________________ सत्ता 327 - अभिधानराजेन्द्रः - भाग 7 सत्ता यस्य च प्रत्येकं सर्वस्वस्वोत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः सत्तासंभवाऽभावात्। वेदनीयस्य द्वे सत्तास्थाने,तद्यथा-द्वेएका च / तत्र द्वे अयोग्यवस्थाया द्विचरमसमयं यावत्, एका चरमसमये, अत्र न भूयस्कारसत्कर्मता, एकप्रकृत्यात्मकसत्तास्थानका द्विप्रकृत्यात्मकसत्तास्थाने संक्रमाऽभावात्। एकमल्पतर, तच्चैकप्रकृत्यात्मकम्। एक द्विप्रकृत्यात्मकमवस्थितम्, एकप्रकृत्यात्मकस्य समयमात्रावस्थायितया अवस्थितत्वाऽसंभवात्। गोत्रायुषो. द्वे सत्तास्थानके, तद्यथा-वे एका च / तत्र यावत् द्वे अपि गोत्रप्रकृत्यो सत्यौ तावद् द्वे, यदा पुनस्तेजोवायुभवगतेनोचैर्गोत्रमुदलितं भवति, नीचैर्गोत्र वा अयोग्यवस्थाद्विचरमसमये क्षीणं,तदा एका! आयुषोऽपि यावन्नाद्यापि परभवायुर्बध्नाति तावदेका प्रकृतिः सती,परभवायुर्वन्धे च द्वे। तत गोत्रस्यैकं द्विप्रकृत्यात्मकं भूयस्कारसत्कर्म, तत्र यदोधैर्गोत्रमुद्वल्य नीचैर्गोत्रैकसत्कर्मा सन् भूय उच्चैर्गोत्रमवबध्नाति तदा समवसेयम् एकमेक प्रकृत्यात्मकमल्पतर,तदपि चोच्चैर्गोत्रे उद्वलिते नीचैर्गोत्रे वा क्षीणे दृष्टव्यं द्वे अवस्थितसत्कर्मणी द्वयोरपि सत्तास्थानयोश्चिरकालमवस्थानसंभवात्,नवरमेकप्रकृत्यात्मके सत्तास्थाने चिरकालमवस्थानमुदलितोच्चैर्गोत्रस्य नीचैर्गोत्ररूपे द्रष्टव्यम्। आयुषोऽप्येकं द्विप्रकृत्यात्मकं भूयस्कारसत्कर्म, तच्च परभवायुबन्धारम्भसमये, एकमेकप्रकृत्यात्मकमल्पतरसत्कर्म, तच्चानुभूयमानभवायुषः सत्ताव्यवच्छेदे, परभवायुष उदयसमये द्वे अवस्थितसत्कर्मणी, द्वयोरपि सत्तास्थानयाश्चिरकालमवस्थानात् / यत्त्ववक्तव्यं सत्कर्म, तदुभयत्रापि न विद्यते, उभयोरपि सर्वस्वस्वोत्तरप्रकृतिव्यवच्छेदे भूयः सत्ताया अयोगात्, दर्शनावरणीयस्य त्रीणि सत्कर्मस्थानानि,तद्यथानव षट्चतस्रः, तत्र क्षपकश्रेणिमधिकृत्याऽनिवृत्तिबादर-संपराद्धायाः संख्येयान् भागान् यावदुपशमश्रेणिमधिकृत्योपशान्तमोहगुणस्थानक यावत् नव, क्षपक श्रेणावनिवृत्तिबादरसंपरायावाया: संख्ये येभ्यो भागेभ्यः परत आरभ्य क्षीणमोहगुणस्थानकस्य द्विचरमसमयं यावत् षट् / चरमसमये चतस्रः अत्र द्वे अल्पतरे, तद्यथा-षट् चतस्रः, द्वे अवस्थितसत्कर्मणी, तद्यथा-नव षट्, चतुःप्रकृत्या मकं तृतीयं सत्तास्थानम् एकसामायिकमिति न तस्याऽवस्थितत्वसंभवः भूयस्कारमवक्तव्यं चात्र न समस्ति, द्वित्रादिप्रकृतिसत्ताव्यवच्छेदे सर्वस्वोत्तरप्रकृतिसत्ताव्यवच्छेदे वा भूयः सत्तासंभवाऽभावात्। मोहनीयस्य पञ्चदश सत्तास्थानानि, तद्यथाअष्टाविंशतिः सप्तविंशतिः षइविंशतिः चतुर्विशतिस्त्रयोविंशतिाविंशतिरेकविंशतिस्त्रयोदश द्वादश एकादश पञ्च चतस्रस्तिस्रो वएका च। तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युद्वलिते षड्विंशतिः / अथवाअनादिमिथ्यादृष्टः षड्विंशतिः अष्टविंशतेरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विशतिः, ततो मिथ्यात्वेक्षीणे त्रयोविंशतिः, ततः सम्यग्मिथ्यात्यक्षीणे द्वाविंशतिः, सम्यक्त्वेक्षीणे एकविंशतिः, ततोऽष्टसु कषायेषु क्षीणेषु त्रयादश. ततो नपुंसकवेदे क्षीणे द्वादश, ततोऽपि स्त्रीवेदे क्षीणे एकादश, ततः षट्सु नोकषायेषु क्षीणेषु