________________ सणं कुमार 296 - अभिधानराजेन्द्रः - भाग 7 सणंकमार ष्यति स एतासां भर्ता भविष्यति। ततस्त्वमेताः परिणवेति नृपणोक्ते कुमारेण तथेति प्रतिपन्नम्। राज्ञा महामहः पूर्वक विवाहः कृतः। कङ्कण कुमारकरे बद्धम् सुप्तश्च ताभिः सार्द्ध रतिभवने कुमारः पल्यकोपरि / निद्राविगमे चात्मानं भूमौ पश्यति / किमेतदिति। चिन्तितवांश्व करबद्ध कङ्कणं च न पश्यति / ततः खिन्नमनाः कुमारस्ततो गन्तुं प्रवृत्तः / अरण्यमध्ये च गिरिवरशिखरे मणिमयस्तम्भप्रतिष्ठित दिव्यभवन दृष्ट कुमारण। चिन्तितम्-इदमपीन्द्रमायाजालप्रायं भविष्यतीति। तदासन्न यावद्गन्तुं प्रवृत्तः कुमारस्तावत् तद्भवनान्तः करुणस्वरेण रुदन्त्या एकस्या नार्याः शब्द श्रुतवाना प्रविष्टस्तद्भवनान्तः सप्तमभूमिमारूढः / रुदन्त्या तत्र एकया कन्यया भणितम्-कुरुजनपदनभस्तलमृगाङ्क ! सनत्कुमार! त्वं भवान्तरेऽपि मम भर्ता भूया इति वारं वारं भणन्ती पुनदि रोदितुं प्रवृत्ता / ततो रुदन्त्येव तयाऽऽसनं दत्तम् / तत्रोपविश्य कुमारस्ता पृष्टवान्–सनत्कुमारेण सह तव कः सम्बन्धः? येन त्वं तमेवं स्मारयसि। सा प्राह-मम स मनोरथमात्रेण भर्ता कथमिति कुमारेणोक्ते सा प्राहअहं हि साकेतपुरस्वामिसुरथनामनरेन्द्रभार्यायाः चन्द्रयशःपुत्री अरिम। अन्यदाऽहं यौवनं प्राप्ता। पित्रा च मत्कृतेऽनेकराजकुमारचित्रपटरूपाणि दूतैरानीय दर्शितानि एकमपि चित्रपटरूपं मम न रोचते / एकदा सनत्कुमारचित्रपटरूपं दूतैरानीय मेदर्शितम्, तदत्यन्तं मे रुरुचे। मोहिता चाहं तद्रूपमेव ध्यायन्ती स्वगृहे तिष्ठामि / तावदहमेकेन विद्याधरण पितृगृहादपहृता अत्रानीता स्वयं विकुर्वितेऽस्मिन्नावासे मा मुक्त्वा स क्वचित् गतोऽस्ति / यावत्सा कन्या एवं वदन्त्यस्ति तावत् अशनिवेगसुतवजवेगेण विद्याधरेण तत्रागत्य सनत्कुमार उत्क्षिप्तो गग.. नमण्डले / सा च कन्या हा हा रवं कुर्वाणा मूर्छापराधीना निपतिता पृथिवीपीठे / तावदाकाशमार्गादागत्य सनत्कुमारेण स विद्याधरो मुष्टिप्रहारेण व्यापादितः / सनत्कुमारेण तस्य वृत्तान्तः कथितः, परिणीता च सा सुनन्दाभिधाना कन्या / साऽस्य स्त्रीरत्नं भवि-ष्यति / स्तोकवेलायां तत्र वज्रवेगविद्याधरभगिनी सन्ध्यावली समागता भ्रातरं व्यापादितं दृष्ट्वा कोपमुपागता / पुनरपीदं नैमित्तिक वचः स्मृतिपथमागतम्-यथा तव भ्रातृवधकस्तव भर्ता भविष्यतीति मत्वा कुमारस्यैवं विज्ञप्तिं चकार-अहमिह त्वां विवाहार्थमायाताऽस्मीति। सनत्कुमारेण सा तत्रैव परिणीता / अत्रान्तरे सनत्कुमारसमीपे द्वौ विद्याधरनृपौ समायातौ। ताभ्यां प्रणामपूर्वं कुमारस्यैवं भणितम्-देव ! अशनिवेगविद्याधरो विद्याबलेन ज्ञातपुत्रमरणवृत्तान्तस्त्वया समं योद्धमायाति / ततश्चन्द्रवेगभानुवेगाभ्यामावा हरिचन्द्रसेनाभिधानी च निजपुत्रौ प्रेषितौ रहसि संनाहश्च प्रेषितः / आवामस्मत्पितरौ भवत्सेवार्थ संप्राप्ताः / तदनन्तर ततः समागतौ चन्द्रवेगभानुवेगौ सनत्कुमारस्य साहाय्याय सन्ध्याबल्या प्रज्ञप्तिविद्या दत्ता / चन्द्रवेगभानुवेगसहितः सनत्कुमारः संग्रामाभिमुखंचलितः, तावताऽशनिवग: सेनावृतः समायातः। तेन समं प्रथमं चन्द्रवेगभानुवेगौ योद्धं प्रवृत्तौ / चिरकालं युद्धं कृत्वा तयोर्बल