________________ संकम 11 - अभिधानराजेन्द्रः - भाग 7 संकम पणे लोभद्विक उपशान्ते शेषे द्वे प्रकृती संक्रामतः / अथवा- क्षायिकसम्यगदृष्टः क्षपकस्य प्रागुक्ताभ्यस्तिसृभ्यः संज्वलनक्रोधे क्षीणे वे सक्रामतः / तस्यैव संज्वलनमाने क्षीण एका तदेवं परिभाव्यमानेऽष्टाविंशतिचतुर्विशतिसप्तदशषोडशपञ्चदशलक्षणानि संक्रमस्थानानि न प्राप्यन्ते / इति प्रतिषिध्यन्ते / तेषु व प्रतिषिद्धेषु शेषाणि त्रयोविंशतिसंख्यानि संक्रमस्थानान्यवगन्तव्यानि / एतेषु संक्रमस्थानेषु मध्ये पञ्चविंशति प्रकृत्यात्मकं संक्रमस्थानम्। साद्यादिरूपतया चतुष्प्रकारम् / तद्यथा-साद्यनादि ध्रुवमधुवं च। तत्राष्टाविंशतिसत्कर्मणः सम्यक्त्वसम्यग्मिथ्यात्वयोरुदलितयोर्भवत् सादि, अनादि मिथ्यादृष्टेरनादि, अधुवध्रुवता भव्याभव्यापेक्षया। शेषाणि तु संक्रमस्थानानि साधध्रुवाणिं, कादाचित्कत्वात् कृता मोहनीये संक्रमासंक्रमस्थानप्ररूपणा। सम्प्रति पतद्ग्रहापतद्ग्रहस्थानप्ररूपणार्थमाहसोलस बारसगट्ठग,वीसग तेवीसगा इगे छच्च। वञ्जिय मोहस्स पडि-ग्गहा अट्ठारस हवंति॥११॥ 'सोलस' त्ति षोडश द्वादशाष्टौ विंशतिस्त्रयोविंशत्यादयश्च षट्। तद्यथात्रयोविंशतिश्चतुर्विशतिःपञ्चविंशतिः षड्विंशतिःसप्तविंशतिरष्टाविंशतिश्च / एलानि स्थानानि वर्जयित्वा शषाण्येकद्वित्रिचतुः पञ्चषट् सप्तनवदशैकादशत्रयोदशचतुरर्दशपञ्चदशसप्तदशाष्टादशैकोनविंशत्येकविंशतिद्वाविशतिलक्षणानि अष्टादश पतद् ग्रहस्थानानि भवन्ति / तत्र कस्मिन् पतद्ग्रहे काः प्रकृतयः संक्रामन्तीत्येतद्भाव्यते-तत्र मिथ्यादृष्टरष्टाविंशतिसत्कर्मणो मिथ्यात्वं रम्यवत्वसम्यग्मिथ्यात्वयोः पतदग्रह इति तस्मिन्नपसारितेशेषा सप्तविंशतिर्मिथ्यात्वषोडशकषायान्यतर-वेदभयजुगुप्साहास्यरतियुगलारतिशो कयुगलान्यतरयुगललक्षणाया द्वाविशती संक्रामति। तस्यैव सम्यक्त्व उदलिते सप्तविंशतिसत्कर्मणो मिथ्यादृष्टमिथ्यात्वंसम्यग्मिथ्यात्वस्य पतद्ग्रह इति तस्मिन्नपसारिते शेषा षड्वंशतिः प्रागुक्तायां द्वाविंशतौ संक्रामति / तस्यैव मिथ्यादृष्टः / सम्यग्मिथ्यात्वे उद्वलित षड्वंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामतीति न तत्करयचित्पतद्ग्रह इति। तस्मिन् प्रागुक्ताया द्वाविंशतरपनीते शेषे एकविंशतिप्रकृतिसमुदायात्मके पतद्ग्रहे पञ्चविंशतिः / अथवाऽनादिमिथ्यादृष्टे: षड्विंशतिसत्कर्मणो मिथ्यात्वं न वापि संक्रामति, नापि तत्रान्या प्रकृतिरित्याधाराधेयभावपरिभ्रष्ट मिथ्यात्वमपनीयते, ततः शेषा पञ्चविंशतिः प्रागुक्तायामेकविंशतौ संक्रामति / तथा चतुर्विंशतिसत्कर्मा मिथ्यात्वं गतः सन यद्यपि मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तथाऽपि बन्धावलिकागत सकलकरणायोग्यमिति कृत्वा सतोऽपि तान् न संक्रमयति / मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रहस्ततोऽनन्तानुबन्धिचतुष्टयमिथ्यात्ववर्जितः शेषास्त्रयोविंशतिप्रकृतयः प्रागुक्तायां द्वाविंशतौ सक्रामन्ति / तदेवं मिथ्यादृष्टद्वीविंशतिपद्ग्रहे सप्तविंशतिषड्विंशतित्रयोविंशतिसंक्रमाः / एकविंशतिपदग्रहे च पञ्चविशतिसंक्रम उक्तः, शेषः संक्रमः पतदग्रहो वा न संभवति / सासादनसम्यग्दृष्टस्तुशुद्धदृष्टि त्वाभावादर्शनमोहनीयत्रयस्य संक्रमाभावः। ततोऽस्य सर्वदा एकविंशतिरूपे