________________ सण्णा 302 - अभिधानराजेन्द्रः - भाग 7 सण्णा ततोऽप्यत्यस्फुटतममेकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात्, केवलमव्यक्तमेव किंचिदतीवाल्पतरं मनो द्रष्टव्यम्-यदशादाहारादिसंज्ञा अव्यक्तरूपाः प्रादुष्यन्तीति? साम्प्रतं हेतुवादोपदेशसंज्ञया संज्ञिनमसंज्ञिनंचाहजे उणसंचितेउ, इवाणिहेसु विसयवत्थूसु। वत्तंति नियत्तंतिय, सदेहपरिपालणाहेउं||३४|| पाएणसंपइचिय, कालम्मिनयाऽविदीहकालम्मि। ते हेउवायसन्नी, निचेट्ठा हुँति हु असन्नी / / 635 // ये पुनः संचिन्त्य संचिन्त्येष्टानिष्टषुछायातपाहारादिषु विषयवस्तुषुमध्ये स्वदेहपरिपालनाहेतोरिष्टेषु वर्तन्ते। अनिष्टभ्यस्तु तेभ्य एव निवर्तन्ते। प्रायेण च साम्प्रतकाल एव, न चापि नैव दीर्घकालेऽतीतानागतलक्षणे, प्रायोग्रहणात् केचिदतीतानागतकालावलम्बिनोऽपि, नातिदीर्घकालानुसारिणः ते द्वीन्द्रियादयो हेतुवादोपदेश संज्ञया संज्ञिनो विज्ञेयाः। अत्र च निश्चेष्टा धर्माद्यभितापितास्तन्निराकरणाय प्रवृत्तिनिवृत्तिविरहिताः पृथिव्यादय एवासंज्ञिनो भवन्ति / किमुक्तं भवति?यो बुद्धिपूर्वक स्वदेहपरिपालनार्थमिष्टेष्वाहारादिषु वस्तुषु प्रवर्तते, अनिष्टेभ्यश्च निवर्तते; स हेतूपदेशसंज्ञी, सच द्वीन्द्रियादिरपि वेदितव्यः। तथाहिइष्टानिष्टविषयप्रवृत्तिनिवृत्तिसंचिन्तनं न मनोव्यापारमन्तरेण सम्भवति, मनसा च पर्यालोचने संज्ञा, सा च द्वीन्द्रियादेरपि विद्यते, तस्यापि प्रतिनियतेष्टाविषयप्रवृत्तिनिवृत्तिदर्शनात् / ततो दीन्द्रियादिरपि हेतूपदेशसंज्ञया संज्ञी लभ्यते, नवरमस्य संचिन्तनं प्रायो वर्तमानकालविषयम्, न भूतभविष्यद्विषयमिति / नायं दीर्घकालोपदेशेन संज्ञी यस्य पुनर्नास्त्यभिसंधारणपूर्विका प्रवृत्तिनिवृत्तिशक्तिः स प्राणी हेतुवादोपदेशेनाप्यसंज्ञी लभ्यते। सच पृथिव्यादिरेकेन्द्रियो वेदितव्यः। तस्याभिसंबन्धपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात, या अपि च आहारादिका दश संज्ञाः पृथिव्यादीनामप्यत्र वक्ष्यन्ते, प्रज्ञापनायामपि य प्रतिपादितास्ता अप्यत्यन्तमव्यक्तरूपा मोहोदयजन्यत्वादशोभनाश्च इतिन तदपेक्षयापि तेषां संज्ञित्वव्यदेशः। न हि लोकेऽपि कार्षापणमात्रास्तित्वेन धनवानुच्यते, न चाविशिष्टन मूर्तिमात्रेण रूपवानिति, अन्यत्रापि हेतुवादोपदेशसंज्ञित्वमाश्रित्योक्तं- कृमिकीटपतङ्गाद्याः समनस्का, जङ्गमाश्चतुर्भेदाः / अमनस्काः पञ्चविधाः। पृथिवीकादयो जीवाः। अथ दृष्टिवादोपदेशसंज्ञया संज्ञिनमसंज्ञिनं चाहसम्मविट्ठी सन्नी, संते नाणे खओवसमिए य। असन्नि मिच्छत्तम्मि, (य) दिहिवाओवएसेण॥