________________ सत्ता 326 - अभिधानराजेन्द्रः - भाग 7 सत्ता नाम 'सुभगजिणुच्च' त्ति-सुभगनाम जिननाम उच्चैर्गोत्रम् 'पणिंदिय'त्तिपञ्चेन्द्रियजातिः साताऽसातयोरेकतरं तस्य छेदः सत्तामाश्रित्य क्षय | इति। अत्रैव मतान्तरमाहनर अणुपुव्वि विणा वा,बारस चरिमसमयम्मि जो खविउं / पत्तो सिद्धिं देविं-दवंदियं नमहतं वीरं॥३४॥ नरानुपूर्वी विनामनुष्यानुपूर्वीमन्तरेण वाशब्दो मतान्तरसूचको, द्वादशप्रकृतिरयोगिकेवलिचरमसमये यः क्षपयित्वा सिद्धि प्राप्तस्तं वीर नमतेति संटङ्कः / अयमत्राभिप्रायः-मनुजाऽऽनुपूर्व्या अयोगिद्विचरसमये सत्ताव्यवच्छेद उदयाभावात्।उदयवतीनां हि द्वादशानां स्तिबुकसंक्रमाभावाल्स्वानुभवेन दलिक चरमसमयेऽपि दृश्यते इति युक्तस्तासां चरमसमये क्षयः / आनुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकित्वादवान्तरालगतावे वोदयस्तेन भवस्थस्य नास्ति तदुदयस्तदुदयाभावाचायोगिद्विचरसमये मनुजानुपूर्व्या अपि सत्ताव्यवच्छेदः, तन्मते योगिके वलिनो द्विचरमसमये त्रिसप्ततिप्रकृतीना चरमसमये (च) द्वादशानां क्षय इति। ततो यो भगवान् मातापित्रोर्दिवंगतयोः संपूर्णनिजप्रतिज्ञो भक्तिसभारभ्राजिष्णुरोचिष्णुलोकान्तिकत्रिदशसद्मजन्मभिः पुष्पमाणवकैरिव “सव्वजगज्जीवहियं, भयवं तित्थं पवत्तेहि।" इत्यादिवाभिनिवेदिते निष्क्रमणसमये संवत्सरं यावन्निरन्तरं स्थूरचामीकरधारासारैः प्रावृषेण्यधाराधर इवामुद्रदारिद्रसंतापप्रसरमवनीमण्डलस्योपशमय्य परस्परमहमहमिकया समायातसुरासुरनरोरगनायकनिकरैर्जयजीवनन्दक्षत्रियवरवृषभेत्यादिवचनरचनया स्तूयमानः संप्राप्यज्ञातखण्डवनं प्रतिपन्ननिरवद्यचारित्रभारः साधिका द्वादशसंवत्सरी यावत्परीषहोपसर्गवर्गसंसर्गमुग्रमधिसह्य परमसितध्यानाकुण्ठकुठारधारया सकलधनघातिवनखण्डनमखण्डमाधाय निर्मलाविकलके वलबलावलोकितनिखिललोकालोकः श्रीगौतमप्रभृतिमुनिपुड़वानां तत्त्वमुपदिश्य संसारसरितः सुखंसुखेन समुत्तरणाय भव्यजनानां धर्मतीर्थमुपदायोगिकेवलिचरमसमये त्रयोदशप्रकृतीदिशप्रकृती क्षपयित्वा सिद्धिं परमानन्दरूपां प्राप्तस्तं नमतप्रणमत वीरश्रीवर्द्धमानस्वामिनम् / किं विशिष्ट? देवेन्द्रवन्दितम्-देवानां भवनपतिव्यन्तरज्योतिष्कवैमानिकानामिन्द्राः स्वामिनो देवेन्द्राः तैर्वन्दितः शशधरकरनिकरविमलतरगुणगणोत्कीर्तनन स्तुतः, शिरसा च प्रणतः, 'वदुड' स्तुत्यभिवादनयोरिति वचनात्। यदा-पदैकदेशे पदसमुदायोपचारात् देवेन्द्रेण-देवेन्द्रसूरिणा आचार्येण श्रीमज्जगच्चन्द्रसूरिचरणसरसीरुहचञ्चरीकेण वन्दितः सकलकर्मक्षयलक्षणसाधारणगुणसंकीर्तनेन स्तुतः कायेन च प्रणत इति, नमतेति प्रेरणायां पञ्चम्यन्तं, क्रियापदम्, तच्च श्रोतृणां कथञ्चिदनाभोगवशतः प्रमादसंभवेऽप्याचारेण नोद्विजितव्यम्, किं तु-मृदु-मधुर- वचोभिः शिक्षानिबन्धनैः श्रोतृणां मनांसि प्रह्लाद्य यथार्ह सन्मार्गप्रवृत्तिरुपदेष्टव्येति ज्ञापनार्थम्। कर्मा०२ कर्म०। (ध्रुवाध्रुवसत्ता 'संतकम्म' शब्देऽस्मिन्नेव भागे 137 पृष्ठ दर्शिता।) ('कम्म' शब्दे तृतीयभागे 266 पृष्ठे बन्धोदयसत्तास्थानानां सम्बन्धे उक्तः / तत्रैव सत्तास्थानानां कालमानम्।) (गुणस्थानकेषु