________________ सण्णा 301 - अभिधानराजेन्द्रः - भाग 7 सण्णा तु-विशिष्टसंज्ञानिषेधो, यथाऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति। साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह... दव्ये सचित्ताई, भावेऽणुभवणजाणणा सण्णा। मति होइ जाणणा पुण, अणुभवणा कम्मसंजुत्ता॥३८ संज्ञा नामादिभेदाचतुद्धा, नामस्थाने क्षुण्णे / ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ताऽचित्तमिश्रभेदास्त्रिधा, सचित्तेन हस्तादिद्र-व्येण पानभोजनादिसंज्ञा, अचित्तेन ध्वजादिना, मिश्रेण प्रदीपा-दिना संज्ञान-संज्ञा अवगम इति कृत्वा। भावसंज्ञा पुनर्द्विधा अनुभवनसंज्ञा, ज्ञानसंज्ञा च। तत्राल्पव्याख्येयत्वात्तावत्, ज्ञान-संज्ञा दर्शयति- 'मइ होइ जाणणा पुण' त्ति-मनन मतिः-अवबोधः, सा च मतिज्ञानादिः पक्षाधा, तत्र के वलसंज्ञा क्षायिकी शेषास्तु क्षायो पशमिक्यः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादि-समुत्था जन्तोर्जायते। सा च षोडशभेदेति दर्शयतिआहारभयपरिग्गह-मेहुणसुखदुक्खमोहवितिगिच्छा। कोहमाणमायलोहे, सोगे लोगे य धम्मोहे // 36 // आहाराभिलाष आहारसंज्ञा, सा च तेजसशरीरनामकम्मोदयादसातोदयाच्च भवति, भयसंज्ञा त्रासरूपा,परिगृहसज्ञा मूर्छा रूपा, मैथुनसंज्ञा स्त्र्यादिवेदोदयरूपा, एताश्च मोहनीयोदयात् सुखदुःखसंज्ञे सातासातानुभवरूपे वेदनीयोदयजे / मोहसंज्ञा मिथ्यादर्शनरूपा मोहोदयात्, विचिकित्सासंज्ञा चित्तविप्लुति-रूपा मोहोदयात् ज्ञानावरणीयोदयाच्च, क्रोधसंज्ञा अप्रीतिरूपा मानसंज्ञा गर्वरूपा, मायासज्ञा वक्रतारूपा, लोभसंज्ञा गृद्धिरूपा, शोकसंज्ञा विप्रलापवैमनस्यरूपा, एता मोहोदयजाः लोकसंज्ञाः स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा न सन्त्यन-पत्यस्य लोकाः, श्वानो यक्षाः, विप्रा देवाः, काकाः पितामहाः, बर्हिणा पक्षवातेन गर्भ इत्येवमादिका ज्ञानावरणक्षयोपशमान्मो-होदयाच भवन्ति। धर्मसंज्ञा क्षमाद्यासेवनरूपा मोहनीयक्षयोप-शमाजायते, एताश्चाविशेषोपादानात् पञ्चेन्द्रियाणां सम्यग्मिथ्या-दृशां द्रष्टव्याः, ओघसंज्ञा तु अव्यक्तोपयोगरूपा वल्लिवितानारो-हणादिलिङ्गा ज्ञानावरणीयाल्पक्षयोपशमसमुत्था द्रष्टव्येति। इह पुनर्ज्ञानसंज्ञयाऽधिकारो, यतः सूत्रे सैव निषिद्धा इह एकषां नो संज्ञा--ज्ञानम् अवबोधो भवतीति।।१।। प्रतिषिद्धज्ञानविशेषावगमार्थमाह-सूत्रम्तं जहा-पुरत्थिमाओ वा दिसाओ आगओ अहम सि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पचत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्डाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि। एवमेगेसिं णो णायं भवति / (सू०२) "तं जहे" त्यादि “णो णाय भवती" ति यावत् तद्यथेति प्रतिज्ञाता- | र्थोदाहरणम्, 'पुरस्थिमाउ' त्ति-प्राकृतशैल्या