________________ सज्झाय 284 - अभिधानराजेन्द्रः - भाग 7 सज्झाय तथा क्षुतं यदि भवति ततो व्याहन्यते / 'अपरिणत' इति / कालग्रहणभावोऽपगतोऽन्यचित्तो वा जातस्ततश्च व्याहन्यते कालः। तथा शङ्कितेनापि गर्जितादिना व्याहन्यते कालः / कथम् ? यद्येकस्य साधोर्जितादिशङ्का भवति ततो नव्याहन्यते कालः, द्वयोरपिशडितेन भज्यते कालः, त्रयाणां तु यदि शङ्का गर्जितादिजनिता भवति ततो ध्याहन्यते। तच स्वगणे-स्वगच्छे त्रयाणां यदि शङ्कितं भवति, न परगणे, ततो व्याहन्यते। इदानीमस्या एव गाथाया भाष्यकार: किञ्चिद्व्याख्यान (यन्ना) माहमूढोव दिसऽज्झयणे, भासंतोवाऽवि गिण्हइन सुज्झे। अन्नंच दिसज्झयणं,संकंतोऽणिट्ठविसयंवा 306 / / मूढो यदा दिशि भवति अध्ययने वा तदा व्याहन्यते / भाषमाणो वा ओष्ठसञ्चारेण यदि गृह्णाति कालं ततो न शुद्धयति / अन्या वा दिश संक्रान्तो मोहात, अध्ययनं वाऽन्यत् संक्रान्तं द्रुमपुष्पिकां मुक्त्वा 'सामन्नपुव्वए गओ उत्तराए वा दिसाए दक्खिणं गतो' यद्वाऽन्यां दिश शङ्कमानः, अन्यद्वाऽध्ययनं शङ्कमानो यदा भवति तदा न शुद्ध्यति / अनिष्ट-अशोभने वा शब्दादिविषयसन्निधाने व्याहन्यते / कालः, 'ततो आवस्सियं काऊण नीसरति कालमंडलाओं एवं गृहीतेऽपि काले यदि कालमण्डलकान्निर्गच्छन्नावश्यकादि न करोति ततो व्याहन्यत एवं काल इति। किञ्चजो वचंतम्मि विही, आगच्छंतम्मि होइ सोचेव। जंएत्थं नाणत्तं,तमहं वुच्छं समासेणं // 652 / / य एव प्रथम वसतेव्रजतो विधिरुक्तस्तद्यथा- "यदि कविहसियं वा उक्का वा पडति, गज्जति वा, एवमाईहिं उवघाओ गहियस्स वि कालरस होइ, आगच्छतस्स वसहि" ततश्च यो विधिजतः कालभूमावुक्तः आगच्छतोऽपि पुनर्वसतौ स एव विधिर्भवति। यत्पुनरस्त्र वसतौ प्रविशतो नानात्वंभेदस्तदहं नानात्वं वक्ष्ये समासतः-संक्षेपेण। इदानीं नानात्वं प्रतिपादयन्नाहनिसीहिया नमुक्कारं, आसजावडणपडणजोइक्खे। अपमज्जियभीए वा, छीए छिन्नेव कालवहो॥६५३।। कालं गृहीत्वा गुरुसकाशे प्रविशन् यदि निषेधिकां न करोति ततः कालव्याघातः,तथा 'नमोक्कार' नमो खमासमणाणं इत्येवं यदि न प्रविशन् भणति ततो गृहीतोऽपि कालो व्याहन्यते। तथा 'आसजासज्ज' इत्येवं तु यदि न करोति ततो व्याहन्यते गृहीतोऽपि / तथा साधोः कस्यचिदावडणे अभिपडणे कालो व्याहन्यते, पतनं लेष्वादेरात्मनो वा, ज्योतिष्कस्पर्श वा व्याहन्यते। तथा यदि प्रमार्जयन् न प्रविशति ततश्च व्याहन्यते कालः। भीतः-वस्तो वा यदि भवति तथाऽपि व्याहन्यते / क्षुते वा व्याहन्यते / छिनत्ति वा-यदि मारिवादिस्तिर्यक् छिन्दन / व्रजति, ततश्चैभिरनन्तरोदितैः