________________ सज्झाय 260 - अभिधानराजेन्द्रः - भाग 7 सज्झाय यथा वाशब्दो दृष्टान्तान्तरसूचने / चक्रिणः-चक्रवर्तिनश्चक्रम्-आज्ञा पार्थिवैरपि सर्वे : युज्यते, न चापि तस्य यत्र तत्र वा कीर्तनंसंशब्दन युज्यते। उक्तो दृष्टान्तः। उपनयमाहतहा अट्ठगुणोवेया, जिणसुत्तीकया जति। पुजते नय सव्वत्थ, तीसे झाया उजुज्जती।।१६।। तथा-तेन प्रकारेण इह-जगति जिनस्य वाक् सूत्रीकृता अष्टगुणोपेता वक्ष्यमाणनिर्दोषत्वाद्यष्टगुणसमन्विता सवैरपि सुरासुरमनुजैः पूज्यते, न च सर्वत्र देशे काले वा तस्याध्यायिता युज्यते, किन्तु यथोक्त एव देशे काले च। संप्रति तानेवाऽष्टौ गुणानाहनिघोसंसारवंतंच, हेउजुत्तमलंकियं / उवणीयं सोवयारंच, मियं महरमेव य॥१६॥ निर्दोष-द्वात्रिंशताऽपि दोषैर्विनिर्मुक्त सारवत् बह्न र्थमधिकृत--- व्यवहारसूत्रवत्, हेतवोऽन्वयव्यतिरेकलक्षणास्तैर्युक्तमल कृतम उपमाद्यलंकारोपेतम्, उपनीतम्-उपनयोपसंहृतं सोपचारं मितं-- परिमिताक्षरंमधुरललिताक्षरं पदाद्यात्मकतया श्रोत्रमनोहारि। पुव्वण्हे उपरण्हे य,अरहा जेण भासई। एसाऽविदेसणा अंगे, जंच पुवुत्तकारणं / / 161|| येन कारणेन भगवानहन्पूवाहे वा एषैव च भगवतो देशना अड़े निबद्धा, तस्मादुद्धाटाया पौरुष्या न पटनीयं, नाप्युद्वेष्टव्यम् / यच्च पूर्वनिशीथाध्ययने उक्त कारणं तत्रोदाहरणं लक्षण तस्मादप्यकाले पठनीय, नाप्युद्देष्टव्यामिति। सन्ध्याकाले न पठनीयम् / यत आहरत्तीदिणाण मज्झेसु, उभओ संझओ रवी। चरंति गुज्झगा के इ, तेण तासिं तुणो सुतं // 192|| रात्रिदिनमध्ययोः प्रातसंध्यायां विकालसंध्यायां चेत्यर्थः / तथा उभयोरपि संध्ययोर्मध्याह्नसंध्यायामर्द्धरात्रसंध्यायां चेत्यर्थः,येन कारणेन केचिद् गुह्यका व्यन्तरविशेषाश्चरन्ति परिभ्रमन्ति तेन कारणेन तासु चतसृष्वपि संध्यासुन श्रुतमुद्दिश्यते पठ्यतेवा, मा भूत् छलनादोष इति कृत्वा। आह यदि सन्ध्यासु गृहाकावरन्ति ततः कथमावश्यक संध्यायां क्रियः / तत आह जवहोमाऽऽदिकज्जेसु, उभओ संझओ सुरा। लोगेण भाविया तेण, संझावासगदेसणा।।१६३॥ जपहोमादिकारोंषु उभयोः रांध्रायोः सुरा-गुह्यका लोकेन भावितारितष्ठन्ति, तावद्वयमावश्यकं कुर्मस्तेषां तत्र व्याप्तत्वासायश्यकस्यापि च संध्याकृत्यरुपरवात्तन संध्यायामावश्यकदेशना। एते उ सपक्खम्मी, दोसा आणादओ समक्खाया। परक्खम्मि विराहण,दुविहेण विसेण दिह्रतो / / 164|| एते प्रवचनवेदिनामतीव प्रसिद्धाः, स्वपक्षे उद्विशतः आज्ञादयो दोषाः / समाख्याताः / तद्यथा-आज्ञातीर्थकराज्ञा विराधिता भवति, अनवस्था / तं दृष्ट्वा अन्येषामपि तथा करणात् मिथ्यात्वं, तीर्थकराज्ञाभवात्। विराधना द्विविधा-संयमविराधना, आत्मविराधना च। नत्र संयमविराधना ज्ञानाचारविराधनात्, आत्मविराधना देवताछलनात्। परपक्षेऽप्यते दोषाः / केवलं या संयमविराधना सा ज्ञानाचार-विघातात्मिका, ब्रह्मघातात्मिका च ज्ञातव्या। तत्र द्विविधन विषेण द्रव्यविषण भावविषेण च दृष्टान्तः। तत्र द्रव्यभावविषप्ररूपणार्थमाहदव्वविसं खलु दुविहं,सहजं संजोइमंचतं बहुहा। एमेवं य भावविसं, सचेयणाऽचेयणं बहुहा।।१६५।। द्रव्यविष खलु द्विविध, तद्यथा-सहज, संयोगिमं च / संयोजन संयोगरतेन निवृत्त संयोगिमं 'भावादिमः / 6 / 4 / 21 / ' इतीम-प्रत्ययः। तच सहज, संयोगिम च / बहुधा-अनेकप्रकारमेवमेव अनेनैव प्रकारेण खलु द्विविध भावविषम् / तद्यथा--सहज,संयोगिमं च / तच्च प्रत्येक सचेतनम अचेतन च / बहुधा बहुप्रकारम् / संप्रति सहजसंयोगिमद्रव्यविषप्ररूपणार्थमाह.. सहजं सिंगियमादी, संजोइम घयमहुंच समभाग। दव्वविसंणेगविहं, एत्तो भावम्मि वुच्छामि।।१६६।। सहज द्रव्यविष शृङ्गि कादि संयोगिमं घृतं मधु च समभागम् / एतचेकैकमपि द्रव्यविषमनेकविध द्रष्टव्यम् / अत ऊर्ध्व भावे भावविष वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतिपुरिसस्स निसग्गविसं, इत्थी एवं पुमंपिइत्थीए। संजोइमो सपक्खे, दोण्ण विपरपक्खनेवत्थो॥१९७|| पुरुषस्य निसर्गविषं स्त्री; स्त्रीनेपथ्योपेता, एवं स्त्रिया अपि सहज विष पुमान, पुरुषनेपथ्योपेतः / संयोगिमविषं द्वयोरपि संयतस्य संयत्याश्चेत्यर्थः / स्वपक्षः परपक्षनेपथ्यः, तद्यथा-संयतस्य पुरुषः स्त्रीनेपथ्योपेतः, निर्गथ्याःस्त्री,पुरुषनेपथ्योपेता। घाणरसपासतो वा,दव्वविसंवा सइंऽतिपातेइ। सव्वविसयाणुसारी,भावविसंदुज्जयं असइं॥१९८| द्रव्यविष घ्राणतो रसतः स्पर्शतो वा सकृदेकवारतो वा अतिपातयति वा-विभाषायाम, तदपि सकृदतिपातवैकल्पिकं भवति। तथाहि-द्रव्यविष जीवितान्न च्यावर्यदपीति, भावविषं पुनः सर्वविषयानुसारि पञ्चस्वपीन्द्रियविषयेषु संप्रापकत्वात्, तथा दुर्जयमल्पसत्वेन जेतुमशक्यत्त्वान्नियमोच्छासकृदनेकवारमतिपातयतिविनाशयति-भावविषमूर्छितानामनेकमरणभावात। उपसंहारमाहजम्ह। एए दोमा, तम्हा उसपक्खें समणसमणीहिं। उद्देसो कायव्वो, किमत्थ पुण कार उद्देसो।।१६।। यरमाद्विपक्षे एते दोषास्तस्मात् श्रमणश्रमणीभ्यां स्वपक्षे उद्देशः कर्तव्यः, संयतैः संयतानामुद्देशः कार्यः, संयतीभिः संयतीनामित्यर्थः / ततः प्रागुक्ता दोषा न भवन्ति। आह परः-किमत्र पुनः कारणं यदुद्देशः क्रियते।