________________ सत्तभंगी 316 - अभिधानराजेन्द्रः - भाग 7 सत्तभंगी र्थमुपात्तम्, इतरथा अनभिहिततुल्यतैवास्त वाक्यस्य प्रसज्ज्येत, प्रतिनियतस्वार्थाऽनभिधानात् / यदुक्तम्-“वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये। कर्त्तव्यमन्यथाऽनुक्त-समत्वात् तस्य कुत्रचित्।।१।।" तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनाऽपि सर्वप्रकारेणाऽस्तित्वप्राप्तः प्रतिनियतस्वरूपानुपपत्तिः स्यात् / तत्प्रतिपत्तये 'स्याद्' इति शब्दः प्रयुज्यते। स्यात्कथंचित स्वद्रव्यादिभिरेवाऽयमस्ति, न परद्रव्यादिभिरपीत्यर्थः / यत्राऽपिचासीन प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव / यदुक्तम्"सोऽप्रयुक्तोऽपि वा तज्झैः, सर्वत्राऽर्थात्प्रतीयते / यथैवकारोऽयोगादि व्यवच्छेदप्रयोजनः / / 1 / / " इति प्रथमो भगः / स्यात्कथंचिद् नास्त्येव कुम्भादिः, स्वद्रव्यादिभिरिव परद्रय्यादिभिरपि वस्तुनोऽसत्त्वाऽनिष्टो हि प्रतिनियतस्वरूपाऽभावाद् वस्तुप्रतिनियतिर्न स्यात् / न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमिति वक्तव्यम् , कथंचित तरय | वस्तुनि युक्तिसिद्धत्वात्, साधनवत्। न हि क्वचिद् अनित्यत्यादी साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्व-मन्तरेणोपपन्नम, तस्य साधनत्वाऽभावप्रसङ्गात्। तस्मात् वस्तुनोऽस्तित्वं नास्तित्वेनाऽविनाभूतम्, नास्तित्वं च तेनेति। विवक्षावशाचाऽनयोः प्रधानोपसर्जनभावः / एवमुत्तरभङ्गेष्वपि ज्ञेयम्- “अर्पिताऽनर्पितसिद्धेः” इति वाचकवचनात् / इति द्वितीयः। तृतीयः स्पष्ट एव / द्वाभ्यामस्तित्वनास्तित्वधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्याम्, एकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्याऽसंभवाद्, अवक्तव्यं जीवा दिवस्तु, तथाहिसदसत्त्वगुणद्वयं युगपद् एकत्र सदित्यनेन वक्तुमशक्यम्: तस्याऽसत्त्व - प्रतिपादनाऽसमर्थत्वात, तथाऽसदित्यनेनाऽपि तस्य सत्त्वप्रत्यायनसामर्थ्याऽभावात्। न च पुष्पदन्तादिवत् साङ्केति-कमेकं पदं तद् वक्तु समर्थम, तस्याऽपि क्रमेणार्थद्वयप्रत्यायने सामोपपत्तेः,शतृशानयोः संकेतितसच्छन्दवत; अत एव द्वन्द्वकर्मधारयवृत्त्योर्वाक्यस्य चन तवाचकत्वम्, इति सकलवाचकरहितत्वाद् अवक्तव्य वस्तु युगपत्सत्वाऽसत्त्वाभ्यां प्रधानभावाप्र्पिताभ्यामाक्रान्तं व्यवतिष्ठते / न च सवर्थाऽवक्तव्यम; अवक्तव्यशब्देनाप्यनभिधेयत्वप्रसङ्गात् / इति चतुर्थः। शेषा--स्त्रयः सुगमाभिप्रायाः / न च वाच्यमेकत्र वस्तुनि विधीयमाननि-षिध्यमानाऽनन्तधर्माभ्युपगमेनाऽनन्तभङ्गीप्रसङ्गाद् असङ्ग तैव सप्तभङ्गीति, विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि अनन्तानामपि सप्तभडीनामेव सम्भवात्। यथा हि सदसत्वाभ्याम्, एवं सामान्यविशेषाभ्यामपि सप्तभङ्गयेव स्यात्। तथाहि-स्यात्सामान्यम् | स्याद् विशेषः, स्यादुभयम्, रयादवक्तव्यम, स्यात्सामान्यावक्तव्यम, स्याद विशेषाऽवक्तव्यम्, स्यारसामान्यविशेषाऽवक्तव्यमिति। न चात्र विधिनिषेधप्रकारौ न सः इति वाच्यम्, सामान्यस्य विधिरूपत्वाद्, विशेषस्य च व्यावृत्तिरूपतया निषेधात्मकत्वात् / अथवा-प्रतिपक्षशब्दत्वाद् यदा सामान्यस्य प्राधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता। यदा विशेषस्य