कालस्य वधोभङ्गो भवतीति। आगम इरियावहिया, मंगल आवेयणं तु मरुनायं / सव्वे हि वि पट्टविऍहि, पच्छाकरणं अकरणं वा / / 654 / / आगत्य च गुरुसमीपमीर्यापथिकां प्रतिक्रामति / कार्यात्सर्ग चाष्टोच्छ्रास पचनमस्कारं चिन्तयति, तेनैव चोत्सारयति / मड़ लमिति पञ्चनमस्कारम् उच्यते / तत ईर्यापथिकां प्रतिक्रम्य गुरोः आवेदयतिनिवेदयति कालमित्यर्थः / अत्र मरुओ बंभणो तेनैव ज्ञातं दृष्टान्तः। त जहा-कम्हिइ पट्टणे धिजाइयाणं राइणा दिन्नं, तेसिं च घोसावियं-जो सामन्नो सो गेण्हउ आगंतूणं भाग एत्थ, एवं हक्कारिए जो आगतो तण लद्धो भागो, जो पुण गामाइसु गतो सो चुक्यो / एवं साहू वि दंडधारिणो घोसिए जे उवउत्ता ठिया णिवेदिए य काले जेहिं सज्झाओ पट्टविओताणं सज्झाओ दिज़ई। जे पुण विकहादिणा ठियां ताणं सज्झायकरण न दिल्लइ। एतदेवाह- सर्वैःसाधुभिः स्वाध्याये प्रस्थापिते सति पश्चात्तेभ्यः स्वाध्यायकरणं दीयते। ये पुनः कालग्रहणवेलायामुपयुक्ता न स्थिताः न स्वाध्यायप्रस्थापनवेलाया सन्निहिता भूतास्तेभ्यः स्वाध्यायकरण न दीयते। इदानीं मरुककथानकमुपसंहरन्नाहसन्निहियाण वडारो, पट्टवियपमाय नो दए कालं। बाहिठिए पडियरए, पविसइ ताहेव दंडधरो॥६५५।। सन्निहितानां त्रैविद्यब्राह्मणानां 'वडारो' वण्टकः आकरणम्-आह्वान यथासन्निहितानां, ये तु नागतास्तेषां न वण्टको-विभागो जातः / एवमत्रापि 'पट्टविय' ति-स्वाध्यायप्रस्थापनं यः कृतं तेभ्यो दीयते स्वाध्यायः / ये पुनः प्रमादिनस्तेभ्यो न दीयते काल इति / काले गृहीते स्वाध्यायो भवति। पुनश्च निवेदिते सति काले पुनर्बहिरन्यः प्रतिजागरकः प्रेष्यते / पुनश्च तत्र बहिः स्थिते प्रतिजागरके सति ततो दण्डधारी प्रविश्तीति। पट्टविय वंदिए य, ताहे पुच्छेइ किं सुयं भंते !! ते वि य कहेंति सव्वं, जं जेण सुयं व दिनुं वा / / 656 / / पुनश्वासौ प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा साधून पृच्छति दण्डधारी, यदुत-हे भदन्त ! भवतां मध्ये केन किं श्रुतम् ? तेऽपि च साधवः कथयन्ति सर्व यद्येन श्रुतं गर्जितादि,दृष्ट वा कपिमुखादि। पुनश्चतत्र केषाश्चिद्गर्जितादिशङ्का भवति ततश्च को विधिरित्यत-आहएकस्स दोण्ह वा सं-कियम्मि कीरइन कीरए तिण्हं। सगणम्मि संकिए पइ-गणम्मि गंतुं न पुच्छंति / / 657 / / एकस्य गर्जितादिशङ्किते क्रियते स्वाध्यायः, द्वयोर्वा, त्रयाणां पुनर्गर्जिताद्याशङ्कायां न क्रियते स्वाध्यायः। एवं यदि स्वगणे शङ्का भवति; ततश्चैवंविधायास्वगणेशङ्कायांसत्यापरगणे अन्यगच्छगत्वान पृच्छन्ति किंकारणम?