पञ्च, ततः पुरुषवेदे क्षीणे | चतस्रः, ततः संज्वलनक्रोधेः क्षीणे तिस्रः, ततः संज्वलनमाने क्षीणे द्वे, संज्वलनमायायामपि क्षीणायामेका। अत्र पञ्चदश अवस्थितसत्कर्माणि सर्वेष्वपि, सत्तास्थानेषु जधन्यतोऽप्यन्तर्मुहूर्त यावदवस्थानसंभवात्, चतुर्दश अल्पतराणि, तानि चाष्टा विंशतिवर्जानिशेषाणि सर्वाण्यपिद्रष्टव्यानि : एकं भूयस्कारसत्कर्म,ततोऽष्टाविंशतिलक्षणमवसे यम् / तथाहि- चतुर्विशतिसत्तास्थानात् षड्वंशतिसत्तास्थानाद्वा गच्छत्यष्टाविंशतिरूपं सत्तास्थानं, शेषाणि तु सत्तास्थानानि भूयस्कारतया न प्राप्यन्ते; अनन्तानुबन्धिसम्यक्त्वसम्यग्मिथ्यात्वव्यतिरेकेणान्यस्याः प्रकृतेः सत्ताव्यवच्छेदे भूयः सत्ताया अयोगात्, अवक्तव्यं तु न समस्ति,मोहनीयस्य सर्वोत्तरप्रकृतिव्यवच्छेदे पुनः सत्ताया असंभवात् / नाम्नो द्वादश सत्कर्मस्थानानि, तद्यथा-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाऽशीतिः षट्सप्ततिः पञ्चसप्ततिः षडशीतिरष्टसप्ततिर्नव अष्टौ च / तत्र सर्वप्रकृतिसमुदायस्विनवतिः सैव तीर्थकररहिता द्विनवतिः, त्रिनवतिरेवाहारकाहारकाङ्गोपाड़ा. हारकबन्धनाहारक संघातरूपाहारकचतुष्टयरहिता एकोननवतिः,द्विनवतिराहारकचतुष्टयहीना अष्टाशीतिः, इदमेकं प्रथमसंज्ञ सत्तास्थानचतुष्टयम्, अस्माचनामत्रयोदशके क्षयमुपगतेक्रमेण द्वितीय सत्तास्थानचतुष्टयं भवति, तद्यथा अशीतिरेकोनाऽशीतिः षट्सप्ततिः पञ्चसप्ततिश्च / इदं द्वितीयसंज्ञं सत्तास्थानचतुष्टयं, प्रथमसत्तास्थानचतुष्टयसत्काचतुर्थादष्टाशीतिलक्षणात्सत्तास्थानात् देवद्विके नरकद्विके वा उदलितेषडशीतिः, ततोऽपि देवद्विकसहितेनरकद्विकसहिते वा वैक्रियचतुष्टय उद्वलिते अशीतिः, ततोऽपि मनुष्यद्रिके उद्वलिते अष्टसप्ततिः / एतानि च त्रीण्यपि सत्तास्थानानि चिरंतनग्रन्थेषु अध्रुवसंज्ञानि व्यवह्रियन्ते, नवप्रकृत्यात्मक तीर्थकृतः, अतीर्थकृतस्त्वष्टप्रकृत्यात्मकमयोग्यवस्थाचरमसमये सुप्रतीतम् इहाशीतिलक्षणं सत्तास्थानं द्विधालभ्यते, तथापि संख्यातस्तुल्यमित्येकमेव गण्यते, ततो द्वादश सत्तास्थानानि भवन्ति / अत्र दश अवस्थितसत्कर्माणि, नवाष्टसत्तास्थानयोरेकसामयिकतयाऽवस्थितत्वाऽसंभवात्, दश अल्पतरस्थानानि, तद्यथा-प्रथमसत्तास्थानचतुष्टयाद् द्वितीयसत्तास्थानचतुष्टयगमनेन चत्वारि, द्वितीयसत्तास्थानचतुष्टयान्नवाष्टगमनेन द्वे, प्रथमसत्तास्थानचतुष्टयसत्कचतुर्थस्थानात्प्रथमा, ध्रुवसंज्ञसत्तास्थानगमने। ततोऽपितृतीया ध्रुवसत्तास्थानगमने द्वे त्रिनवतिद्विनवतिभ्यामाहारकचतुष्टयोद्वलन एकोननवत्यष्टाशीतिसंक्रान्तौ द्वे, एवं सर्वसंख्यया दशाल्पतरसत्तास्थानानि भवन्ति, भूयस्कारसत्तास्थानानि षट् तद्यथा-भूयो मनुष्यद्विकबन्धनेनाष्टासप्ततेरशीतौ गमनं, ततोऽपि नरकद्विके देवद्विके वा वैक्रियचतुष्टयसहितेभूयोऽपिबध्यमाने षडशीतौ, ततोऽपि देवद्विके नरकद्विके वा पुनरपि बध्यमानेऽष्टाशीतौ, ततोऽपि तीर्थकरनामबन्धे एकोननवत्यांगमनमिति चत्वारि, अष्टाशीतेरेवाहारकचतुष्टयबन्धनेन द्विनवतौ गमनं, ततोऽपि तीर्थकरनामबन्धे त्रिनवती, एवं सर्वसंख्ययया षट्, शेषात्सत्तास्थानादन्यस्मिन् प्रभूते सत्तास्थाने गमनसंभवः, तेन षडेव भूयस्कारसत्कर्माणि, यत्त्ववक्तव्यं सत्तास्थानं तदिह न भवति, नाम्नः सर्वोत्तरप्रकृतिसत्ताव्यव