________________ सणंकुमार 267 - अभिधानराजेन्द्रः - भाग 7 सणंकुमार क्त्वमूलं द्वादशविध श्रावकधर्म पालयन् जिनेन्द्रपूजारतः कालं गमयति / इतश्च स नगदत्तः प्रियाविरहदुःखितो भ्रान्तचित्तः आर्तध्यानपरिक्षिप्तशरीरा भूत्वा बहुतिर्यग्योनिषु भ्रान्त्वा ततः सिंहपुरे नगरेऽग्निशर्मनामा द्विजो जातः / कालेन त्रिदण्डव्रतं गृहीत्वा द्विमासक्षपणरतो रत्नपुरमागतः / तत्र हरिवाहनो नाम राजा तापसभक्तस्तेन तपस्वी आगतः श्रुतः / पारणकदिन राज्ञा निमन्त्रितः स गृहमागतः / अत्रान्तरे सजिनधर्माः नामा श्रावकस्तत्रागतः / तं दृष्ट्वा पूर्वभवजातवैरानुभावेन रोषारुणलोचनेन मुनिना एपमुक्तं राज्ञः, यदा त्वं मां भोजयसि तदाऽस्य श्रेष्ठिनः पृष्टौ रथालं विन्यस्य मा भोजय? अन्यथा नाहं भोक्ष्य। राज्ञोपतभसी श्रेष्ठी महान् वर्तते, ततोऽपरस्य पुरुषस्य पृष्टौ त्वं भोजनं कुरु। स प्राह-एतस्य पृष्टावेव भोजनं करिष्ये। नापरस्येति राज्ञातापसानुरागण तत प्रतिपन्नम् राज्ञो वचनात श्रेष्ठिना पृष्टी स्थालमारोपितम् / तापसेन तत्पृष्टी दाहपूर्वक भोजनं कृतम् / श्रेष्ठिना पूर्व भवदुष्कर्म फलं ममोपस्थितनिति मन्यमानेन तत्सम्यक् सोढमिति स्थालीदाहना पृष्टा क्षत जातम् ततः स तापसस्तथा भुक्त्वा स्वस्थाने गतः, श्रष्ट्यपि स्वगृहं गत्वा स्वकुटुम्बवर्ग प्रतिबोध्य जनदीक्षां जग्राह / ततो नगरात्रिर्गता गिरिशिखरे गत्वा अनशनमुच्चचार / पूर्व दिगभिमुखं मासाई यावत्कायोत्सर्गेण स्थितः, एवं शेषास्वपि दिक्षु / ततः पृष्टिक्षते काकशिवादिभिर्भक्षितः सम्यग् तत्पीडा सहमानो मृत्वा सोधने कल्पे इन्द्रो जातः। स तापसाऽपि तस्यैव वाहनम् ऐरावणो जातः। ततश्च्युतोऽथ स ऐरावणो रतिया भ्रान्त्वाऽसिताक्षो जातः / शक्रोऽपि ततश्च्युत्त्वा हस्तिनागपुरे सनत्कुमारः चक्री जातः / एवमसिताक्षयक्षयरय भवता सह वैरकारणमिति मुनिनोक्ते मया तवान्तरवासनिमित्तं भानुवेगं विसर्जयित्वा प्रियसङ्गमपुरीनिवेशपूर्वं तव भानुवेगेन कन्याः परिणायिताः / मुक्ता मथैव कारणेन त्वं तदने / एवं करिष्याम इति विचार्य तदा विद्याधरा तत्कृतवन्तः / ततो विज्ञपयामि देव ! मन्यस्व में कन्याशतपाणेग्रहणम्, ता अपि तत्र भवन्मुखकमलं पश्यन्ति / एवं भवत्विति कुमारेणोक्ते स चन्द्रवेगः कुमारेण समं स्वनगरे गतः / तत्र कुमारण कन्याशत परिणीतम्। पुनरत्रागतश्च दशोत्तरेण कन्याशतन सह भागान् भुङ्क्ते कुमारः / अद्य पुनरेवमुक्तः कुमारेण यथाद्य गन्तव्यं यत्रास्माभिवक्षो जितः / साम्प्रतमत्रायातस्य कुमारस्य पुरः प्रेक्षणं कुर्व-तीनामस्माकं कुमारपत्नीनां भवद्दर्शन जातमिति / अत्रान्तर रतिगृहशय्यत उत्थितः कुमारः महेन्द्रसिंहेन समं विद्याधरपरिवृता वेताळयं गतः / अवसरं लब्ध्वा महेन्द्रसिंहेन विज्ञप्तम / कुमार ! तव जननीजनका त्वद्विरहातॊ दुःखेन कालं गमयतः, ततस्तदर्शनप्रसादः क्रियताम इति। महेन्द्रसिंहवचनानन्तरमेव महता गगनस्थितविद्याधरविमानह-यगजादिवाहनारूढविद्याधरवृन्दसंमन हस्तिनागपुरे संप्राप्तः कुमारः, आनन्दिताश्च जननीजनक नागरजनाः / ततो महत्या विभृत्याऽश्वसेनराजन सनत्कुमार: स्वराज्येऽभिषिक्तः। महेन्द्रसिंहश्च सनापतिःकृतः / जन्नीजनकाभ्यां स्थविराणामन्तिके प्रव्रज्यां गृहीत्वा