिकवस्तुजातेऽपि पुत्रादौ समय उपलभ्यत इति न दृष्टविरोधः, विकल्पनिर्मितार्थविषयत्वेन तस्याऽपारमार्थिकत्वात् / नाप्युत्पन्ने समयो युक्तः, तस्मिननुभवोत्पत्तौ तत्पूर्व के च शब्दभेदस्मरणे सति समयः संभव