सत्तोदययोजना 'गुणट्टाण' शब्दे तृतीयभागे 623 पृष्ठे उक्ता।) सर्वासां प्रकृतीनां सत्तामाश्रित्य भूयस्कारादिसत्तास्थानानिभूयप्पयरा इगिचउ-वीसं जन्नेइ केवली छउमं। अजओ य केवलितं, तित्थयरियराव अन्नोन्नं / / 16 / / व्याख्या-भूयस्काराः-भूयस्कारोदया एकविंशतिः, अल्पतरोदयाश्चतुर्विशतिः, नोक्तसंख्यातो द्वयानामेकेऽप्यधिकाः, कुत इत्याह-यद्यस्मात्कारणान्न केवली छाछद्मोदयान् याति, नाऽप्ययतोऽविरतोऽविरतसम्यग्दृष्टिः केवलित्वं केवलित्यनिबन्धनेषूदयस्थानेषु याति, नाप्यतीर्थकरतीर्थकरावन्योन्यमन्योन्यस्योदयेषु गच्छतः,तत उक्तसंख्याका एव भूयस्काराऽल्पतरोदयाः। इयमत्र भावना-न केवली छद्मस्थोदयेषु याति, न चाप्यतीर्थकरस्तीर्थकरोदयम् / उपलक्षणमेतत्, तेन नाप्ययोगी सयोगिकेवल्युदयम् / तत एकादशद्वादशत्रयोविंशतिचतुर्विशतिचतुश्चत्वारिंशल्लक्षणानि पञ्च उदयस्थानानि भूयस्कारतया च प्राप्यन्ते; इत्येकविंशतिरेव भूयस्कारोदयाः / तथा अविरतसम्यगदृष्टिर्मिथ्यादृष्टिवर्वा न केवल्युदयस्थानमधिरोहति, ततश्चतुस्त्रिंशल्लक्षणोऽल्पतरोदयो न लभ्यते / आह-चतुस्त्रिंशदुदयः स्वभावस्थस्य तीर्थकृतः केवलिनो भवति, ततो यदा तीर्थकरः केवलित्वमासादयति, तदा चतुश्चत्वारिंशदादीनामन्यतमस्मादुदयस्थानाचतुरित्रंशदुदयस्थाने संक्रामतीति भवति चतुस्त्रिंशदुदयोऽल्पतरः तदेतदसमीचीनं,सर्वथा वस्तुतत्त्वाऽपरिज्ञानात्। केवलित्वं हि नाम सर्वोऽपि सामासादयति गुणस्थानकक्रमेण, नान्यथा, तत्र क्षीणमोहगुण स्थानके त्रयस्त्रिंशत्प्रकृत्यात्मकमेवोदय स्थानं, न शेषम् त्रयस्त्रिंशत्प्रकृतयश्चेमाः-मनुष्यगतिः पोन्द्रियजातिस्त्रसनामवादरनाम पर्याप्तकनाम सुभगनाम आदेयं यशःकीर्तिस्तैजसकार्मणे स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयमगुरुलधुनिर्माणमौदारिकद्विकं प्रत्येकनाम उपघातनाम अन्यतरविहायोगतिः पराघातनाम सुखरदुःखरयोरन्यतरत् उच्छ्रासनाम संस्थानषट्कान्यतममेकं संस्थानं वज्रर्षभनाराचसंहननं सातासतान्यतरवेदनीयं मनुष्यायुरुचैर्गोत्रमिति / ततः केवलज्ञानोत्पत्तौ सयोगिकेवलिगुणस्थन प्राप्तः तीर्थकरनामकर्मण उदयतश्चतुस्त्रिंशल्लक्षणमुदयस्थानं भूयस्कारतयैव प्राप्यते, नाल्पतरया / यदपि चैकोनषष्टिरूपमुदयस्थानं,तस्यापि नाल्पतरत्वसंभवः, ततोऽन्यस्य महत उदयस्थानस्याऽसंभवात् / यदि हि ततोऽपि महदन्यदुदयस्थानं भवेत्, ततस्तस्मात्तत्र संक्रान्तौ तदल्पतरं भवेत्, न च तदस्ति,तरमाचतुस्त्रिंशदेकोनषष्टिरूपौद्वावुदयावल्पतरौ न भवतः, इति चतुर्विंशतिरल्पतराः। तदेवमुक्ताः सामान्यतः सर्वोत्तर-प्रकृतीनामुदयस्थानेषु भूयस्कारादयः। संप्रति प्रत्येकं ज्ञानावरणीयाधुत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनांच सत्तास्थानेषु वक्तव्याः। तत्र प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां स्वयमेव ज्ञातव्याः, ते चैवंज्ञानावरणीयस्यान्तरायस्य च प्रत्येकं पञ्चपञ्चप्रकृत्यात्मकमेकं सत्तास्थानम्। अत्र द्वितीयं महदल्पंवा सत्तास्थानं न समस्तीति भूयस्काराल्पतरत्वसंभवः, नाप्यवक्तव्यसत्कर्मता ज्ञानावरणीयस्यान्तरा