६३६|| दृष्टिवादोपदेशेन क्षायोपशमिकज्ञाने वर्तमानः सम्यग्दृष्टिमेव संज्ञानी, संज्ञानं संज्ञा सम्यग्ज्ञानम् / तद्युक्तत्वात् / मिथ्यादृष्टिः पुनरसंज्ञी, विपर्ययत्वेन वस्तुतः सम्यग्ज्ञानरूपसंज्ञारहितत्वात्। यद्यपि च मिथ्यादृष्टिरपि सम्यगदृष्टिरिव घटादिकं जानाति, व्यवहरतिच, तथापि तस्य संबन्धिव्यवहारमाप्रण ज्ञानम पि निश्चयतोऽज्ञानमेवोच्यते। तर्हि किमिति क्षायोपशमिकज्ञानयुक्तोऽसौ गृह्यते? क्षायिकज्ञाने हि विशिष्टतरा सा प्राप्यते, ततस्तवृत्तिरप्यसौ किं नाऽङ्गीक्रियते? उच्यते यतोऽतीतस्यार्थस्य स्मरणमनागतस्य च चिन्ता संज्ञाऽभिधीयते, सा च केवलिनां नास्ति। सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरणचिन्ताद्यतीतत्वात्ः इति क्षायोपशमिकज्ञान्येव सम्यगदृष्टिः संज्ञीति। ननु प्रथमं हेतुवादोपदेशेन संज्ञी वक्तुं युज्यते / हेतुवादोपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगमात्, तस्य चाविशुद्धतरत्वात्, ततो दीर्घकालोपदेशेन हेतूपदेश-संजयपेक्षया दीर्घकालोपदेशसंझिनो मनःपर्याप्तियुक्तया विशुद्धत्वात्। तत्किमर्थमुत्क्र मोपन्यासः! उच्यते-इह सर्वत्र सूत्रे यत्र कृचित्संज्ञी असंज्ञी वा परिगृह्यते तत्र सर्वत्रापि प्रायो दीर्घकालोपदेशेन गृह्यते, न हेतुवादोपदेशेन, नापि दृष्टिवादोपदेशेन,तत एतत्संप्रत्ययार्थं प्रथमं दीर्घकालोपदेशेन संज्ञिनो ग्रहणम् / उक्तञ्च-'सन्नि त्ति असन्नि त्ति य, सव्वसुए कालिओवएसेणं। पायं संववहारो, कीरइतेणाइओ सकओ1॥१॥ ततोऽनन्तरमप्रधानत्वात् हेतूपदेशेन संज्ञिनो ग्रहणम्। ततः सर्वप्रधानत्वादन्ते दृष्टिवादोपदेशेनेति / प्रव० / 144 द्वार। आ० म०। कर्म०। नं०। संज्ञानं संज्ञा असा-तवेदनीयमोहनीयकर्मोदयजन्ये चैतन्यविशेषे, पा० / वेदनीयमोहनीयोदयाश्रितानां ज्ञानावरणदर्शनावरणक्षयोपसमाश्रि-तायां विचित्राहारादिप्राप्ति-क्रियायाम, प्रव० 14 द्वार / दर्श० / अभिलाषे, आहारसंज्ञा-आहाराभिलाषः क्षुद्वेनीयप्रभवः खल्वात्मपरिणामविशेष इति।नं०। संज्ञा चतुर्धाचत्तारि सणाओ पण्णत्ताओ, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा। (सू०३५६४) 'चत्तारि' इत्यादि व्यक्तं केवलं संज्ञानं संज्ञा--चैतन्यं, तचासातवेदनीयमोहनीयकम्र्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति / स्था० 4 ठा०४ उ०। स०। आतु० / उत्त० / प्रव०। (आहारसंज्ञावक्तव्यता 'आहारसण्णा' शब्दे द्वितीयभागे 527 पृष्ठे द्रष्टव्या।) (भयसंज्ञावक्तव्यता 'भयसण्णा' शब्दे पञ्चमभाग 1385 / 1384 पृष्ठे गता।) ('मैथुनसंज्ञाव्याख्या मेहुणसण्णा' शब्दे षष्ठे भागे 426 / 430 पृष्ठे गता।) (परिग्रहसंज्ञावक्तव्यता 'परिग्गहसण्णा' शब्दे पञ्चमभागे 567 पृष्ठे गता।) इदानीं 'सण्णाओ चउरों' त्ति पञ्चचत्वारिंशच्छततमं द्वारमाहआहार१ भयर परिग्गह३, मेहुण 4 रूवाउ हुंति चत्तारि। सत्ताणं सन्नाओ, आसंसारं समग्गाणं / / 637 / / संज्ञानं संज्ञा आभोगः, सा द्विधा-क्षायोपशमिकी औदयिकी च / तत्राद्या ज्ञानावरणक्षयोपशमजन्यमतिभेदरूपा, सा चानन्तरमेवोक्ता। द्वितीय पुनः सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्र क्षुद्वेदनीयोदयाद्या कवलाद्याहाराद्यर्थं तथाविधपुग़लोपादानक्रिया सा आहार--