________________ सत्तभंगी 317 - अभिधानराजेन्द्रः - भाग 7 सत्तभंगी पत्तिः स्यात्. तत्प्रतिपत्तये स्यादिति प्रयुज्यते, स्यात्कथक्षित्स्वद्रव्यादिभिरेवायमस्ति, न परद्रव्यादिभिरपीत्यर्थः / यत्रापि चासो न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारंवद् बुद्धिमद्भिः प्रतीयत एव / यदुक्तम्-“सोऽप्रयुक्तोऽपि वा तज्ज्ञैः, सर्वत्रार्थात्प्रतीयते। यथैवकारो योगादिव्यवच्छेदप्रयोजनः / / 1 / / " अथ द्वितीयभड्रोल्लेखं ख्यापयन्तिस्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः॥१६॥ स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानष्टौ प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधः। न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमित्यभिधानीयम् कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्यात्साधनवत् / न हि क्वचिदनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम, तस्य साधनाभासत्वप्रसङ्गात्। अथ यदेव नियतं साध्यसद्भावेऽस्तित्वं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते, तत्कथं प्रतिषेध्यमः, स्वरूपस्य प्रतिषेधत्वानुपपत्तेः, साध्यसद्भावे नास्तित्वं तु यत्तत्प्रतिषेध्यम्, तेना विना भावित्वे साध्यसद्भावास्तित्वस्य व्याघातात्तेनैव स्वरूपेणास्ति नास्ति चेति प्रतीत्यभावादिति चेत् / तदसत् एवं हेतोस्त्रिरूपत्वविरोधात् / विपक्षासत्त्वस्य तात्विकस्याभावात् / यदि चायं भावाभावयोरेकत्वमाचक्षीत, तदा सर्वथा न क्वचित्प्रवर्तेत / नापि कुतश्चिन्निवर्तेत / प्रवृत्तिनिवृत्ति - विषयस्य भावस्याभावपरिहारेणासंभवात्, अभावस्य च भावपरिहारेणेति वस्तुनोऽस्तित्वनास्तित्वयो रूपान्तरत्वमेष्टव्यम्। तथा चास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावि सिद्धम्। यथा च प्रतिषेध्यमस्तित्वस्य नास्तित्व तथा प्रधानभावतः क्रमार्पितोभयत्वादिधर्मपशकमपि वक्ष्यमाणं लक्षणीयम्। अथ तृतीयं भङ्ग मुल्लेखतो व्यक्तीकुर्वन्तिस्यादस्त्येवस्यान्नास्त्येवेतिक्रमतो विधिनिषेधकल्पनया तृतीयः | ||17|| सर्वमिति पूर्वसूत्रादिहोत्तख चानुवर्तनीयम् / ततोऽयमर्थः / क्रमापितस्वपरद्रव्यादिचतुष्टयापेक्षया क्रमार्पिताभ्यामस्तित्वनास्तित्वाभ्यां विशेषितं सर्व कुम्भादि वस्तु स्यादस्त्येव स्यान्नास्त्येवेत्युल्लेखेन यवतध्यमिति। __ इदानीं चतुर्थभङ्गोल्लेखमाविर्भावयन्तिस्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः 18 / द्वाभ्यामस्तित्वनास्तित्वाख्यधर्माभ्यां युगपत्प्रधानतयार्पिताभ्यामेकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासम्भवादवक्तव्यं जीवादिवस्त्विति। तथाहि-सदसत्त्वगुणद्वयं युगपदेकर सदित्यभिधानेन वक्तुमशक्यम् / तस्यासत्त्वप्रतिपादनासमर्थत्वात्, तथैवासदित्यभिधानेन न तद्वक्तुं शक्यम् / तस्य सत्त्वप्रत्यायने सामर्थ्याभावात्। साङ्केतिकमेकं पदं तदभिधातुं समर्थमित्यपि न सत्यम् / तस्यापि क्रमेणार्थद्वय प्रत्यायने सामोपपत्तेः, शतृशानचौ सदितिशतृशानचोः | सङ्केति तसत्छन्दवत् / द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकमित्य प्यनेनापास्तम् / सदसत्त्वं इत्यादि पदस्य क्रमेण धर्मद्वय प्रत्यायने समर्थत्वात। कर्मधारयादिवृत्तिपदमपिन तयोरभिधायकं तत एव वाक्य तयोरभिधायकमनेनैवापस्तमिति सकलवाचकरहितत्वाद-वक्तव्यं वस्तु युगपत सदसत्त्वाभ्यां प्रधानभावार्पिताभ्यामाक्रान्तं व्यवतिष्ठते। अयं च भङ्गः कैश्वित्तृतीयभङ्ग स्थाने पठ्यते, तृतीयश्चैतस्य स्थाने। न चैवमपि कश्चिद्दोषः, अर्थविशेषस्याभावात्। ___अथ पञ्चमभङ्गोल्लेखमुपदर्शयन्तिस्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः||१६| स्वद्रव्यादिधतुष्ठयापेक्षयाऽस्तित्वे सत्यस्तित्वनास्तित्वाभ्यां सह वक्तुमशक्यम् सर्व वस्तु / ततः स्यादस्त्येव स्यादवक्तव्यमेवेत्येवं पञ्चमभङ्गेनोपदर्श्यत इति। अथषष्ठभड्रोल्लेख प्रकटयन्तिस्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः // 20 // परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सत्यस्तित्वनास्तित्वा भ्या योगपदोन प्रतिपादयितुमशक्य समस्तं वस्तु। ततः स्यान्नास्त्येव स्यादवक्तव्यमेवेत्येवं षष्ठभङ्गेन प्रकाश्यते। सम्प्रति सप्तमभङ्ग मुलिखन्ति-- स्यादस्त्येव स्यान्नास्त्येवस्यादवक्तव्यमेवेति क्रमतो विधिनि-- षेधकल्पनया युगपद्विधिनिषेधकल्पनयाच सप्तम इति॥२१॥ इतिशब्दः सप्तभङ्गीसमाप्त्यर्थः / स्वपरद्रव्यादिचतुष्टयाऽपेक्षयाऽस्तित्वनास्तित्वयोः सतोरस्तित्वनास्तित्वाभ्यां समसमयमभिधातुमशक्यमखिलं वस्तु तत एवमनन भङ्गेनोपदर्श्यते। अथास्यामेव सप्तभङ्गयामेकान्तविकल्पा निराचिकीर्षवः सूत्राण्याहुःविधिप्रधान एव ध्वनिरिति न साधु / / 22 / / प्राधान्येन विधिमेव शब्दोऽभिधत्ते इति न युक्तम् / अत्र हेतुमाहुःनिषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः।।२३।। 'तरमादिति' - शब्दात्। आशङ्कान्तरं निरस्यन्तिअप्राधान्येनैवध्वनिस्तमभिधत्ते इत्यप्यसारम्॥२४॥ तमिति निषेधम्। अत्र हेतुमाचक्षतेक्वचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य तस्याप्राधान्यानुपपत्तेः॥२५|| न खलु मुख्यतः स्वरूपेणाप्रतिपन्नं वस्तु क्वचिदप्रधानभावमनुभवतीति। इत्थं प्रथमभद् कान्तं निरस्येदानी द्वितीयभङ्गै कान्तनिरासमतिदिशन्तिनिषेधप्रधान एवशब्द इत्यपि प्रागुक्तन्यायादपास्तम्॥२६।।