________________ सत्ता 328 - अभिधानराजेन्द्रः - भाग 7 सत्ता च्छेदे भूयः सत्तोपादानाऽसंभवात्, तदेवमुक्ताः प्रत्येक ज्ञानावरणीयाधुत्तरप्रकृतीना सत्तास्थानेषु भूयस्कारादयः / / 16 / / संप्रति सामान्यतः सर्वोत्तरप्रकृतीनां तानभिधित्सुः प्रथमतः सत्तास्थानान्याहएक्कारबारसासीइ, इगिचउपंचाहियाय चउणउई। एत्तो चउद्दहियसयं, पणवीसाओ यछायालं // 20 // बत्तीसं नऽत्थि सयं, एवं अडयाल संत ठाणाणि। जोगिअघाइचउक्के,भण खिविउंघाइसंताणि॥२१।। सामान्यतः सर्वोत्तरप्रतीनां सत्तास्थानानि अष्टचत्वारिंशत, तद्यथाएकादश, द्वादश, अशीतिः, 'इगि चउ पंचाहिया य' त्ति-अत्राऽशीतिः संबध्यत / ततोऽयमर्थः -अशीतेरनन्तरमेकचतुः पशाधिका अशीतिर्वक्तव्या, तद्यथा-एकाशीतिश्चतुरशीतिः, पञ्चाशीतिः, ततश्चतुर्नवतिः ‘एत्तो' इत्यादि अतश्चतुर्नवतेलमेकोत्तरया वृद्ध्या निरन्तर यावत्सत्तास्थानानि वाच्यानि,यावच्चतुर्दशाधिकं शतम्, तद्यथा-पञ्चनवतिः,षण्णवतिः, सप्तनवतिः, अष्टानवतिः, नवतिः, शतम्, एकोत्तरं शतं, व्युत्तरं शतं,व्युत्तरं शतं, चतुरुत्तरं शतं, पञ्चोत्तर शत, षडुत्तर शतं, सप्तोत्तरं शतम्, अष्टोत्तर शतं, नवोत्तरं शतं. दशोत्तरं शतम, एकादशोत्तर शतं, द्वादशोत्तरं शतं त्रयोदशोत्तरं शत, चतुर्दशोत्तर शतम् अत ऊर्ध्व पञ्चविंशाच्छतादारभ्य क्रमेणैकोत्तरया वृद्ध्या तावदभिधातव्यानि सत्तास्थानानि, यावत षट्चत्वारिंशतं शतं, नवरं द्वात्रिंश शतं नाऽस्ति; द्वात्रिंशशताऽऽत्मकसत्तास्थानवर्जितान्यभिधातव्यानीत्यर्थः तद्यथा-पञ्चविंश शतं, षड्विंशशतं, सप्तविंशं शतम्, अष्टाविंश शतम्, एकोनत्रिंश शतं, त्रिंशं शतम्, एकत्रिंशं शतं, त्रयस्त्रिंशं शतं, चतुरिवंशं शतं, पञ्चत्रिंश शतं, षट्-त्रिंशं शतं, सप्तत्रिंशं शतम, अष्टात्रिंश शतम्, एकोनचत्वारिंशं शतं, चत्वारिंश शतम्, एकचत्वारिंश शतं, द्वाचल्वारिंशं शतं, त्रिचत्वारिंश शतं, चतुश्चत्वारिंशं शतं, पक्षचत्वारिंश शतं. षट्-चत्वारिशं शतम् एवं सर्वसंख्यया अष्टाचत्वारिंशत्सत्तास्थानानि भवन्ति, तद्यथा-(११) 12 / 80 / 81184 / 85164 / 65 / 66 / 67 / 68/66/100 / 101 / 102 / 103 / 104 / 105 / 106 / 1071 108 / 106 / 110 / 111 / 112 / 113 / 114 / 125 / 126 1271 128 | 126 130 / 131 / 133 / 134 / 135 / 136! 137 / 138 / 136 / 140 / 141 / 142 / 143 / 144 / 145 / 146 / ) अमीषां च सत्तास्थानानां यथापरिज्ञानमुपसंपद्यते तथोपदेशमाह योगिनां सयोगिके वलिनां यदधातिप्रकृतिसत्कं सत्तास्थानचतुष्टयमशीत्यादिलक्षणं, तस्मिन् घातिकर्म सत्कानि सत्तास्थानानि क्रमेण क्षिप्त्वा अष्टचत्वारिंशदपि सत्तास्थानानि शिष्येभ्योय भणप्रतिपादय। एतदेव भाव्यते अतीर्थकरकेवलिनोऽयोग्यवस्थाचरमसमये एकादशप्रकृत्यात्मकं सत्तास्थानं, तस्मिन्नेव समये तीर्थकृतो द्वादशप्रकृत्यात्मक ; ताश्च द्वादशप्रकृतय इमाः, तद्यथा-- मनुष्यायुर्मनुष्यगतिः पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तकनाम सुभगमादेयं यशः कीर्तिस्तीर्थकरनाम अन्यतवेदनीयमुचैर्गोत्रमिति। स्ता एव द्वादश प्रकृतयस्तीर्थकरनामरहिता एकादश सयोगिकेवल्यवस्थायामशीत्यादीनि चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः, एकाशीतिः, चतुरशीतिः पञ्चाऽ-शीतिः (80 / 811 84 / 85 / ) तत्राशीतिरियंदेवद्विकमौदारिकचतुष्टयं, तैजसकार्मणशरीरे, तैजसकार्मणबन्धने, तैजसकार्मणसंघाते, संस्थानषट्कं, संहननषटकं, वर्णादिविंशतिः, अगुरुलघु, पराघातम्, उपघातनाम, सनाम, विहायोगतिद्विकं, स्थिराऽस्थिरे, शुभाऽशुभे, सुस्वरदुःस्वरे, दुर्भगम्, अयशः कीर्तिः, अनादेयं, निर्माण, प्रत्येकम्, अपर्याप्तं. मनुष्यानुपूर्वी, नीचैर्गोत्रम्, अन्यतरवेदनीयमित्येकोनसप्ततिः, एकादश च प्रागुक्ताः ततः सर्वसंख्यया अशीतिर्भवति। सैव तीर्थकरनामसहिता एकाशीतिः, अशीतिरेव आहारकचतुष्टयसहिता चतुरशीतिः, सैव तीर्थकरनामसमन्विता पञ्चाशीतिः / एतान्येवाऽशीत्यादीनि चत्वारि सत्तास्थानानि ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकसहितानि यथाक्रम चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि भवन्ति, तद्यथा-चतुर्नवतिः, पञ्चनवतिः, अष्टानवतिः, नवनवतिः (64 / 65 / 6866) एतानि च क्षीणकषायचरमसमये नानाजीवानधिकृत्य प्राप्यन्ते; एतान्येव चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि निद्राप्रचलासहितानि यथाक्रम घण्णवत्यादीनि चत्वारि सत्तास्थानानि भवन्ति, तद्यथा-षण्णवतिः, सप्तनवतिः, शतम्, एकोत्तर शतम् (66 / 67 / 1001101) एतानि क्षीणकषायगुणस्थानके द्विचरमसमयं यावत् नानाजीवापेक्षया प्राप्यन्ते एतेष्वेव संज्वलनलोभप्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि भवन्ति, तद्यथा-सप्तनवतिः, अष्टान-वतिः,एकोत्तरं शतं, व्युत्तरं शतम् (67 / 18 / 101 / 102) एतानि सूक्ष्मसंपराये लभ्यन्ते. एतेष्वेव संज्वलनमायाप्रक्षेपादमूनि चत्वारि सत्तास्थानानि भवन्ति, तद्यथा-अष्टानवतिः, नवनवतिः, व्युत्तरं शतं,त्र्युत्तरं शतम् (68 | EE | 102 / 103 / ) एतान्यनिवृत्तिबादरसंपरायगुणस्थानकपर्यवसाने लभ्यन्ते, ततस्तस्मिन्नेव गुणस्थानके तेष्वेव चतुषु सत्तास्थानेषु सज्यलनमानप्रक्षेपादेतानि चत्वारि सत्तास्थानानि भवन्ति तद्यथा-नवन-वतिः, शतं, त्र्युत्तरं शतं, चतुरुत्तरं शतम्, (66 /100 / 103: 104) तत एतेष्वेव चतुषु सत्तास्थानेषु तस्मिन्नेव गुणस्थानके संज्वलनक्रोधप्रक्षेपादमूनि चत्वारि सत्तास्थानानि भवन्ति, तद्यथा-शतम्, एकोत्तरं शतं,चतुरुत्तरं शतं, पञ्चोत्तरं शतम्. (100 / 101 / 104 / 105 1) ततस्तस्मिन्नेव गुणस्थानके पुरुषवेदप्रक्षेपादमूनिचत्वारि सत्तास्थानानि, तद्यथा-एकोत्तरं शतं, व्युत्तरं शतं, पञ्चोत्तरं शतं, षडुत्तरं शतम्, (101 / 102 / 105 // 106 / ) ततो हास्यादिषट्कप्रक्षेपे तस्मिन्नेव गुणस्थानके अमूनि चत्वारि गुणस्थानानि भवन्ति, तद्यथा-सप्तोत्तरं शतम् अष्टोत्तर शतम्. एकादशोत्तरं शतं, द्वादशोत्तर शतम्, (107 / 108 / 111 / 112) ततस्तस्मिन्नेव गुणस्थानके स्त्रीवेदप्रक्षेपादमूनि चत्वारि सत्तास्थानानि, तद्यथा-अष्टोत्तर शतं, नवोत्तरं शतं, द्वादशोत्तरं शतं, त्रयोदशोत्तरं शतम्, (108/106 / 112:113) ततो नपुंसकवेद तस्मिन्नेव गुणस्थानके प्रक्षिप्तेऽमूनि चत्वारि सत्तास्थानानि, तद्यथा-नवोत्तरं शतं, दशोत्तरं शतं, त्रयोदशोत्तरं शतं, चतुर्दशोत्तरं शतम्, (106 / 110 / 113 / 114.) तत एतेष्वेव चतुर्यु सत्तास्थानेषु तस्मिन्नेव गुणस्थानके नामत्रयोदशकस्त्यानद्धित्रिकरूपप्रकृति षोडशकप्रक्षेपादिमानि चत्वारि सत्तास्थानानि भवन्ति,