________________ संकम 12 - अभिधानराजेन्द्रः - भाग 7 संकम द्यादवन्तर्मुहूर्तम् / ततः संज्वलनक्रोधस्य प्रथमस्थितो समयोनावलिकात्रिकशेषायां संज्वलनक्रोधोऽपि 'तिसु आवलियासु समऊणियासु अपडिग्गहा उ संजलणा' इति वचनात् पतद्ग्रहो न भवतीति प्रागुक्तातषट्कात्तस्मिन्नपसारितेशेषे पञ्चकरूपे पतदग्रहे ता एव त्रयोदश प्रकृतयः संक्रामन्ति / ततोऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्विक उपशान्ते शेषा एकादश प्रागुक्त एव पञ्चकपतद्ग्रहे संक्रामन्ति / ताश्व तावद्यावत्समयोनावलिकाद्विकम् / ततः संज्वलनक्रोधे उपशान्ते शेषा दश प्रकृतयस्तस्मिन्नेव पश्चकपतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् / ततः संज्यलनमानरय प्रथगस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमोनाऽपिपतद्ग्रहो न भवतीति पञ्चकात्तरिमन्नपनीते शेष चतुष्करूपे पतद्ग्रहे ता एव दश प्रकृतयः संक्रामन्ति / ताश्च तावद्यावत्समयोनमावलिकाद्विकम् / ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानद्विके उपशान्ते शेषा अष्टौ प्रकृतयश्चतुष्करूप एव पतद्ग्रहे संक्रामन्ति / ततः संज्वलनमाने उपशान्ते सप्त, ताश्च सप्त चतुष्करूपे पतद्ग्रहेऽन्तर्मुहूर्त कालं यावत्संक्रामन्ति / ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिका त्रिकशेषायां संज्वलनमायाऽपि घतद्ग्रहो न भवतीति चतुष्कात्तस्यामपगताया शेषे त्रिकरूपे पतदग्रहे पूर्वोक्ताः सप्त संक्रामन्ति। ताश्चतावद्यावत् समयोनमावलिकाद्विकम्। ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेषाः पञ्च प्रकृतयस्त्रिकरूपे पतद्ग्रहे संक्रामन्ति। ताश्च तावद्यावत्समयोनमाविलिकाद्विकम् / ततः संज्वलनभायायामुपशान्तायां शेषाश्चतस्रः प्रकृतयः संक्रामन्ति / ताश्च तावद्याव दन्तर्मुहूर्तम् / ततोऽनिवृतबादरसम्परायचरमसमयेऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे लोभाद्विक उपशान्ते शेषे द्वे प्रकृती संक्रामतः / ते च मिथ्यात्वसम्यग्मिथ्यात्वलक्षणे। नचैते संज्वलनलोभे संक्रामतः दर्शनमोहनीयचारित्रमोहनीययोः परस्पर संक्रमाभावात् / ततस्तस्यापि पतद्ग्रहता न भवतीति द्वयोरेव ते द्वे संक्रामतः। तत्र मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः, सम्यग्मिथ्यात्वं सम्यक्त्वे। तदेवमौपशमिकसम्यग्दृष्टरूपशमश्रेण्या संक्रमफ्तद्ग्रहविधिरूक्तः। सम्प्रतिक्षायिकसम्यगदृष्टरूपशमश्रेण्या संक्रमपतदग्रहविधिरूच्यते-तत्रानन्तानुबन्धिचतुष्टयदर्शनविकरूपे सप्तके क्षपिते सति एकविंशतिसत्कर्मा सन क्षायिकसम्यग्दृष्टिरूपशमश्रेणिं प्रतिपद्यते। तस्य चान्तर्मुहूर्त कालं यावत्पुरुषवेदसंज्वलनचतुष्टयरूप पक्षकपतदग्रहे एकविंशतिः संक्रामति। ततोऽन्तरकरणे कृते सति संज्वनलोभस्य संक्रमो न भवतीति एकविंशतस्तस्मिन्नपनीते शेषा विंशतिः पञ्चकपतद्ग्रहे संकामति / सा चान्तमुँहूर्त काल यावत् / ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः / साऽपि चान्तर्मुहूर्त कालं यावत्। ततः स्त्रीवादे उपशा-ते शेषा अष्टादश प्रकृतयस्तस्मिन्नेव पश्चकपतद्ग्रहे संक्रामन्ति / ताश्च तत्र तावत् यावदन्तर्मुहूर्तम् / ततः पुरुषवेदस्य प्रथमस्थिती रागोनावलिकाद्विकशेषायां पुरूषवेदः पतद्ग्रहो न भवतीति पथकात्तस्मिन्नपगते शेषे चतुष्करूपे पतद्ग्रहे ता एवाष्टादश प्रकृतयः संक्रामन्ति / ततः षट्सु