भग्नम् / ततः स्वयनुत्थितः सनत्कुमारः, तेन अशनिवेगेन समं धोरं युद्धमारब्धं प्रथम महोरगास्त्रं कुमारस्याभिमुख मुक्तम्, तच कुमारेण मुष्टिनैव निहतम्। पुनस्तेन आग्नेयमत्रं मुक्त, तत् कुमारेण वरुणास्त्रेण निहतम् / पुनस्तेन वायव्यास्त्र मुक्तं कुमारेण शैलारत्रेण प्रतिहतम्। ततो गृहीतधनुर्बाणान् मुञ्चन् कुमारस्तं निर्जीवमिव चकार / पुनर्गृहीतकरवालः स सनत्कुमारेण छिन्नदक्षिणकरः कृतः। ततो द्वितीयकरण बाहुयुद्धमिच्छतस्तस्याभिमुखमायातस्य कुमारेण चक्रेण शिरच्छिन्नम्। तदानीम् अशनिवेगविद्याधरलक्ष्मीरने कविद्याधरैः सहिता सनत्कुमारण संक्रान्ता / ततोऽशनिवेगचन्द्रवेगादिविद्याधरपरिवृतः सनत्कुमारो नभोमार्गाद्विद्याधररथेन समुत्तीर्य तदावासे पुनरायातः / दृष्टस्तत्र हर्षिताभ्यां सुनन्दासन्ध्यावलीभ्याम् / उक्तश्च ताभ्याम्-आर्यपुत्र ! स्वागतम्। अत्र च समस्तविद्याधरैः सनत्कुमारस्य राज्याभिषेकः कृतः / सुखेनात्र विद्याधरराज सेवितः सनत्कुमारस्तिष्ठति। अन्यदा चन्द्रवेगन विज्ञप्तः सनत्कुमारः, यथा-देव ! मम पूर्वमर्धिमालिमुनिनैवमादिष्टमयथेदं तव कन्याशतं भानुवेगस्य चाष्टकन्याः यः परिणेष्यति / सोऽवश्य सनत्कुमारनामा चतुर्थश्चक्री भविष्यति / स इतो मासमध्ये मानसरोवरे समेष्यति। तत्र व्यसनापतित सरसि स्नानम् असिताक्षो यक्षः पूर्वभवबैरी द्रक्ष्यति। स पूर्वभवबैरी कथमिति सनत्कुमारेण पृष्ट चन्द्रटेगो मुनिमुखश्रुतं तत्पूर्वभववृत्तान्तं प्राह-अस्तिकाञ्चनपुरं नाम नगरम् / तत्र विक्रमयशोनामा राजा / तस्य पशशतान्यन्तःपुर्यों वर्तन्ते / तत्र नागदत्तः सार्थवाहोऽस्ति / तस्य रूपलावण्यसौभाग्ययौवनगुणैः सुरसुन्दरीभ्योऽधिका विष्णुश्रीनाम भार्याऽस्ति साऽन्यदा विक्रमयशोराजेन दृष्टा / मदनातुरेण तेन स्वान्तः पुरे क्षिप्ता ततो नागदत्तस्तच्चिन्त्या उन्मत्तीभूत एवं विलपति। हा चन्द्रानने ! क गता, दर्शन में देहीति विलपन काल नयति / विक्रमयशोराजस्तु मुक्तस्वकराजकार्योऽगणितजनाववादस्तया विष्णु श्रिया सह अत्यन्तरतिं प्रसक्तः काल नयति / पञ्चशतान्तःपुरीणां नामापि न गृह्णाति। अन्यदा ताभिः कार्मणादियोगेन विष्णुश्रीापादिता / ततो राजा तस्या मरणेनात्यन्तं शोकार्तोऽश्रुजलभृतनयनो नागदत्त इवोन्मत्तीभूतो विष्णु श्रीकलेवरं वह्निसात्कर्तु न ददाति / ततो मन्त्रिभिर्नृपः कथमपि वञ्चयित्वा अरण्ये तत् कलेवरं त्यक्तम् / राजा च तत् कलेवरमपश्यन परिहतानपानभोजनः स्थितः। मन्त्रि-भिर्विचारितम्-एष तत्कलेवरदर्शनमन्तरेण मरिष्यतीति अरण्ये नीत्वा राज्ञस्तत्कलेवरं दर्शितम्। राज्ञातदानीं तत्कलेवरं गलत्पूतिनिवह निर्यत्कृ मिजालं वायसकर्षितनयनयुगलं चण्डखगतुण्डखण्डित दुरभिगन्धं प्रेक्ष्य एवमात्मानं निन्दितुमारब्ध् / रे जीव ! यस्य कृते त्वया कुलशील-जातियशोलञ्जाः परित्यक्ताः तस्येदृशी अवस्था जाता।ततो वैराग्यमार्ग प्राप्तो राजा राज्य राष्ट्र पुरं स्वजनवर्ग च परिहत्य सुव्रताचार्यसमीपे निष्क्रान्तः / ततश्चतुर्थषष्ठाष्टमादिविचित्रतपः कर्मभिरात्मान भावयन प्रान्ते संलेखनां कृत्वा सनत्कुमारदेवलोके गतः / ततश्च्युतो रत्नपुरे श्रेष्ठिसुतो जिनधर्मो जातः / स च जिनवचनभाविमनाः सम्य