________________ संकम 10 - अभिधानराजेन्द्रः - भाग 7 संकम 'अद्ध' त्ति अष्टाधिका चतुरधिका च विशतिः अष्टाविशतिश्चतुर्विशतिश्चेत्यर्थः / तथा सप्तदश षोडश पञ्चदश चेत्यमूनि स्थानानि वर्जयित्वा | शेषाणि एकद्वित्रिचतुःपाषट्सप्ताष्ट नवदशैकादशद्वादशत्रयोदशचतुर्दशाष्टादशैकोनविंशतिर्विशत्येकविंशतिद्वाविंशतित्रयोविंशतिपञ्चविंशतिषदिशतिसप्तविंशतिलक्षणानि त्रयोविंशतिसंख्यानि मोहनीये संक्रमस्थानानि भवन्ति / तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टे - मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्गृह इति मिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिः संक्रामन्ति / तत्र चारित्रमोहनीयं पञ्चविंशतिप्रकृत्यात्मकं परस्पर संक्रामति सम्यक्त्वसम्यग्मिथ्यात्वयोः मिथ्यात्वे / तथा सम्यक्त्वे उदलिते सति सप्तविंशतिसत्कर्मणो मिथ्यादृष्टर्मिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति तद्व्यतिरिक्ताः शेषाः षड्विशतिः संकामन्तिा सभ्यमिथ्यात्वेऽप्युदलिते राति षड्विंशतिसत्कर्मणः पञ्चविंशतिः। अथवा-अनादिमिथ्यादृष्टः षड्विंशतिसत्कर्मणः पञ्चविंशतिः,गिथ्यात्वस्य संक्रमाभावात्। न हि तत् चारित्रभोहनीये संक्रामति,दर्शनमोहनीयचारित्रमोहनीययोः परस्पर संक्रमाभावात / अथवौपशमिकराम्यगदृष्टरष्टाविंशतिसत्कर्मणः सम्यक्त्वलाभादावलिकाया ऊर्द्ध वर्तमानस्य सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोः संक्रमः / तेन तत् पतद्ग्रह इति / तस्मिन्नपसारिते शेषा सप्तविंशतिः संक्रमे प्राप्यते / तस्यैव चौपशमिकसम्यग्दृष्ट रष्टाविंशतिरात्कर्मण आवलिकाया अभ्यन्तरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रामति / यतो मिथ्यात्वपुद्रला एव सम्यक्त्वानुगति (त) विशोधिप्रभावतः सम्यग्मिथ्यात्वलक्षणं परिणामान्तरमापादिताः। अन्यप्रकृतिरूपतया परिणामान्तरापादनं च संक्रमः, संक्रमावतिकागतं च सकलकरणायोग्यमिति सम्यक्त्वलाभादावलिकाया अभ्यन्तरे वर्तमानेन सम्यग्मिथ्यात्वं सम्यक्त्वेन संक्रम्यते, किंतु केवलं मिथ्यात्वमेव ततः सम्यग्मिथ्यात्वेऽप्यपसारित शेषा षड़विंशतिः रांकामति / चतुर्विशतिस्तु संक्रमे न प्राप्यते, यतश्चतुर्विशतिसत्कर्मा सम्यगदृष्टिर्मिथ्यात्वं गतः सन् यद्यप्यनन्तानुबन्धिनो भूयोऽपि बध्नाति, तथापि तान् सतोऽपि न संक्रमयति, बन्धावलिकागतस्य सर्वकरणायोग्यत्वात् / मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रह इतितस्मिनन्पसारिते शेषा त्रयोविंशतिरेव संक्रामति। अथवा-चतुर्विशतिसत्कर्मणः सम्यादृष्टः राम्यक्त्वं मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्ग्रह इति तरिमन्नपसारिते शेषा त्रयोविंशतिः संकामति / तस्यव मिथ्यात्वे क्षपिते द्वाविंशतिः / अथवी-पशमिकसम्यगदृष्टरूपशम श्रेण्या वर्तमानस्य चारित्रमोहनीयस्यान्तरकरणे कृते सति लोभराज्वलनस्यापि संक्रमोन भवति, "अन्तरकरणे कृते पुरूषवेदसंज्वलनवतुष्टययोरानुपूा संक्रमो भवतीति वचनप्रामाण्यात, अनन्तानुबन्धिचतुष्टरय च विसंयोजितत्वादुपशान्तत्वाद्वा संक्रमाभावः / सम्यक्त्वं च मिथ्यात्वसम्यगिमथ्यात्वयोः पतद्ग्रह इति संज्वलनलोभाननतानुबन्धि-चतुष्टयसम्यवत्वेष्वष्टाविंशतेरपनीतेषु शषा द्वाविंशतिः संक्रामति। तस्येवापशगिकसम्यगदृष्टरूपशमश्रेण्यां वर्तमानस्य नपुंसकवेदे उपशान्ते एकविंशतिः