नोकषायेषूपशान्तेषु शेषा द्वादश प्रकृतयश्चतुष्करूपे एव तस्मिन् पतदग्रह संक्रामन्ति / ताश्च तावद्यावत्समयोनमावलिकाद्विकम् / ततः पुरूषवेद उपशान्ते एकादश। ताश्चतुष्करूपे पतद्ग्रहे तावत्संक्रामन्ति यावदन्तमुहर्तम् / ततः संज्वलनक्रोधस्य प्रथमस्थिती समयोनावलिकात्रिकशेषायां संज्वलनक्रोधोऽपि पतद्ग्रहो न भवतीति चतुष्कात्तस्मिन्नपगते शेषे विकरूपे पगद्ग्रहे ताः पूर्वोक्ता एकादश प्रकृतयः संक्रामन्ति / ताश्च तावद्यावत् समयोनमावलिकादिकम् / ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे क्रोधद्विके उपशान्ते शेषा नव प्रकृतयः पूर्वोक्त एव त्रिकरूपे पतगृहे संक्रामन्ति, ताश्च ताव-द्यावत्समयोनमालिकाद्विकम् / ततः संज्वलनक्रोधे उपशान्तेऽष्टों संक्रामन्ति / ताश्च त्रिकरूपे पतदग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम्। ततः संज्वलनमानस्य प्रथमस्थिती समयोनावलिकात्रिकशेषायां संज्वलनमानोऽपि पतद्ग्रहो न भवतीति त्रिकात्तस्मिन्नपनीतेश द्विकरूपे पतद्ग्रहे पूर्वोक्ता अष्टौ प्रकृतयः संक्रामन्ति / ताश्च तावद्यावत्समयोनमावलिकाद्विकम् / ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्रिके उपशान्ते शेषाः षट् प्रकृतयो द्विकपतद्ग्रहे संक्रामन्ति ताश्च तावद्यावत्समयोनमावलिकाद्विकम् / ततः संज्वलनमाने उपशान्ते पक्ष संक्रामन्ति / ताश्च द्विकरूपे पतद्ग्रहे तावत् संक्रामन्ति यावदन्तर्मुहूर्तम् ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमायाऽपि पतद्ग्रहो न भवतीति द्विकात्तस्यामपगताया शेषे संज्वलनलोभ एवैकस्मिस्ताः पञ्च प्रकृतयः संक्रामन्तीति; ताश्च तावद्यावत् समयोनावलिकाद्विकम् / ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेषा स्तिस्रः प्रकृतयः संज्वलनलोभे संक्रामन्तिाताश्च तावद्यावत् समयोनमावलिकाद्विकम्।ततः संज्वलनमायायामुपशान्तायां शेषे द्वे अप्रत्याख्यानप्रत्याख्यानावरणलोभलक्षणे प्रकृतीसंज्वलनलोभेराक्रामतः, ते चान्तमुहूर्त कालं यावत ततोऽनिवृत्तिबादरसंपरायगुणस्थानकचरमसमये ते अप्युपशान्ते इति न किमपि कापि संक्रामति / तदेवं क्षायिकसम्यग्दृष्टरूपशमश्रेण्या संक्रमपतद्ग्रहविधिरूक्तः। संप्रति क्षायिकसम्यग्दृष्टः, क्षपकश्रेण्यां संक्रमपतद्ग्रहविधिरभिधीयते-तत्र क्षायिकसम्यगदृष्टिरेकविंशतिसत्कम क्षपक श्रेणिं प्रतिपद्यते / तस्य चानिवृत्तिबादरसंपरायगुणस्थानं प्राप्तस्य पुरूषवेदसंज्वलनचतुष्टयरूपे पश्चकपतद्ग्रहे पथमत एकविंशतिप्रकृतयः संक्रामन्ति / ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश, ताश्चान्तर्मुहूर्त काल यावत्। ततोऽन्तरकरणे कृते सति संज्वलनलोभस्य संक्रमा न भवतीति शेषा द्वादश प्रकृतयस्तस्मिन्नेव पञ्चकपतद्ग्रहे संक्रामन्ति, ताश्चान्तमुहूर्त कालं यावत्। ततो न पुसकवेदे क्षीणे एकादश,ता अपि अन्तर्मुहूर्त कालं यावत्। ततः स्त्रीवेदे क्षीणे दश / ता अप्यन्तर्मुहूर्त कालभ्याक्त तस्मिन्नेव पक्षकरूप पतद्ग्रहे संक्रामन्ति। ततः पुरूषवेदस्य प्रथमस्थिती समयोनावलिकाद्विकशेषायां पुरुषवेदः पतद्ग्रहो न भवतीतिपञ्चकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतद्ग्रहेता एव दश संक्रामन्तिाताश्च तावद्यावत्समयोनमावलि काद्विकम्। ततः षट्सु नोकषायेषु क्षीणेषु शेषाश्चतस्रः प्रकृतयस्तस्मिन्नेव चतुष्करूपे पतद ग्रहे संक्रामन्ति / ततः पुरू