________________ सज्झाय 283 - अभिधानराजेन्द्रः - भाग 7 सज्झाय गण्डकेनाघोषिते बहुभिग्रामीणकैः श्रुते सति यैः स्तोर्न श्रुतंतेदण्ड्यन्ते, अथाघोषिते स्तोकैः श्रुत बहुभिर्न श्रुतंततो गण्डके एव दण्डो निपततीति / कालो सज्झाय तहा, दो वि समप्पंतिजह समं चेव। तह तंतुलंति कालं,चरिमदिसंवा असञ्झागं।।६४६॥ तौ च प्रत्युपेक्षको कालः सन्ध्या च यथा द्वे अपि समकमेव समाप्ति व्रजतस्तथा तं कालं तुलयतः / एतदुक्तं भवति-यथा कालसमातिर्भवति सन्च्या च समाप्तियाति तथा तुलयतः प्रत्युपक्षको। 'चरिमदिसं या असञ्झाग' ति-चरिमा-पश्चिमां दिग् असन्ध्याविगतसन्ध्या भवति यथा कालश्च समाप्यते तथा गृहन्ति। इदानीं किविशिष्टेन पुनः कालः प्रतिजागरणीय? इत्यत आहपियधम्मो ददधम्मो, संविग्गो चेवऽवज्जभीरू य। खेयन्नो य अभीरू,कालं पडिलेहए साहू॥६४७।। प्रियः-इष्ट धर्मो ऽस्येति प्रियधा, तथा दृढः-स्थिरो निश्चलो धर्मो यस्य स तथा, 'संविग्गों' मोक्षसुखाभिलाषी, अवद्यभीरुः पापभीरुः, खेदज्ञः-गीतार्थः तथा अभीरुः-सत्त्वसंपन्नः एवंविधः कालंकालग्रहण येज्ञा प्रत्युपेक्षते साधुः, एवंविधः कालवेलायाः प्रतिजागरणं करोति / इदानीं दण्डधारिणि घोषयित्वा निर्गते पुनश्च स द्वितीयः कालग्राही कालसंदिशनार्थ गुरोः समीपं प्रविशति / कथम् ? आउत्तपुव्वभणिए, अणपुच्छा खलियपडियवाघाते। घोसंतमूळसंकिय, इंदियविसए वि अमणुन्ने॥६४८|| रा च प्रविशन् आयुक्तः-उपयुक्तः स् प्रविशति। एतस्मिश्च प्रवेशने पूर्वोक्तमेव द्रष्टव्य; यतो निर्गच्छतो यो विधिः प्रविशतोऽपि स एव विधिरित्यत आह-पूर्वभणितमेतत्। अथ त्वनापृच्छयैव गुरु कालं गृह्णाति ततश्चानापृच्छय गृहीतस्य कालस्य,एतदुक्तं भवति-गृहीतोऽप्य सौन भवति / तथा स्खलितस्य सतः कालव्याघातः, पतितस्य व्याघातः कालस्याएव संजाते सति कालोन गृह्यते।तथा प्रविष्टस्य गुरुवन्दनकाले केनचित्सह जल्पतः कालो व्याहन्यते। तथा मूढो यदि भवति आवर्तान् विधिविपय'सेन ददाति तथाऽपि व्याहन्यते कालः, तथा शङ्क या न जानाति किमावर्त्ता दत्ता न वेत्यस्यामवस्थायां व्याहन्यते कालः। इन्द्रियविषयाश्च यद्यमनोज्ञा भवन्ति तथाऽपि कालो व्याहन्यते, छिन्धि भिन्धीत्येव विधान शब्दान् शृणोति / गन्धोऽनिष्टो यदि भवति यत्र गन्धस्तत्र रसोऽपि, विकराल रूपं पश्यति, स्पर्शन लेष्टुभिघातोऽकरमाद्भवति, एवंविधै सत्यामपि वेलायां न गृह्णाति कालम्। प्रविष्टश्चासौ किं करोतीत्यत आहनिसीहिया नमोक्कारे, काउस्सग्गे य पंचमंगलए। पुवाउत्ता सव्वे, पट्ठवणचउक्कनाणत्तं / / 646 / / प्रविशश्च गुरुसमीपे कालसन्दिशनार्थ यदि निषेधिकां न करोति ततः कालो व्याहन्यते / नमस्कार