________________ सत्तभंगी 318 - अभिधानराजेन्द्रः - भाग 7 सत्तभंगी त्यवतम्। अथ तृतीयभङ्गै कान्त पराकुर्वन्तिक्रमादुभयप्रधान एवायमित्यपिन साधीयः॥२७।। 'अयमिति' --शब्दः। एतदुपपादयन्तिअस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात्॥२८॥ प्रथमद्वितीयभग तक प्रधानत्यप्रतीतेरप्यबाधितत्वान्न तृतीयभङ्गै कान्ताभ्युपगमः श्रेयान। अथ चतुर्थभरै कान्तपराभवाय प्राहुःयुगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न चतुरस्रम् // 26 // स्यादववतव्यमेवेति चतुर्थभने कान्तो न श्रेयानित्यर्थः / कुत इत्याहुःतस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात्।।३०।। अथ पञ्चमभरैकान्तमपास्यन्ति-- विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपिन कान्तः॥३१॥ अत्र निमित्तमाहुःनिषेधात्मनः सह द्वयात्मनश्वार्थस्य वाचकत्वाऽवाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात्।।३२|| निषेधारमनोऽर्थस्य वाचकत्वेन सह, विधिनिषेधात्मनोऽर्थस्यावाचकत्येन च शब्दः षष्ठभड़े प्रतीयते रातः,ततः पक्षमभड़कान्तोऽपिन श्रेयान्। षष्ठमकान्तमपाकुर्वन्ति-- निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवायमित्यप्यवधारणं न रमणीयम्॥३३।। अत्र हेतुमुपदर्शयन्तिइतरथाऽपि संवेदनात् // 34|| आहाभड़ादिषु विध्यादिप्रधानतयाऽपि शब्दस्य प्रतीयमानस्था--- दित्यर्थः। अथ सप्तमभङ्गै कान्तमपाकुर्वन्तिक्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्वाऽवाकश्च ध्व-निर्नाऽन्यथेत्यऽपि मिथ्या // 35 // अब बीजमाख्यान्तिविधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः॥३६।। नन्वे करिगन् जीवादी वस्तुन्यनन्तानां विधीयगाननिषिध्यमानाना धर्माणामहीकरणादनन्ता एव वचनमा: स्याद्वादिना भवेयुः, वाच्येरात्ताऽऽयत्तत्वाद वाचकेनायाः, ततो विरुदैव सप्तभङ्गीति बुवाणं निरस्यन्ति एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीतिन चेतसि निधेयम् // 37 / / अब हेतुमा:-- विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्त-- भङ्गीनामेव संभवात्।।३।। एकैकं पर्यायमाश्रित्य वस्तुनि विधिनिषेधविकल्पाभ्या व्यस्तसमस्ताभ्यां सप्तैव भङ्गाः सम्भवन्ति,न पुनरनन्ताः / तत्कथमनन्तभङ्गीप्रसङ्गादसङ्गतत्वं सप्तभङ्गयाः समुद्भाव्यते? कुतःसप्तैव भङ्गाः सम्भवन्तीत्याहुःप्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात्॥३६॥ एतदपि कुत इत्याहुःतेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात्॥४०॥ अथ सप्तविधतजिज्ञासानियमे निमित्तमाहुःतस्या अपि सप्तविधत्वं सप्तधैवतत्सन्देहसमुत्पादात्॥४१॥ तस्या अपीति प्रतिपाद्यजिज्ञासायाः / तत्सन्देहसमुत्पादादिति प्रतिपाद्यसंशयसमुत्पत्तेः। सन्देहस्यापि सप्तधात्वे कारणमाहुःतस्याऽपि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः॥४२॥ तस्य-प्रतिपाद्यगतसन्देहस्य स्वगोचरवस्तुधर्माणां सन्देहविषयीकृतानामस्तित्वादिवस्तुपर्यायाणाम् / इयं सप्तभङ्गी कि सकलादेशस्वरूपा, विकलादेशस्वरूपा वेत्यारेका पराकुर्वन्तिइयं सप्तभङ्गीप्रतिमङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च॥४३॥ एकैको भदोऽरयाः संबन्धी सकलादेशस्वभावः, विकालादेशस्वभावश्चेत्यर्थः। अथ सकलादेश लक्षयन्ति-- प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः॥४४|| कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेधर्मधर्मिणोरपृथग्भावस्य प्राधान्य तस्मात्, कालादिभिभिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपावा समकालमभिधायकं वाक्यं सकलादेशः प्रमाणवाक्यमित्यर्थः / अयमर्थः-योगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् / विकलादेशस्तु क्रमेण भेदोपचाराद, भेदप्राधान्यादा तदभिधत्ते, तस्य नयायत्तत्वात् / कः पुनः क्रमः?, किं वा यौगपद्यम्? यदाऽस्तित्वा दिधर्माणां कालादिभिर्भेदविवक्षा, त्दैकस्य शब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः, यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्यानेकाशेषरूपस्य वस्तुनः प्रतिपादन सम्भवाद्योगपद्यम् / के पुनः कालादयः ! कालः, आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः शब्दः इत्यष्टी / तत्र रया