________________ सण 265 - अभिधानराजेन्द्रः - भाग 7 सणंकुमार उत्त० / स्था० तत्तुष्ये, नः / ज्ञा०१ श्रु०१ अ०। सणजातिभेदे, अनु०। सणंकुमार पुं० (सनत्कुमार) चतुर्थचक्रवर्तिनि, स०। प्रव०। तिला आव० / सणंकुमारोमणुस्सिदो, चक्कवट्टी महड्डिए। पुत्तं रखे ठवेऊणं, सोऽवि राया तवं चरे॥३७।। अत्र सनत्कुमारदृष्टान्तः-अस्त्यत्र भरतक्षेत्रे कुरुजाङ्गलजनपदे हस्तिनागपुर नाम नगरम् / तत्राश्वसेनो नाम राजा, तस्य भार्या सहदेवीनाम्नी। तयोः पुत्रश्चतुर्दशस्वप्रसूचितश्चतुर्थश्चक्रवर्ती सनत्कुमारो नाम / तस्य रिकालिन्दीतनयेन महेन्द्रसिंहेन परममित्रेण समं कलाचार्यसमीपे सर्वकलाभ्यासो जातः। सनत्कुमारो यौवनमनुप्राप्तः। अन्यदा वसन्तमासेऽनेकराजपुत्रनगरलोकसहितः सनत्कुमारः क्रीडार्थमुद्याने गतः, तत्राश्वक्रीडा कर्तुं सर्वे कुमाराः अश्वारूढाः स्वस्वमश्वं खेलयन्ति / सनत्कुमारोऽपि जलधिकलोलाभिधानं तुरङ्गमारूढः, समकालं सवैः कुमारैर्मुक्तस्ततो विपरीतशिक्षितेन कुमाराश्वेन तथा गतिः कृता यथा अपरकुमाराश्वाः प्राक् पतिताः, कुभाराश्वस्तु अदृश्यीभूतः। ज्ञातवृत्तान्तो राजा सपरिकरस्तत्पृष्टी चलितः। अस्मिन्नवसरे प्रचण्डवायुर्वातुं लग्नः, तेन तुरङ्गपदमार्गो भग्नः / महेन्द्रसिहा राजाज्ञा मार्गयित्वा उन्मार्गेणैव कुमारमार्गणाय लग्नः, प्रविष्टो भीषणां महाटवीं तत्र भ्रमतस्तस्य वर्षमेकमतिक्रान्तम्,एकस्मिन् दिवसे गतः स्तोक भूमिभाग तावत्, यावदेकं महत्सरोवरं दृष्टवान्। तत्र कमलपरिमलमाघ्रातवान् / श्रुतवांश्च मधुरगतिवेणुरवम्। यावन्महेन्द्रसिंहोऽग्रे गच्छति तावत्तरुणीगणमध्यसंस्थित सनत्कुमारं दृष्टवान्। विस्मितमना महेन्द्रसिंहश्चिन्तयति--किं मया एष विभ्रमो दृश्यते / किं वा सत्य एवायं सनत्कुमारः? यावदेव चिन्तयन् महेन्द्रसिंहस्तिष्ठति तावत्पठितमिदं वन्दिना. "जय आससेण ! नहयल-मयङ्क ! कुरुभुवणलग्गणे खंभ! ज्यति हुयणनाह ! सणंकुमार ! जयलद्धमाहप्प ! 1191" ततो महन्द्र-सिंहः सनत्कुमारोऽयमिति निश्चितवान् / अथ प्रकामं प्रमुदितमनाः सनत्कुमारेण दूरादागच्छन् दृष्टः सनत्कुमारोऽप्युस्थायाभिमुख-माययौ / महेन्द्रसिंहः सनत्कुमारपादयोः पतितः / सनत्कुमारेण समुत्थापितो गाढमालिङ्गितश्च / द्वावपि प्रमुदितमनस्कौ विद्याधरदत्तासन उपविष्टौ / विद्याधरलोकश्च तयोः पार्श्वे उपविष्टः / अथानन्दजलपूरितनयनेन सनत्कुमारेण भणितम्-मित्र! कथमेकाक्येव त्वमस्यामटव्याभागतः? कथं चात्र स्थितोऽहं त्वया ज्ञातः / किञ्चकरोति मद्विरहे मम पित्त माता च / कथितः सर्वो वृत्तान्तो महेन्द्रसिंहेन / ततो महेन्द्ररिम्हो वरविलासिनीभिर्भज्जितः स्नापितश्च भोजनं द्वाभ्यां सममेव कृतम्। भोजनावसाने च महेन्द्रसिंहेनसनत्कुमारः पृष्टः-कुमार! तदा त्वं तुरङ्ग मेणापहृतः क गतः? क्व स्थितश्च? कुत एतादृशी ऋद्धिस्त्वया प्राप्ता? सनत्कुमारेण चिन्तिन-न युक्तं निजचरित्रकथनं निजमुखेनेति संक्षिप्ता स्वयं परिणीता खचरेन्द्रपुत्री विपुलमतीनाम्नी स्वप्रिया सनत्कुमारवृत्तान्तं स्वविद्याबलेन कथयितुं प्रवृत्ता। तदानी