द्वाविंशतिस-कर्मणो वा सम्यक्त्व न क्वापि संक्रामतीत्येकविंशति : संक्रमे प्राप्यते / यद्वाक्षपक श्रेण्यां वर्तमानस्य क्षपकस्य यावदद्याप्यष्टौ कषाया नक्षयमुपयान्ति तावदेकविंशतिः संक्रमे प्राप्यते। औपशमिकसम्यग्दृष्टः सम्बन्धिन्याः प्रागुक्तायाः एकविंशतः स्त्रीवेदे उपशान्ते सति शेषा विंशतिः संक्रामति। यद्वा-क्षायिकसस्यगदृष्टरूपशमश्रेणि प्रतिपन्नस्य चारित्रमोहनीयस्यान्तरकरणे कृतेलोभसंज्वलनस्यापि। प्रागु-क्तयुक्तेः संक्रमो न भवतीति तस्मिन्नपसारित विंशतिः संक्रमे प्राप्यते / ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः स्त्रीवेदे उपशान्तेऽष्टादश औपशमिकसम्यगदृष्टरूपशमश्रेण्यो वर्तमानरय प्रागुक्ताया विंशतेः षट्सु नोकषायेषूपशान्तेषु शेषाश्चतुर्दश संक्रामन्ति / ततः पुरूषवेदे उपशान्त त्रयोदश / यद्वाआपकस्य क्षपक श्रेण्यां वर्तमानस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु शेषास्त्रयोदश संक्रामन्ति। तस्यैव क्षपकस्य चारित्रमोहनीयस्यान्तरकरणे कृते संज्वललोभस्य प्रागुक्तयुक्तेः संक्रमो न भवतीति तस्मिन्नपसारिते शेषा द्वादश संक्रामन्ति / अथवा-क्षायिकसम्यग्दृष्टरूपशमश्रेण्या वर्तमानस्य प्रागुक्ताभ्योऽष्टादशभ्यः षट्सु नोकषायेषूपशान्तेषु सत्सु शेषाद्वादश संक्रामन्ति। ततः पुरूषवेद उपशान्ते एकादश / क्षपकस्य वा प्रागुवंताभ्यो द्वादशभ्यो नपुंसकवेदे क्षीणे शेषा एकादश संक्रान्ति। अथवीपशमिकसम्यगदृष्टिरूपशमश्रेण्यां प्रागुक्ताभ्यस्त्रयोदशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्विके उपशान्ते शेषा एकादश संक्रमे प्राप्यन्ते / क्षपक श्रेण्यामेकादशभ्यः स्त्रीवेदे क्षीणे शेषा दश संक्रामन्ति। ओपशमिकसम्यग्दृष्टयोपशमश्रेण्यां वर्तमानस्यैफादशभ्यः संज्वलनलोभे उपशान्ते शेषा दश संक्रामन्ति! क्षायिकसम्यगदृष्टरूपशमश्रेण्या वर्तमानस्य प्रागुक्ताभ्य एकादशभ्योऽप्रत्याख्यानावरणलक्षणे क्रोधविक उपशान्ते शेषा नव संक्रामन्ति। तस्यैव ज्वलनक्रोधेऽप्युपशान्तेऽष्टौ। अथवौपशभिकसम्यग्दृष्टरलपशभश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यो दशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्विके उपशान्ते शेषा अष्टौ संक्रामन्ति। तस्यैव संज्वलनमाने उपशान्ते सप्त। क्षायिकसम्यग्दृष्टरूपशमश्रेण्या वर्तमानस्य प्रागुक्ताभ्योऽष्टाभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्विक उपशान्ते शेषणः षट्सक्रामन्ति / तस्यैव संज्वलनमान उपशान्ते पञ्च / यद्वौपशमिकसम्यग्दृष्टरूपशमश्रेण्या वर्तमानरय प्रागुक्ताभ्यः सप्तभ्यः प्रकृतिभ्याऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विक उपशान्ते शेषाः पञ्च संक्रामन्ति / तस्यैद संज्वलनमायायामुपशान्तायां चतस्रः / अथवा- क्षायिकराम्यगदृष्टः क्षपकस्य प्रागुक्ताभ्यो दशभ्यःषट्सुनोकषायेषु क्षीणेषुशेषाश्वतरस: प्रवृत्तयः संक्रामस्ति। तस्यैव पुरूषवदे क्षीणे तिस्रः। अथवा क्षायिक सम्यग्दृष्टरूपशमश्रेण्या वर्तमानस्य प्रागुक्ताभ्यः पञ्चभ्योऽप्रत्याख्यानप्रत्याख्यानाचरणलक्षणे मायाद्विके उपशान्तेशेषास्तिसः संक्रामन्ति, तस्यैवसंज्वलनमायायामुपशान्तायाद्वे। अथवौपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य प्रागुक्ताभ्यश्चतसुभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरलक्ष