मागधदेशीभाषा-नुवृत्त्या पूर्वस्या दिशोऽभिधायकात् पुरथिमशब्दात्पञ्चम्यन्ता-तसा निर्देशः / वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः / यथा लोके भोक्तव्यं वा शयितव्यं वेति / एवं पूर्वस्या वा दक्षिणस्या वेति। दिशतीति दिक, अतिसृजतिव्यपदिशति द्रव्यं द्रव्यभागं वेति भावः / आचा०१ श्रु०१ अ० 1 उ० / द्विविधा संज्ञा सा पुनः सा-मान्येन क्षायोपशमिकी, औपशमिकी च / तत्राद्या ज्ञानावरणक्षा योपशमजा मतिभेदरूपा न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा।आव० 4 अ०। आ० चू० / त्रिविधा संज्ञा दीर्घकालिकोपदेशेन हेतुवादोपदेशेन दृष्टिवादोपदेशेन / विशे०। बृ० / प्रव०। इदानीं 'सन्नाओ तिन्नि'त्ति चतुश्चत्वारिंशच्छततम द्वारमाहसन्नामो तिन्नि पढमे, त्थ दीहकालोवएसियासयानाम। तह हेउवायदिट्ठी, वा उवएसातदियराओ॥३२॥ संज्ञान संज्ञा,ज्ञानमित्यर्थः सा त्रिभेदा, 'पढमे त्थ' त्ति-प्रथमा आद्या अत्र एतासु तिसृषु संज्ञासु मध्ये दीर्घकालोपदेशिका नाम दीर्घकालमतीतानागतवस्तुविषयत्वेनोपदेशः कथनं यस्याः सा दीर्घकालोपदेशी, सैव दीर्घकालोपदेशिका। तथा तदितरे द्वितीये हेतुवाददृष्टिवादोपदेशे, उपदेशशब्दस्य प्रत्येकमभिसंबन्धात् / हेतुवादोपदेशा द्वितीया संज्ञा, दृष्टिवादोपदेशा च तृतीयेत्यर्थः। तत्र हेतु कारणं निमित्तमित्यनथन्तिरम्, तस्य वदन वादस्त-द्विषय उपदेशः-प्ररूपणा यस्यां सा हेतुवादोपदेशा, तथा दृष्टि-दर्शनं सम्यक्त्वं तस्य वदनं वादो दृष्टीनां वादो दृष्टिवादः, तद्विषय उपदेशः प्ररूपणं यस्यां सा दृष्टिवादोपदेशेति। अथ दीर्घकालोपदेशसंज्ञायाः स्वरूपं प्रतिपिपादयिषु स्तया संजिनमेवाहएयं करेमि एयं, कयं मए इममहं करिस्सामि / सो दीहकालसन्नी, जोइय तिक्कालसन्नधरो 633|| एतत्करोऽम्यहम्, एतत्कृतं मया, एतत्करिष्याम्यहम्, इत्येवं यस्त्रिकालविषयां वर्तमानातीतानागतकालत्रयवर्तिवस्तुविषयां संज्ञा मनोविज्ञान धारयति सः,दीर्घकालादीर्घकालोपदेशा संज्ञाऽस्यास्तीति कृत्वा, स च गर्भजस्तिर्यड् मनुष्यो वा देवो नारकश्व मनःपर्यप्तियुक्तो विज्ञयः, तस्यैव त्रिकालविषयविमर्शा-दिसंभवात्, एष चप्रायः सर्वमप्यर्थ स्फुटरूपमुपलभते / तथाहि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते, तथैषोऽपि मनोलब्धिसंपन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसंधानेन तथावस्थितं स्फुटमर्थभुपलभते। यस्य पुनास्ति तथाविधरित्रकालविषयो विमर्शः सोऽसंज्ञीति सामर्थ्यालभ्यते। राच संभूछितपश्चेन्द्रियविकलेन्द्रियादिर्विज्ञेयः। स हि स्वल्पस्वल्पतरमनोलब्धिसंपन्नत्वादस्फुटतरमर्थं जानाति। तथाहि-पञ्चेन्द्रियापेक्षया संमृच्छिमपञ्चेन्द्रियोऽस्फुटमर्थजानाति।जानाति ततोऽप्य-स्फुट चतुरिन्द्रियः, ततोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतम द्वीन्द्रियः'