कुमारो / भवदादिषु पश्यत्सु तुरन मेणापहतो महाटव्यां प्रवष्टिः। द्वितीयदिनेऽपि तथैव धावतोऽश्वस्य मध्याह्नसमयो जातः। क्षुधापिपासाकुलितेन श्रान्तेनाश्वेन निष्कासिता जह्वा / कुमारस्तत उत्तीर्णः / सोऽश्वस्तदानीमेव मृतः। कुमारस्ततः पादाभ्यामेव चलितः। तृषाक्रान्तश्च सर्वत्र जल गवेषयन्नपिन प्राप। ततो दीर्घाध्यश्रमेण सुकुमारत्वेन चात्यन्तमाकुलीभूतो दूरदेशस्थित सप्तच्छदं वृक्ष पश्यन् तदभिमुख धावन् कियत् कालानन्तरं तत्र प्राप्तः / छायायामुपविष्टः पतितश्व लोधने भ्रामयित्वा कुमारः / अत्रावसरे कुमारपुण्यानुभावेन वनवासिना यक्षेण जलमानीतम् / शिशिरशीतलजलेन सर्वाङ्ग सिक्तः, आश्वासितश्च। लब्धचेतनेन च कुमारण जलं पीतम्।पृष्टश्च कस्त्वं? कुतो वाऽऽनीतं जलमिदम्? तेन भणितम्-अहं यक्षोऽत्र निवासी सलिलं चेद मानसरोवरादानीतम्। कुमारेणोक्तम्-यदि मा तदर्शयसि तदा तत्र मानसरोवरे प्रक्षालयामि तथा च मद्वपुस्तत्तापभुपनयति / तच्छुत्वा यक्षण करतलसंपुटे गृहीत्वा नीतो मानसरोवरम्। तत्र व्यसनापतितोऽयमिति कृत्वा क्रुद्धन वैताट्यवासिना असितयक्षेण समं कुमारस्य युद्धं जातम् / तथाहि-यक्षेण प्रथम मोटिततरुः प्रचण्डःपवनो मुक्तः। तेन नभस्तलंबहुलधूल्याऽन्धकारितम्। ततो विमुक्ताऽट्टहासा ज्वलनज्वालापिङ्गलकेशाः पिशाचा मुक्ताः / कुमारस्तैर्मनाक न भीति मतः। ततो नयनज्वालारफुलिङ्ग वर्षद्भिर्नागपाशैः कुमारो यक्षेण बद्धः / जीर्णरज्जुबन्धनानीव तान् त्रोटयति स्म कुमारः / ततः करास्फालनपूर्व मुष्टिमुद्यम्य यक्ष: समायातः / तावता मुष्टिप्रहारेण कुमारस्तं खण्डीकृतवान्। पुनरीक्षः स्वस्थीभूय गुरुमत्सरेण कुमारं घनप्रहारेण हतवान् / तत्प्रहारातः कुमारश्छिन्नमूलद्रुम इव भूमी निपतितः। ततो यक्षेण दुरमुत्क्षिप्य गिरिवरः कुमारस्योपरि क्षिप्तः, तेन दृढपीडिताङ्गोऽसो निश्चेतनो जातः। अथ कियत्कालानन्तरं लब्धसंज्ञः कुमारस्तेन समं बाहुयुद्धं चकार / कुमारेण करभुदराहतो यक्षः प्रचण्डवाताहचूत इव तथा भूमौ निपतितः यथा मृत इव दृश्यते। परं देवत्वात्स नमृतः। आरार्टिकुर्वागः स यक्षस्तथा नष्टो यथा पुनर्न दृष्टः / कौतुकान्नभस्यागतविद्याधरैः पुष्पवृष्टिर्मुक्ता। उक्तं च-जितो यक्षः कुमारेणेति / ततो मानससरसि यथेष्ट स्नात्वाउत्तीर्णः कुमारो यावत् स्तोक भूमिभागंगतः तावत्तत्र वनमध्यगता अष्टौ विद्याधरपुत्रीदृष्टवान् / ताभिरप्यसौ स्निग्धदृट्या विलोकितः / कुमारेण चिन्तितम्-एताः कुतः समायाताः सन्ति, पृच्छाम्यासां स्वरूपमिति पृष्ट कुमारण।तासां समीपे गत्वा मधुरवाण्या कुतो भवत्य आगताः? किमर्थमेतत् शून्यभरण्यमलकृतम् / ताभिर्भणितम्महाभाग ! इतो नातिदूरे प्रियसङ्ग-माभिधाना अस्माकं पुरी अस्ति। त्वमपि तत्रैवागच्छति भणितः। किङ्करीदर्शितमार्गस्तासां नगरी प्राप्तः। कञ्चुकिपुरुषैः राजभवनं नीतः। दृष्टश्च तन्नगरस्वामिना भानुवे गराजेन अभ्युत्थानादिना सत्कृत / उक्त राज्ञामहाभाग ! त्वमेतासां ममाष्टकन्यानां वरो भव। पूर्व हि अत्रायातेन अर्चिमालिनाम्ना मुनिना एवमादिष्टम् योऽसिताक्षं यक्षं जे