________________ सत्तसत्तमिया 322 - अभिधानराजेन्द्रः - भाग 7 सत्तसत्तमिया भिग्रह इत्यभिग्रहप्रस्तावात्सागारिकसूत्राऽनन्तरं प्रतिमासूत्रस्योपनिपातः / अथवा अन्यथा संबन्धः सागारिक पिण्डप्रतिषेधतोऽज्ञातोञ्छविशुद्धं ग्रहीतव्यमित्याख्यातं, तस्य भिक्षाकालेषु किं परिमाणमिति प्रश्नावकाशमाशङ्कय प्रतिमासूत्रमुपन्यस्तवान, एष प्रतिमासूत्रसम्बन्धः। अनेन सम्बन्धनायातस्यास्य (सू०३१) व्याख्यासप्तसप्तका दिनानां यस्याः सा सप्तसप्तकिका, सप्तकशब्दे ककारस्य मकारः प्राकृतत्वात्, 'ण' मिति वाक्यालङ्कारे / भिक्षुप्रतिमा एकोनपशाशता रात्रिन्दिवैकेन षण्णवतेन भिक्षाशतेन यथा सूत्रं सूत्रानतिक्रमेण यावत्करणात-"अहामार्ग अहातचं अहासम्म फासिया पालिया तीरिया किट्टिया अणुपालिया भवई" इति--परिग्रहस्तत्र यथाकल्पं--यथाविधि--सूत्रोक्तविध्यनति-क्रमेणेत्यर्थः, यथामार्गज्ञानदर्शनचारित्राणामविराधनेन 'अहातचं' ति-याथातथ्यमेकान्ततः सूत्रानुसारेणापादितसत्य (त्य) ताकं 'अहासम्म' यथासम्यक् त्रिविधेनापि योगेनाऽपरि-ताम्यता सम्यक्करणस्फर्शिता सेविता पालिता विराधनारक्षणतः अत एव शोधिता अतीचारलेशेनाप्यकलङ्कनात् / तीरिता-तीर नीता, पर्यन्तं नीता इत्यर्थः / कीर्तिता--आचार्याणा कथिता, यथा प्रतिमा मया समाप्ता आज्ञया तीर्थकरोपदेशेन अत्र पालिता भवति / एवमष्टाष्ट किकानवनवकिकादशदशकिका-सूत्राण्यपि भावनीयानि। विशेषस्तुपाठसिद्धः, एष सूत्रचतुष्टयसंक्षेपार्थः। अहसुत्त सुत्तदेसा, कप्पो उविधीय मग्ग नाणादी। तचं तु भवे तत्थं, सम्मंजं अपरितंतेणं / / 76 / / फासिय जोगतिगेणं, पालियमविराहिय सोहितेमेव। तीरियमंतं पाविय, किट्टिय गुरुकरण जिणमाणा॥७७|| यथासूत्रमिति सूत्रादेशात् यथाकल्पमित्यत्र कल्पो- विधिर्यथामार्गमित्यत्र मागोंज्ञानादि, यथातथ्यमित्यत्र 'त' नाम तथ्य, यथासभ्यगिति सभ्यग् नाम यदपरि ताम्यताकरण स्पर्शिता योगत्रिकेण सेविता पालिता अविराधिता शोधिताऽप्येवमेव; अविराधनेनैवेत्यर्थः तारिता-अन्तं प्रापिता कीर्तिता-गुरूणां कथनतः आज्ञा जिनस्यतीर्थकृतः,द्वितीया षष्ठ्यर्थे प्राकृतत्वात्। पडिमाउपुव्वभणिया, पडिवज्जइकोतिसंघयणमादी। नवरं पुण णाणत्तं, कालच्छेए य भिक्खासु॥७८|| प्रतिपद्यते, प्रतिमा भिक्षोः प्रतिमाः पूर्वमाचारदशासु भणिताः ताः कः प्रतिपद्यते, तत आह– “तिसंघयण' ति-आद्येषु त्रिषु संहननेषु अन्यतरसंहननोपेतः चतुर्थादिषु संहननेषु वर्तमानः न प्रतिपद्यते, आदिशब्दात्-सोऽपि सूत्रार्थतदुभयोपेतो गच्छेत् कृतपरिका सातिशयो ननिरतिशय इति परिग्रहः, तृतीयं च संहनन यावदार्यरक्षितास्तावदनुवृत्त तत आरतो व्यवच्छिन्नम् / नवरं पुनानात्वमत्र कालच्छेदे भिक्षासु च / तत्र कालच्छेदमाह-- एगणपन्ने चउस-ट्ठिगासीती य सयं च बोद्धव्वं / सव्वासिं पडिमाणं, कालो एसो त्ति तो होइ॥