स्वकार्यमनष्ठितम् / सनत्कुमारोऽपि प्रवर्द्धमानको कशवलसारो राज्यमनुपालयति / उत्पन्नानि चतुर्दश रत्नानि नवनिधयश्च / कृता च तेषा पूजा / तदनन्तरं चक्ररत्नदर्शितमागों मागधवरदामप्रभास - सिन्धुरखण्डप्रपातादिक्रमेण भरतक्षेत्रं साधितवान् / सनत्कु मारः / हस्तिनागपुरे चक्रवर्तिपदवीं पलायन यथेष्ट सुखानि भुक्ते शक्रेणावधिज्ञानप्रयोगात पूर्वभवे स्वपदाधिरूढं ज्ञात्वा महता हर्षेण वैश्रमणोऽनुज्ञप्तः / सन कुमारस्थ राज्याभिषेकं कुरु / इमच हार वनमाला छत्रं मुकुटं चामर-- युगल कुण्डलयुग दूष्ययुग सिंहासनञ्च पादपीठञ्च प्राभृतं कुरु। शक्रेण तव वृत्तान्तः पृष्टोऽरतीति ब्रूयाः। वैश्रमणोऽपि शक्रदत्तं गृहीत्वा गजपुरनगरे समागत्य तत् प्राभृतं चक्रिणः पुरो मुक्तवान, शक्रवचन चोक्तवानिति। पुनः शक्रेण तिलोत्तमारम्भे देवाङ्गने तत्र तदभिषेककरणाय प्रेषिते / चक्रिणोऽनुज्ञा गृहीत्वा विकुर्वितयोजनप्रमाणमणिपीठोपरिरचितमणिमण्डपान्तः स्थापित मणि सिंहाराने कुमारं निवेश्य कनककलशाहृतक्षीरादजलधाराभिर्धवलगीतानि गायन्तीदेवीदेवाश्वाभ्यषिशन / रम्नातिलोत्तगादेव्या तदानीं नृत्यं कुरुतः, महामहोत्सवेन कुमारमभिषिच्य वैश्रमणादयः स्वलोक जग्मुः, चक्रयपि भोगान् भुजन् कालं गमयति / अन्यदा सुधमसभायां सौधर्मेन्द्रः सिंहासने अनेकदेवदेवीसेवितः स्थितोऽस्ति। अत्रान्तरे एक ईशानकल्पदेवः सौधर्मेन्द्रपार्वे आगतः। तस्य देहप्रभया सभास्थितः देवदेह प्रभाभरः सर्वतो नष्टः / आदित्योदये चन्द्रग्रहादय इव निष्प्रभाः सर्वे सुरा जाताः। तस्मिन् पुनः स्वस्थाने गते देवः सोधर्मेन्द्रः पृष्टः / स्वामिन् ! केन कारणेन अस्य देवस्येदृशी प्रभा जाताऽस्ति। शक्रःप्राह- अनेन पूर्वभवे आचाम्लवर्द्धमानतपः खण्ड कृतम तत्प्रभावादस्य देह प्रभा ईदृशी जाताऽस्ति / देवैः पुनरिन्द्रः पृष्टः, अन्योऽपि कश्चिदीदृशो दीप्तिमानस्ति न वा? इन्द्रेण भणित यथा हस्तिनागपुरे कुरुवंशेऽस्ति सनत्कु मारनामा चक्री, तस्य रूपं सर्वदेवेभ्योऽप्यधिकमस्ति / इदं शक्रवचोऽश्रद्दधानौ, विजयवैजयन्ती देवो बाहाणरूपौ आगतो, प्रतीहारेण मुक्तद्वारौ गृहान्तः प्रविष्टी, राजसमीपं गती / दृश्य तैलाभ्यङ्गं कुर्वन् राजा अतीव विस्मितौ देवी शकवणितरूपाधिकरूप तो पश्यन्तौ राज्ञा पृष्टौ / किमर्थ भवन्तौ अत्रायाती। तो भणतः देव! भवद्रूपं त्रिभुवने वर्ण्यते तद्दर्शनार्थ कौतुकेन आवामत्रायाती। ततोऽतिरूपगर्वितेन राज्ञा तो उक्तौ भो भो विप्रौ युवा किं मद्रूप दृष्ट स्तोककालं प्रतीक्षेथा यावदहमास्थानसभामुपविशामि एबगस्त्विति प्राच्य निर्गतौ द्विजौ / चक्रयपि शीघ्र मज्जनं कृत्वा सर्वाङ्गोपाङ्ग शृङ्गारं दधत सभाया सिंहासने उपविष्टः / अकारितौ द्विजौ ताभ्या तदा चक्रिरूपं दृष्ट्वा विषण्णाभ्यां भणितम्-अहो मनुष्याणा रूपलावण्ययौवनानि क्षणदृष्टनष्टानि। तयोजियोरेतद्वधः श्रुत्वा चक्रिणा भणितम, भी किर्मवं भवन्तौ विषण्णौ मम शरीरं निन्दतः / ताभ्यां भणितम्-महाराज! देवानां रूपयौवनतेजासिप्रथमवयस आरभ्य षण्मासशेषायुःसमययावदवस्थितानि भवन्ति, यावजीवं न हीयन्ति / भवता शरीरे तु आश्चर्य दृश्यते / यत्तद्रूपलावण्यादिकं सांप्रतमेव दृष्ट नष्टम्। राज्ञा भणितम कथमेवं भवदभ्यां ज्ञातम? ताभ्यां शक्र प्रशंसादिकः सर्वो ...