________________ सत्ता 324 - अभिधानराजेन्द्रः - भाग 7 सत्ता दार्थेषु सदबुद्धिहेतुः सत्ता। आ० म०१ अ०। स्या०। ("त्रिपदा-र्थसत्करी सत्ता" इति वचनात् सत्ताभ्युपगमः 'सामण्ण' शब्देऽस्मिन्नेव भागे साधयिष्यते) उत्पादव्ययध्रौव्ययुक्तं सत्।स्या०। (अत्रत्या वक्तव्यता 'अणे गंतवाय' शब्दे प्रथमभागे 425 पृष्ठे गता / ) (अयमेवार्थः अर्थक्रियाकारित्वलक्षण सत्त्वमभ्युपगच्छतां क्षणिकवादिनां दूषणमुद्भाव्यजातिलक्षणं सत्त्वं सम्मतितकें प्रपशेन साधितं तत एवावगन्तव्यम् / ) सम्म० / ('समवाय' शब्देऽस्मिन्नेव भाग 2, खण्डनावसरे सत्ताखण्डनमण्डने कारिष्येते)। द्रव्यगुणकर्मसु सत्ता परसामान्यम्। सूत्र०१ श्रु०१अ०२ अ०। सद्भावे, सूत्र०१ श्रु०८ अ०। आ० म० / सत्तानां यत्र ग्रामे नगरे वा भाजनानि सन्तीति प्राकरणिकोऽर्थः। बृ०३ उ०। सद्भावः सत्ता। क० प्र०१ प्रक० / कर्मपुद्गलाना बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरणसंक्र मकृतस्वरूपप्रच्युत्यभावे सति सद्भावे, कर्म० 5 कर्म०। बन्धसमयात् संक्रमणात्मलाभसमयादारभ्य यावत्ते कर्मपरमाणी नान्यत्र संक्रम्यन्ते यावद्वान क्षयमुपगच्छन्ति तावत्तेषां स्वरूपेण सद्भावे, कर्म०६ कर्म० / सत्तालक्षणम्-सत्तामाश्रित्य गुणस्थानेषु कर्मक्षपणं च। अथ सत्तालक्षणकथनपूर्वकं यथा तेन भगवता त्रिलोकाधिपतिना श्रीमद्बर्द्धमानस्वामिना सत्तामाश्रित्य गुण स्थानेषु कर्माणि क्षपितानि तथा प्रतिपादयन्नाहसत्ता कम्माण ठिई, बंधाईलम्सअत्तलाभाणं। संते अडयालसयं, जा उवसमुविजिणुबियतइए।२५।। सत्ता उच्यते इति शेषः, किमित्याह- कर्मणां ज्ञानावरणादियोग्यपरमाणूनां स्थितिरवस्थानं सद्भाव इति पर्यायाः / किं विशिष्टाना कर्मणामित्याह-बन्धादिलब्धात्मलाभाना, तत्र मिथ्यात्वादिभिहेतुभिः कर्भयोग्यपुद्गलैरात्मनो वढ्ययः पिण्डवदन्यो-न्यानुगमाभेदात्मकः संबन्धोबन्धः, आदिशब्दात्-संक्रमकर-णादिपरिग्रहः / ततो अन्धादिभिर्लब्धः-प्राप्त आत्मलाभआत्मस्वरूप यस्तानि बन्धादिलब्धात्मलाभानि तेषां बन्धादिलब्धात्मलाभानां कर्मणां या स्थितिः सा सत्ता तस्याम्। 'संत'त्ति-सत्कर्मणि सत्तायामष्टाचत्वारिंश शतं प्रकृतीनां भवति / कियन्ति गुणस्थानानि, यावदित्याह- 'जा उवसमुत्ति यावदुपशममुपशान्तमोहम् / अयमर्थः, मिथ्यादृष्टिगुणस्थानात् प्रभृत्युपशान्तमोहगुणस्थानं यावदष्टा-चत्वारिंशं शतं सत्तायां भवति, किमविशेषणेत्याह- 'विजिणुबियतइए' त्ति-विगतं जिननाम यस्मात्तद्विजिनं जिननामविरहितं तदेवाष्टाचत्वारिंश शतं भवति, क्वेत्याह-द्वितीये सास्वादने तृतीये मिश्रदृष्टी "साराणमिस्सरहिएर वा हित्थमि" ति वचनात् सास्वादनभिश्रयाः सप्तचतवारिंशं शतं भवतीत्यर्थः। इदमत्र हृदयम्-इह मिथ्यादृष्टरष्टचत्वारिंशमपि शतं सत्तायां यदा हि प्रारबद्धनरकायुः क्षायोपशमिक सम्यवत्वमवाप्य तीर्थकरनाम्नो बन्धमारभते, तदाऽसौ नारकेषूत्पद्यमानः सम्यक्त्वमवश्यं वमतीति / भिध्यादृष्टस्तीर्थ-करनाम्नोऽपि सत्ता सम्भवति, सास्वादन मिश्रयोस्तु तस्मिन्नेव जिननामरहिते सप्तचत्वारिंश शतं सत्तायां