७६|| यससप्तकिकायाः कालम् एकोनपञ्चाशत् रात्रिन्दिवानि, अष्टाष्टकिकायाश्वत: षष्टिः, नवनवकिकाया एकाशीतिः, दशदशकिकायाः शतं | रात्रिन्दिवानां बोद्धव्यं, सर्वप्रतिमानामधिकृतसूत्रचतुष्टयोपेतानामेष एतावान् भवति कालः। कथं पुनः सप्तकिका भवतीत्यत आह-. पढमाए सत्तगा सत्त, पढमे तत्थ सत्तए। एके गेण्हई भिक्खं, बिइए दोणि दोणि तु ||80|| एवमेक्कक्कियं भिक्खं, छुभिजेक्के क्क सत्तगे। गेण्हती अन्तिमो जाव, सत्त सत्त दिणे दिणे / / 1 / / प्रथमाया प्रतिमायां सप्त सप्तका भवन्ति / तत्र प्रथम सप्तके प्रतिदिवसमेकैकां भिक्षां गृह्णाति, द्वितीये सप्तके प्रतिदिवसं द्वे द्वे भिक्षे, एवं तृतीयादिषु सप्तकेष्वेकैकेषु एकैकां भिक्षामधिका प्रक्षिपेत् यावदन्तिमे सप्तके दिने सप्त सप्त भिक्षा गृह्णाति / इयमत्र भावनातृतीये सप्तके प्रतिदिवसं तिस्त्रस्तिस्रो भिक्षा गृह्णाति, चतुर्थे चतरत्रश्चतस्रः, पञ्चमे पञ्च पञ्च, षष्ठे षट् षट्, सप्तमे सप्त सप्तेति। अत्रैव प्रकारान्तरमाहअहवा एक्किक्कियं दत्तिं,जासत्तेके कसत्तए। आदेसो अत्थि एसो वि, सीहविक्कमसन्निभो॥२॥ अथवा एष द्वितीयोऽप्यादेशोऽस्ति, यथा एकैकस्मिन् सप्तके प्रत्येक प्रथमदिनादारभ्य प्रतिदिवसमेकैकां बर्द्धयेत्यावत्सप्तमे दिवसे / इयमत्र भावना-प्रथमे सप्तके प्रथम दिवसे एका भिक्षा गृह्णाति, द्वितीये द्वे, तृतीये तिरत्रः, चतुर्थे चतस्रः, पञ्चमे पञ्च, षष्ठे षट्, सप्तमे सप्त, एवं द्वितीये तृतीये चतुर्थे पञ्चमेषष्ठे सप्तमेच सप्तके द्रष्टव्यम्। एष आदेशः सिंहविक्रमसन्निभः, यथा-सिंहो गत्वा गत्वा पृष्ठतः प्रलोकयते एवमेषोऽपि सप्तके पुनर्मूलतः परावर्त्तते / गतः कालच्छेदः। सम्प्रति भिक्षापरिमाणमाहछन्नउयं मिक्खसयं, अट्ठासीया य दो सया हुंति / पंचुत्तरायचउरो, अद्धच्छटुं (अद्धछट्ठा सया चेव इतिपाठान्तरे।) सया चेव ||3|| सप्तसप्तकिकायां भिक्षापरिमाणं षण्णवतं शतम् 166, अष्टाऽष्टकिकायामष्टाशीते द्वे शते 288 भिक्षाणाम्, नवनवकिकायां पञ्चोत्तराणि चत्वारि शतानि 405 दशदशकिकायाम (दशदशकिकाया मर्धम षष्ठानि (५५०))षट् शतानि भिक्षाणामिति। सम्प्रत्यस्यैव भिक्षापरिमाणस्या - नयनाय करणमाहउचिट्ठवग्गदिवसा, मूलगुणा संजया दुहा छिन्ना। मूलेणं संगुणिया, माणं दत्तीण पडिमासु / / 4 / / पदगयसु बेयसु-त्तरसमाहयं दलियमादीणा। सहियं गच्छगुणं पडि-माणं भिक्खमाणं मुणेयव्वं / / 8 / / उद्दिष्टा ये चवर्गाः सप्तसप्तकिकादयस्ते दिवसा मूलदिनसयुक्ताः, सप्तादिदिनसन्मिश्राः क्रियन्ते, तदनन्तर द्विधाछिन्ना अधीक्रियन्ते इति भावः। ततो मूलेन सप्तादिलक्षणेन संगुण्यन्ते, संगुणिताः प्रतिमासु दत्तीना मानपरिमाणं भवति। तद्यथा-सप्तसप्तकवर्गदिवसा एकोनपशाशत् 46, ते मूलदिनैः स