पतदग्रह पञ्चविंशतिरेव संक्रामति। सम्यग्मिथ्यादृष्टरपि शुद्धदृष्टित्वाभावादर्शनत्रयस्य संक्रमाभाव इति अष्टाविंशतिसत्कर्मणः सप्तविंशतिसत्कर्मणो वा पचविंशतिः / चतुर्विशतिसत्कर्मणःपुनरेकविंशतिः / द्वादशकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगललक्षणसप्तदशप्रकृतिसमुदायरूपे पतद्ग्रहे संक्रामति / तदेवमुक्तौ सासादनसम्यग्मिथ्यादृष्टी संप्रत्यविरतदेशविरतप्रमत्ताप्रमत्तेषु संक्रमाणां तुल्यत्वात् युगपत्पपतद्ग्रहा उच्यन्ते- तेषामविरतादीनामौपशमिकसम्यग्दृष्टीना सम्यक्त्वलाभप्रथमसमयादारभ्य यावदावलिकामा तावत् सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रहतेव भवति, न संक्रमः, इति शेषा षड्विंशतिविरताना द्वादशकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वरूपे एकोनविंशतिपतदग्रहे, देशविरताना प्रत्याख्यानावरणसवंज्वलनकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगलसम्यक्त्वसमयग्मिथ्यात्वलक्षणे पञ्चदशपतदग्रहे, प्रमत्ताऽप्रमत्तानां संज्वलनचतुष्टयपुरुषवेदसम्यपत्वसम्यग्मिथ्यात्वभयजुगुप्साऽन्यतरयुगलरूपे एकादशपतदग्रहे संक्रामति। तेषामेवाऽविरतसम्यगदृष्ट्यादीनामावलिकायाः परतः सम्यमिथ्यात्वं संक्रमे पतद्ग्रहे च लभ्यते इति सप्तविंशतिः प्रागुक्तेषु त्रिषु पतद्ग्रहेषु संक्रामति / तथा तेषामेवाविरतसम्यग्दृष्ट्यादीनामनन्तानुबन्धिषद्वलितेषु चतुर्विशतिसत्कर्मणां क्षायोपशमिकसम्यग्दृष्टीना सम्यक्त्वं पतद्ग्रह इति कृत्वा शेषा त्रयोविंशतिः प्रागुक्तेश्वेवैकोनविंशत्यादिषु त्रिषु पतद्ग्रहेषु संक्रामति / ततो मिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वं पतदग्रहभावे न लभ्यते, मिथ्यात्वं च संक्रमे न लभ्यते। ततः शेषा द्वाविंशतिरविरतदेशविरतसंयतानां यथा-संख्यमष्टादशचतुदर्शदशरूपेषु पतदग्रहेषु संक्रामति। ततः सम्यग्मिथ्यात्वे क्षपिते राति सम्यग्मिथ्यात्वरयन संक्रमो नापि पतद्ग्रह इत्येकविंशतिरविरतादीना यथासंख्यं सप्तदशत्रयोदशनवकरूपेषुपतद्ग्रहेषु संक्रामति। सम्प्रत्यौपशमिकसम्यगदृष्टरूपशमश्रेण्या वर्तमानस्य संक्रममाश्रित्य पतद्ग्रहविधिरूच्यते-चतुर्विशतिसत्कर्मणः राम्यक्त्वं मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्ग्रह एवेति कृत्वा तस्मिन्नपसारिते शेषा त्रयोविंशतिः पुंवेदसंज्वलनचतुष्टयसम्यक्त्वसम्यग्मिथ्यात्वरूपे सप्तकपतद्ग्रहे संक्रामति, तस्यैवोपशमश्रेण्या वर्तमानस्यान्तरकरणे कृते संज्वलनलोभस्य संक्रमोन भवति इति तस्मिन्नपसारिते शेषा द्वाविशतिः पूर्वोक्त एव सप्तकपतद्ग्रहे संक्रामति / तस्यैव नपुंसक्वेदे उपशान्ते सप्तकपतद्ग्रहे एकविंशतिः। ततः स्त्रीवेदे उपशान्ते विंशतिः / ततः पुरूषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेषाया “दुसु आवलियासु पढमटिईसुसेसासुऽविय वेदो।" इतिवचनात् पुरूषवदः पतद्ग्रहो न भवति। ततः प्रागुक्तात् सप्तकात्पुरूषवेदेऽपनीतेशेषे षटकरूपेपतद्ग्रहे प्रागुक्ता विंशतिः संक्रामति।ततः षट्सुनोकषायेषूपशान्तेषु शेषाश्चतुर्दश प्रकृतयः प्रागुक्ते एव षट्करूपे पतद्ग्रहे संक्रामन्ति। ताश्च तावत्संक्रामन्ति यावत्समयोनमावलिकाद्विकम् / ततः पुरूषवेदे उपशान्ते शेषास्त्रयोदश षट्करूपे पतद्ग्रहे संक्रामन्ति। ताश्च तत्र ताव