________________ सज्झाय 261 - अभिधानराजेन्द्रः - भाग 7 सज्झाय अनुद्दिष्ट कस्मान्न पठ्यते ? तत्राहबहुमाणविणयआउत्तताति उद्देसतो गुणा होति। पढमो एसो सव्वो, एत्तोवुच्छंचरणकालं // 20 // उद्देशे हि क्रियमाणे श्रुतस्य-श्रुताधारस्य वा अध्यापकस्योपरि बहुमानमान्तरः प्रीतिविशेषो भवति, विनयश्च प्रयुक्तः स्यात्, आयुक्तता च महती भवति, एते उद्देशतो गुणा भवन्ति / एष सर्वोऽप्यङ्गादिविषय उद्देशः-प्रथमोद्देशः, अत ऊर्द्ध तुस्वाध्यायकरणकालं वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिथयथुइधम्मक्खाणं, पुव्वुद्दिद्वंतु होइ संझाए। कालियँकाले इयरं, पुन्बुद्दिढ विगिट्टे वि॥२०१॥ स्तवः-स्तुतिधर्माख्यानं वा पूर्वोद्दिष्ट संध्यायामपि पठनीय भवति, कालिकं पुनः श्रुतं प्रथमायां पौरुष्यामुद्दिष्ट काले-प्रथमपौरुषीलक्षणे चारमपौरुषीलक्षणे च पठ्यते नाकाले / इतरत् उत्कालिक प्रथमाया पौरुष्यामुद्दिष्टय्यतिकृष्टऽपि काले संध्यायामस्वाध्यायिकं च वर्जयित्वा पठ्यते। पत्ताण समुद्देसो, अंगसुयक्खंधपुव्वसूरम्मि। इच्छा नसीहमादी, सेसादिण पच्छिमादीसुं॥२०२।। अध्ययनमुद्दश वा पठन्तो यदैव श्रवणं प्राप्त भवन्ति तदैव तस्याध्ययनस्योद्देशस्य वा समुद्देशः क्रियते, श्रुतस्कन्धो वा पूर्वसूरे उद्धाटायामपि पौरुष्यामनुज्ञायते / येषाभागाढा योगास्तेषां निशीथादीनामिच्छा प्रथमायां चरमायां वा पौरुष्या तेषामनुज्ञा प्रवर्तत इति। शेषाणि अध्ययनान्युद्देशका या दिवसस्य पश्चिमायां पौरुष्याम्, आदिशब्दादशः प्रथमायां चरमायाश्चानुज्ञायते। अनुज्ञामेवाधिकृत्य विशेषव्याख्यानमाहदिवसस्स पच्छिमाए, निसिन्तु पढमाएपच्छिमाए वा। उद्देसज्झयणुन्नाण य रत्ति णिसीहमादीणं / / 203 // उद्देशाध्ययनानां चानुज्ञा दिवसस्य पश्चिमायाम, निशि तु प्रथमायां पश्चिमायां व प्रवर्तते / निशीथादीनामागाढयोगानां दिवसस्य प्रथमायां पौरुष्यामनुज्ञानं, न तु रात्रौ / __ अत्रैवादिशब्दस्याधिकार्थसंस्तवकत्वमुपदर्शयतिआदिग्गहणा दसका--लिउत्तरज्झयणचुल्लसुतमादी! एएसि भइअऽणुण्णा, पुव्वण्हे याऽवि अवरण्णे // 204|| आदिग्रहणादादिशब्दोपादानात्, यानि दशवैकालिकोत्तराध्ययनक्षुल्लककल्पश्रुतादीनि, अत्र शब्दादौपपातिकादिपरिग्रहः, एतेषामनुज्ञा भजिताविकल्पिता पूर्वाह्न वा स्यादपराहे वा। सांप्रतमङ्ग श्रुतस्कन्धानामनुज्ञाविधिमाहनंदीभासणचुण्णे,उ विभासा होइ अंगसुयखंधे। मंगलसद्धाजणणं, सुयपूयाभत्तवोच्छेदो।।