जिननाम सत्कर्मणो जीवस्य तद्भावानवाप्तेस्तबन्धारम्भस्य च शुद्धसम्यक्त्वप्रत्ययत्वात्, यदुक्त बृहत्कर्मास्तवभाष्ये- "तित्थयरेण विहीण, सीयालस्यं तु संतए होइ। सासायणम्मि उ गुणेसम्मामीसे य पयडीणं / 1 / / " अविरतसम्यगदृष्ट्यादीनामक्षिप्तदर्शनसप्तकानामष्टचत्वारिंशस्यापि शतस्य सत्ता सम्भवतीति। अप्पुव्वाइचउक्के, अणतिरिनिरया उ विणु विआलसयं / सम्माइचउसु सत्तग-खयम्मि इगचत्तसयमहवा / / 26|| गाथापर्यन्तवय॑थवाशब्दस्य संबन्धात् पूर्व तावदष्टचत्वारिंशं शतं सत्तायामुक्तम् / अथवा-अयमपरः सत्तामाश्रित्य भेदः तथा हि-- अपूर्वादिचतुष्के अपूर्वकरणानिवृत्तिबादरसूमक्ष्मसंपरायोपशान्तमोहस्वरूपे 'अण' त्ति-अनन्तानुबन्धिचतुष्कम्, 'तिरि-निरयाउ' तिआयुःशब्दस्य प्रत्येकं योगात्तिर्यगायुर्नरकायुश्च विना द्विचत्वारिंशं शतं भवतीति / अयमाशयः यः कश्चिद्विसंयोजितानन्तानुबन्धिचतुष्को बद्धदेवायुमनुजायुषि वर्तमान उपशमश्रेणिमारोहति, तस्य तिर्यगायुर्नरकायुरनन्तानुबन्धिचतुष्कलक्षणप्रकृतिषट्करहितं शेषं द्विचत्वारिंशं शतं सत्तायां प्राप्यते, यदुक्तं बृहत्कर्मस्तवभाष्ये- “अणतिरिनारयरहियं, बायालसयं विभाणसंतम्मि। उवसामग्गस्स पुव्वा, नियट्टि सुहमोवसंतम्मि / / 1 / / " 'सम्माइचउसु'त्ति इत्यादि, सम्यक्त्वादि चतुर्यु अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तेषु 'सत्तगखयम्भि'त्ति अनन्तानुबन्धिचतुष्कमिथ्यात्वमिश्रसम्यक्त्वलक्षणसप्तकक्षये सत्येकचत्वारिंश शतम्। अथवा--सत्तायां भवति / इहाप्यथवाशब्द आवृत्त्या योज्यते,यदुक्त बृहत्कर्मस्तवसूत्रे- “अणमिच्छमीससम्म, अविरयसम्माओ अप्पमत्तता।” इति। खवगं तु पप्प चउसु वि, पणयालं नरयतिरिसुरा उ विणा। सत्तगविणु अडतीसं, जा अनियट्टी पढमभागे // 27|| क्षपकं तुः पुनरर्थे, क्षपकं पुनः प्रतीत्य-आश्रित्य चतुर्ध्वपि अविरतदेशविरतप्रमत्ताप्रमत्तेषु 'पणयालं'ति-पञ्चचत्वारिंशं शतम्। अथवाभवत्यथवाशब्द इहापि संबध्यते। कथमित्याह 'नरयतिरिसुराउ विण' त्ति-आयुःशब्दस्य प्रत्येक योगान्नरकायुस्तिर्यगायुः-सुरायुर्विनान्तरेण / इदमुक्तं भवतियो जीवो नारकतिर्यक्सुरेषु चरम तद्भवमनुभूय मनुष्यतयोत्पन्नस्तस्य नारकतिर्यकसुरायूंषि स्वस्वभवे व्यवच्छिन्नसत्ताकानि जातानि पुनस्तदनवाप्तेः / उक्तं च–“सुरनरतिरिय आउं. निययभव सव्वजीवाणमिति" इयं चैतेषु गुणस्थानेषु सामान्यजीवानां सम्भवमाश्रित्य सत्तावर्णिता न त्वधिकृतस्तवस्तुत्यस्य चरमजिनपरिवृढस्यत्, अस्याः सुरनारकतिर्यगायुः संभवापेक्षणीयत्वा जिनस्य च तदसंभवात तस्यापि च प्राग्भवापेक्षया संभवो वाच्यः, इदमेव पञ्चचत्वारिंशं शतं सप्तकमनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्वाख्यं विना अष्टाविंशं शतं भवति। कियन्ति गुणस्थानानि, यावदित्याह-'जा अनियट्टी पङमभागु' त्तिइहानिवृत्तिबादराद्धाया नव भागाः क्रियन्ते, ततोऽविरते देशविरते प्रमत्तेऽप्रमत्ते निवृत्तिबादरेऽनिवृत्तिबादरस्य च प्रथमो भागस्तावदष्टात्रिंश शतं भवति, उक्त च-"संते अड्यालसयं, खवगंतुपय होइ पणयालं। आउतिगन