________________ सण्णिसिज्जा 310 - अभिधानराजेन्द्रः - भाग 7 सण्णिसुय *स्वनिषद्या स्त्री० स्वकीयायां निषद्यायाम, व्य० 4 उ०। सण्णिसुय न० (संज्ञिश्रुत) संज्ञाः विद्यन्तेयेषाते संज्ञिनः पर सर्वत्राप्यागमे दीर्घकालिक्या संज्ञया संज्ञिनस्ते संज्ञिन उच्यन्ते। ततः संजिनां श्रुतं संज्ञिश्रुतम् / समनस्काना मनः सहितैरिन्द्रियैर्जनिते श्रुतज्ञाने, कर्म० 1 कर्म०। से किं तं सण्णिसुअं? सण्णिसुयं (अं)तिविहं पण्णत्तं,तं जहाकालिओवएसेणं हेऊवएसेणं दिट्ठिवाओवएसेणं / से किं तं कालिओवएसेणं? कालिओवएसेणं जस्सणं अत्थि ईहा अवोहो मग्गणा गवेसणा चिंता वीमंसा से णं सपणीति लब्मइ। जस्सणं नऽत्थिईहा अवोहो मग्गणा गवसणा चिंता वीमंसा से णं असन्नीति लब्भइ। सेतं कालिओवएसेणं से किं तं हेऊवए-सेणं? जस्सणं अत्थि अभिसंधारणपुट्विआ करणसत्ती से णं सण्णीति लब्भइ, जस्सणं नऽस्थि अभिसंधारणपुट्विआ करणसत्ती से णं असण्णीति लब्भइ, से तं हेऊवएसेणं / से किं तं दिट्ठिवाओवएसेणं ? दिट्ठिवाओवएसेणं सण्णिसुअस्स खओ-वसमेणं सण्णी लब्भइ, असिण्णसुअस्स खओवसमेणं असण्णी लब्भइ। से तं दिट्ठिवाओवएसेणं / से तं सण्णिसुअं। से तं असण्णिसुअं। (सू०३६।) 'से किं त' मित्यादि,अथ किं तत्संज्ञिश्रुतम् ? संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संज्ञिश्रुतम्।आचार्य आह-संज्ञिश्रुतं त्रिविधं प्रज्ञप्तम् संज्ञिनस्त्रिभेदत्वात्, तदेव त्रिभेदत्वं सझिनो दर्शयति। तद्यथाकालिक्युपदेशेन 1 हेतूपदेशेन 2 दृष्टिवादो-पदेशेन 3 // तत्र कालिक्युपदेशेनेकत्यत्रादिपदलोपाद्दीर्घकालिक्युपदेशेनेति द्रष्टव्यम्। 'से कि त' मित्यादि अथ कोऽयं कालिक्युपदेशेन संज्ञी ? इह दीर्घकालिकी संज्ञा कालिकीति व्यपदिश्यते, आदिपदलोपादुपदेशनमुपदेशः-कथनमित्यर्थः, दीर्घकालिक्या उपदेशः-दीर्घकालिक्युपदेशरतेन, आचार्य आह–कालिक्युपदेशेन संज्ञी स उच्यते यस्य प्राणिनोऽस्ति विद्यते ईहासदर्थपर्यालोचनभपोहो-निश्चयो मागणाअन्वय-धर्मान्वेषणरूपा गवेषणा-व्यतिरेकधर्मस्वरूपपर्यालोचन चिन्ता-कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचन विमर्शन विमर्श:इदमित्थमेव घटते इत्थं वा तद्भुतमित्थमेव वा तद्धावीति यथावस्थितवस्तुस्वरूपनिर्णयः, स प्राणी 'ण' मिति वाक्यालङ्कारे संज्ञीति लभ्यते। स च गर्भव्युत्क्रान्तिकपुरुषादि रोपपातिकश्च देवादिर्मनः पर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविषयचिन्ता-विमर्शादिसम्भवाद्, आह च भाष्यकृद्-'इह दीहकालिगि-कालिगित्ति सन्ना जया सुदीह पि। समभरइ भूयमेस्सं, चिंतेइ य किहणुकायव्वं / / 1 / / ' कालियसन्नि त्ति तओ, यस्स मई सो य तो मणोजोगे। खंधेऽणते घेत्तुं, मन्नइ तलद्धिसंपत्तो॥