२०५।। अङ्ग श्रुते स्कन्धे च भवति / अनुज्ञायां कर्त्तव्यायां नन्दीभाषणंज्ञानपञ्चकोचारणम्-चूणे च विभाषा यदि भवन्ति वासाः शिरसि प्रक्षिष्यन्ते, तदभावे केसराण्यपि / करमादेवमनुज्ञा क्रियते इति चेत? अत थाह-न्दीभागो तारानिशेपे / मङ्गलं भवति / ज्ञानपञ्चकस्रा भावमङ्ग लत्वाद्वासनिक्षेपस्य च द्रव्यमङ्ग लत्वात् / तथा अन्येषा परमश्रद्धाजननम्, यथैकोऽमुकस्याङ्गस्य श्रुतस्कन्धस्य च पारगत आचार्येण चैवं सकलजनसमक्षं पूजितस्तस्माद्वयमपि गाढतरमुत्साह कुर्म इति, तथा अध्ययनाना वा व्यवच्छेदोऽन्यथा नानुज्ञातमन्येषा दीयते इति तेषां व्यवच्छेदः स्यात्। अत्रैवाऽपवादमाहबिइयपयं आयरिए, अंगसुयक्खंधमुद्दिसंतम्मि। मंगलसद्धाभयगोरेवं य तह निट्ठिए चेव // 206!! स्वपक्षे उद्देशः कर्त्तव्यो न परपक्षे इत्युत्सर्गः / अत्र द्वितीयपदम्अपवादपदं,यदि प्रवर्त्तिन्यास्तत् श्रुतं न विद्यते तत आचार्यः परपक्षेऽपि संयतीरूपे अङ्गं श्रुतस्कन्धं वा उपलक्षणमेतदध्ययनादिकं चोद्दिशति। अथवा-सत्यपि तस्मिन् प्रवर्त्तिन्याः श्रुते आचार्यः संयत्या अङ्ग श्रुतस्कन्धं वा उद्विशति / मङ्गलादीनि भवन्ति ततः स परमं ज्ञानपात्रमिति मग लबुद्धिरुपजायते / तथा यस्मादाचार्येणोद्दिष्टमिदमत आदरेण पठनीयमिति पाठविषया महती श्रद्धा भवति / तथा यदि पाठे प्रमाद करिष्यामि ततो न पठितमित्याचार्या राष्येयुरिति भयम् / तथा ममेदमाचार्येण गौरवेणोद्दिष्ट तस्मादादरेण पठित्वा शीघ्र समाप्ति नयामि / 'तह निहिए चेव' त्ति-तथा निष्ठिते अङ्गे श्रुतस्कन्धे वा समाप्तिं नीते यथासंभवमेतैरेव कारणैरङ्ग श्रुतस्कन्धं वा आचार्योऽनुजानीयात्। एमेव संयतीवा, उद्दिसति संजयाण बिझ्यपदे। असतीऍ संजयाणं, अज्झयणाणं च वुच्छेदो / / 207 / / तत् विवक्षितं श्रुतं संयतानां न विद्यते, अध्ययनानां चान्यथा व्य-- वच्छेदःस्यात्। ततो द्वितीयपदेनापवादपदेन गाथायां सप्तमी तृतीयार्थे संयत्यपि संयतानामुद्दिशति। एवं ता उद्देसो, अज्झाओ वी न कप्पइ विगिढे / दोण्हं पिहुंति लहुगा, विराहणा सेव पुव्वुत्ता / / 208|| एवमुक्तेन प्रकारेण तावदुद्देशाभिहितो यथा व्यतिकृष्ट कालेसन क्रियते अध्यायोऽप्यध्येय द्वयोरपि लघुकं प्रायश्चित्तम्, विराधना च पूर्वोक्ता, ज्ञानविराधना, आत्मविराधना च / तत्र ज्ञानविराधना ज्ञानाचारहननादात्मविराधना प्रान्तदेवताछलनात्। अत्रैवापवादमाहवितिगिट्टे सागारियाए कालगया असति वुच्छेदो। एवं कप्पइ तहियं, किं ते दोसो न संती उ / / 206 / / कदाचित्साधवः कारणेन सागारिकायां वसतौ स्थितास्तत्र परिचारणाशब्दात श्रुत्वा यस्य यत्पराजितं स तत्परावर्तयति आदिशब्दात् अनेकादिष्वपि समापतत्सु यस्य यत्परार्जितं स तत् गुणयतीति परिग्रहस्तथा कालगतः संयतो यदि कारणेन प्रतीक्षापयितव्यो भवति तदा रात्री जागरणनिमित्तं यस्य यत्पराजितं स तत्परावर्त्तयति। तथा यस्य सकाशे तत श्रुतमधीत स कालगतोऽन्यत्र च तत् श्रुतं नास्ति, ततः संप्रति पठित मा विस्मृति यायात्, अनुप्रेक्षायां च सोऽकुशलस्तत एवमेतैः कारणैर्द्वितीयपद-मधिकृत्य व्यतिकृष्टऽपि काले स्वाध्यायः कल्पते। अत्र पर आह