पुरस्कारस्तदातस्य विधिरूपता इतरस्य च निषेधरूपता। एवं सर्वत्र योज्यम्। अतः सुष्टुक्तमनन्ता अपि सप्तभङ्ग्य एव भवेयुरिति प्रतिपर्याय प्रतिपाद्यपर्यनुयोगाना सप्तानामेव सम्भवाद, तेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात; तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् तस्यापि सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणा सप्तविधत्वस्यैवोपपत्तेरिति / स्या०। अथ सप्तभङ्गीमेव स्वरूपतो निरूपयन्तिएकत्र वस्तुन्ये कैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः सम-स्तयोश्च विधिनिषेधयोः कल्पनयास्यात्काराङ्कितः सप्तधा वाक्यप्रयोगः सप्तभङ्गी||१४|| एकत्र जीवदी वस्तुन्येकै कसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिवाधापरिहारेण पृथग्भूतयोः समुदितयोश्व विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी विज्ञेया। भज्यन्ते-भिद्यन्तेऽर्था यैस्ते भङ्गा वचनप्रकारास्ततः सप्त भङ्गाः समाहृताः सप्तभङ्गीति कथ्यते। नानावस्त्वाश्रयविधिनिषेधकल्पनया शतभडीप्रसङ्गनिवर्त्तनार्थमेका वस्तुनीत्युपन्यस्तम्। एकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मपर्यालोधनयाऽनन्तभङ्गीप्रसक्तिव्यावर्त्तनार्थमेकैकधर्मर्ण्यनुयोगवशादित्युपातम्। अनन्तेष्वपि हिधर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्त्तमानत्वात् / तत्प्रतिवचनस्यापि सप्तविधत्वमेवोपपन्नमित्येकैकस्मिन् धर्मे एकैकैव सप्तभङ्गी साधीयसी। एवं चानन्तधर्मापेक्षया सप्तभङ्गीनामानन्त्यं यदायाति, तदभिमतमेव / एतचाग्रे सूत्रत एव निर्णेष्यते। प्रत्यक्षादिविरुद्धसदायेकान्तविधि-प्रतिषेधकल्पनयाऽपि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थमविरोधनेत्यभिहितम्। अवोचाम च“या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा, धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि। निर्दोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया, जल्पन जल्परणाङ्गणे विजयते वादी विपक्ष क्षणात् / / 1 / / " इदं च सप्तभङ्गीलक्षण प्रमाणनयसप्तभङ्गयोः साधारणमवधारणीयम् / विशेषलक्षण पुनरनयोरग्रे वक्ष्यते। अथास्या प्रथमभङ्गाल्लेख तावद्दर्शयन्तितद्यथा-स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमोभङ्गः।।१५।। स्यादित्यव्ययमनेकान्तवद्द्योतकं स्यात्कशित्स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण / तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनाऽस्ति, न जलादिरूपत्वेन; क्षेत्रतःपाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन, कालतः शशिरत्वेन, न वासन्तिकादित्वेन, भावतः श्यामत्वेन, न रक्तवादिना। अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति। अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्यर्थमुपात्तम् / इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत, प्रतिनियतस्वार्थानभिधानात्। तदुक्तम्- “वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये। कर्त्तव्यमन्यथाऽनुक्त-समत्वात् तस्य कुत्रचित् // 1 // तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाधस्तित्वेनापि सर्व प्रकारेणास्तित्व प्राप्ते : प्रतिनियतस्वरूपानुप