करोति- 'नमो खमासमणाणं' अथैवं न भणति ततः कालव्याघातो भवति। प्राप्तश्चर्यापथिकाप्रत्ययं कायोत्सर्गम् अष्टोच्छासं करोति, नमस्कारं च चिन्तयति, इरिया बहियं च अवस्स पडिक्कमति, जइ दूराओ जदि आसन्नओ वा आगतो, पुनरसौ नमस्कारेणोत्सारयति-पञ्चमङ्गलकेनेत्यर्थः / पुनश्च संदिशापयित्वा कालग्रहणार्थ निर्गच्छति। निर्गच्छंश्च "जदि आवस्सियं न करेइ खलति पडति वा जीयो वा अंतरे हवेज्जा एवमादीहिं उवहम्मइ” इदानीं कालग्रहणवेलायां किं कर्त्तव्यं साधुभिः? इत्याह–'पुव्वाउत्ता' पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति। उपयुक्ताश्च सन्तः कालग्रहणोत्तरकालं सर्वे स्वाध्यायप्रस्थापनं कुर्वन्ति / 'चउक्कनाणत्त' ति-कालचतुष्कस्य यथा नानात्वं भवति तथा वक्ष्यामः, कालचतुष्कम् एकः प्रादोषिकः, अपरोऽर्द्धरात्रिकः, अपरो वैरात्रिकः, अपरः प्राभातिकः / एतच भाष्यकारो वक्ष्यति। __इदानीं कालं गृह्णतः को विधिरित्यत आहथोववसेसियाए, सञ्झाए ठाइ उत्तराहुत्तो। चउवीसगदुमपुफिय-पुव्वग एक्कक्कयदिसाए॥६५०|| स्तोकावशेषायां सन्ध्यायां 'पुणो कालमंडलयं पमजित्ता' निषेधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोत्तराभिमुखः कायोत्सर्ग करोति, तरिमश्व पशनमस्कारमष्टोच्छ्रासं चिन्तयति। पुनश्च नमस्कारणोत्सार्य मूक एवं चतुर्विंशतिस्तवं "लोगस्सुज्जोयकरं" पठति मुखमध्ये, तथा 'दुमपुफियपुव्वर्ग' ति-दुमपुष्पिका-"धम्मो मंगलं पुटवगं" तिश्रामण्यपूर्वकं कह नु कुज्जा सामन्नमित्यर्थः / एतच्च एकैकस्यां दिशि चतुर्विंशतिस्तवादि “सामन्नपुवगपज्जतं कड्डइ, दंडधारी वि उत्तराभिमुहस्स संठियस्स वामपासे पुवदिसाहुत्तो अग्गओतेरिच्छदंडा धरेइ उद्घट्टियओ, पुणो तस्स पुवाईसु दिसासु चलतस्स दंडधारी वि तहव भमति"। इदानीं स गृह्णन् कालं यद्येवं गृह्णाति ततो ध्याहन्यते। कथमित्यत आहभासंतमूढसंकिय, इंदियविसए य होइ अमणुम्ने। बिंदूय छीयऽपरिणय, सगणे वा संकियं तिण्हं॥६५१।। भाषमाणः--ओष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः / मूढो दिशि अध्ययने वा यदि भवति ततो व्याहन्यते कालः। शङ्कितो वा-न जानाति किं मया द्रुमपुष्पका पठितान वेत्येवंवि-धायां शङ्कायां व्याहन्यते कालः। इन्द्रियविषयाश्च अमनोज्ञाः-अशोभनाः शब्दादयो यदिभवन्ति ततो व्याहन्यतेकालः। 'सोइदिए छिंद भिंदमारह विस्सरं बालाईणं रोवण वा रूवं वा पेच्छति, पिसायाईणं बीहावणयं, गंधे य दुरभिगंधे, रसो वि तत्थेव जत्थ गंधो तत्थ रसो, फासो बिंदुलिट्ठपहाराई एवमेतेष्वमनोज्ञेषु विषयेषु सत्सु व्याघातो भवति। तथा बिन्दुर्यधुपरिपतति शरीरस्योपधेर्वा कालमण्डलके वा ततो व्याहन्यते।