२॥" एष च प्रायः सर्वमप्वर्थं स्फुटरूप-मुपलभते, तथाहि-यथा चक्षुष्मान् / प्रदीपादिप्रकाशेन स्फुटमथ-सुपलभते तथैषोऽपि मनोलब्धिसम्पन्नो / मनोद्रव्यावष्टम्भसमुत्थ-विमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थित स्फुटमर्थमुपलभते, यस्य पुनर्नास्ति ईहा अपोहो मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंज्ञीति लभ्यते, स च संमूञ्छिमपञ्चेन्द्रियविकलेन्द्रियादिर्विज्ञेयः स हि स्वल्प-स्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटभस्फुटतरमर्थं जानाति / तथाहि- संज्ञिपञ्चेन्द्रियापेक्षया संमूछिमपवेन्द्रियोऽस्फुटमर्थ जानाति, ततोऽप्यस्फुट चतुरिन्द्रियः, ततोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्य-स्फुटतभं द्वीन्द्रियः, ततोऽप्यस्फुटतममेकेन्द्रियः तस्य प्रायो मनोद्रव्यासम्भवात्, केवलमव्यक्तमेव किञ्चिदतीवाल्पतरं मनोद्रष्टव्यं, यदशादाहारादिसंज्ञा अव्यक्तरूपाः प्रादुःष्यन्ति, 'सेत्त' मित्यादि, सोऽयं कालिक्युपदेशेन संज्ञी। ‘से किं त' मि त्यादि, अथ कोऽयं हेतूपदेशेन संज्ञी? हेतुः कारणं निमित्तमित्यनर्थान्तरम, उपदेशनमुपदेशः हेतोरुपदेशनं हेतूपदेशस्तेन कि-मुक्त भवति!, कोऽयं संज्ञित्वनिबन्धहेतुमुपलभ्य कालिक्युपदे-शेनासयपि संज्ञीतिव्यवह्रियते, आचार्य आह-हेतूपदेशेन संज्ञा यस्य प्राणिनोऽस्तिविद्यतेऽभिसन्धारणम्-अव्यक्तेन व्यक्तेन वा विज्ञ'नेनालोचन तत्पूर्विकातत्कारणिका करणशक्तिः-करणं क्रिया तस्यां शक्तिःप्रवृत्तिः,स प्राणी णमिति वाक्यालङ्कारे, हेतुपदेशेन संज्ञीति भण्यते, एतदुक्त भवति-यो बुद्धिपूर्वक स्वदेहपरिपालनार्थ-मिष्वाहारादिषु वस्तुषु प्रवर्तते अनिष्टभ्यश्च निवर्त्तते स हेतूपदेशेन सज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहि-इष्टानिष्टविषयप्रवृत्तिनिवृत्ति सञ्चिन्तनं न मनोव्यापारमन्तरेण सम्भवति,मनसा पर्यालोचनं संज्ञा, सच द्वीन्द्रियादेरपि विद्यते, तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात ततो द्वीन्द्रियादिरपि हेतुपदेशेन संज्ञी लभ्यते,नवरमस्य चिन्तनं प्रायो वर्तमानकालविषयं न भूतभविष्यद्विषयमिति न कालिक्यपदेशेन सज्ञी लभ्यते / यस्य पुनर्नारस्यभिसन्धारणापूर्विका करणशक्तिः स प्राणी, णमिति वाक्यालङ्कारे, हेतूपदेशेनाप्यसंज्ञी लभ्यते,स च पृथिव्यादिरेकेन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्ट प्रवृत्तिनिवृत्त्यसम्भवात, या अपि चाहारादिसंज्ञाः पृथिव्यादीनां वर्तन्तेत अप्यत्यन्तमव्यक्तरूपा इति तदपेक्षयाऽपि न तेषां संज्ञित्वव्यपदेशः / उक्तं च भाष्यकृता “जे पुण संचिंतेउं, इटाणिठेसु विसयवत्थुसु। वत्तंति नियत्तति य, सदेहपरिपालणाहेउ।।१।।पाएणसंपइचिय, कालम्मिनयाइदीह-कालण्णू / ते हेउवायसण्णी, निच्चिट्ठा होति अस्सण्णी // 2 // " अन्यत्रापि हेतूपदेशेन संज्ञित्वमाश्रित्वोक्तम्-'कृमिकीटपतङ्गाद्याः, समनस्का जड़माश्चतुर्भेदाः / अमनस्काः पञ्च-वधाः, पृथिवीकायादयो जीवाः // 1 // ' 'सत्त' मित्यादि, सोऽयं हेतूपदेशेन संज्ञी। 'से किंत' मित्यादि। अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी? दृष्टिदर्शनसम्यक्त्वादिवदनवादःदृष्टीनांचादोदृष्टिवादस्तदुपदेशन, तद