SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सच्च 273 - अभिधानराजेन्द्रः - भाग 7 सच्च नेन संयमेन भूतार्थहितकारिणा सदा-सर्वकाल संपन्नो युक्तः, एतद्गुणसंपन्नश्वासौ भूतेषु--जन्तुषु मैत्री-तद्रक्षणपरतया भूतदयां कल्पयेत-कुर्यात्। इदमुक्तं भवति–परमार्थतः स सर्वज्ञस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्पयेत्, तथा चोक्तम्- “मातृवत्परदाराणि, परद्रव्याणि लोप्टवत / आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति॥१।। / / 3 / / सूत्र 1 श्रु० 15 अ / “वरं कूपशताद्वपी, वरं वापीशतात्क्रतुः / वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम् / / 1 / / " स्था० 4 ठा०३ उ०। सच्चेसु वा अणवजं परं। सत्येषु वाक्येषु यदनवा पीडानुत्पादकं वाक्यं तत् श्रेष्ठ सत्यंतदेव यत्परपीडानुत्पादकम् / यतः लोकेऽपि श्रूयते-वादः तथाऽसत्येन कांशिकः “पतितो वधयुक्तेन नरके तीव्रवेदने" यथा-"तहेव काणं काणि त्ति, पंडग पंडा ति वा / वाहिअं वाहिरोगि त्ति, चोरं चोरि त्ति नो वदे ||1 // " सूत्र० दीपि०१ श्रु०६ अ०। रा० / सद्भ्यो हितं सत्यम्। परमार्थे, यथावस्थितपदार्थनिरूपणे मोक्ष, तदु-भयभूते संयमे, सूत्र० 1 श्रु०१२ अ०। उत्त०। रथा० / नं० / व्य० भ०। ध०। बृ० / स०। सच्चम्मि घिई कुव्वहा (सू०११२४) 'सच्चे' इत्यादि, सद्भ्यो हितः रात्यः-संयमस्तत्र धृति कुरुध्वं, सत्यों वा-मानीन्द्रागमो यथावस्थितवस्तुर वरूपाविर्भावनात / तत्र भगवदाज्ञायां धृतिं कुमार्गपरित्यागेन कुरुध्वमिति / आचा० 1 श्रु०३ अ०२ 30 / तमेव सच्चं णीसकं जं जिणेहिं पवेइयं / (सू०१६२४) 'तमेव सच्च' इत्यादि, यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषुभयसिद्धदृष्टान्तसम्यग- हेत्वभावाच्च ज्ञानावरणीयोदयेन सम्यगज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत्,यथा तदेवैक सत्यम्-अवितथम्। आचा०१ श्रु०५ अ०५ उ०। तत्सत्यतामेव दर्शयन्नाहसे नूणं भंते ! तमेव सचं णीसंकं जं जिणेहि पवेइयं? हंतागोयमा! तमेव सचं णीसंकं जं जिणेहिं पवेदितं। (सू०३०) "से णूण' मित्यादि व्यक्तम, नवरं तदेव ने पुरुषान्तरैः प्रवेदित रागाद्यपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात्, सत्यम्-सूनृतं तच्च व्यावहारतोऽपि स्यादत आह-निःशङ्कम्-अविद्यमान-सन्देहमिति। अथ जिनप्रवेदितं सत्यमित्यभिप्रायवान् यादृशो भवति तद्दर्शयन्नाहसे नूणं भंते ! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्ठमाणे एवं संवरेमाणे आणाए आराहए भवति? हंता गोयमा ! एवं मणं धारेमाणे०जाव भवइ। (सू०३१) 'से नूण' मित्यादि व्यक्तम्, नवर नूनं-निश्चितम्, ‘एवं मणं धारे-माणे' त्ति 'तदेव सायं निःशङ्ख यञ्जिनैः प्रवेदितमित्यनेन प्रकारेण मनामानसमुत्पन्नं सत धारयन-स्थिरीकुर्वन एवं पकरेमाणे' तिउक्तरूपेणानुत्पन्नं सत प्रकुर्वन-विदधानः ‘एवं चिट्टेमाणे' त्ति उक्तन्यायेन मनश्चेष्टयन नान्यमतानि सत्यानीत्यादिचि-न्ताया व्यापारयन चेष्टमानो वा विधेयेषु तपोध्यानादिषु एवं संवरमाणे' त्ति-- उक्तबदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन प्राणातिपातादीन वा प्रत्या वक्षाणो जीव इति गम्यते, 'आणाए' त्ति आज्ञाया-ज्ञानाद्यासेवारूपजिनोपदेशस्य 'आराहए' त्ति-आराधकः-पालयिता भवतीति / भ०१श०३ उ०। सचंसि परिचिट्ठिसु। (सू०१४०४) सत्यमिति ऋतंतपःसंयमो वा तत्र परिचिते स्थिरे तस्थुः स्थित-वन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या-तत्रातीते काले अनन्ता अपि सत्ये तस्थुर्वर्तमाने पञ्चदशसु कर्मभूमिषु संख्येयास्तिष्ठन्ति, अनागते अनन्ता अपि स्थास्यन्ति / आचा० 1 श्रु० 4 अ०३ उ० / स्वप्रादिप्रकारेण अवितथोपदेष्टरि देवा-दिके, भ० 12 10 8 उ० / औ०। ('विणय' शब्दे षष्ट भागे एत-त्कथानकमुक्तम्।) सच्चमेव समभिजाणाहि सच्चस्स आणाए से उवट्ठिए मेहावीमारं तरह। (सू०११८४) सद्भ्यो हितः सत्यः-संयमस्तमेवापरण्यापारनिरपेक्षः समभि-- जानीहि-आसेवनापरिज्ञया समनुतिष्ठ, यदि वा-सत्यमेव समभिजानीहि गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव / यदि वा-सत्यःआगमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रति पालनम्, किमर्थमेतदिति चेदाह- 'सच्चस्स' इत्यादि सत्यस्य आगमस्याज्ञयोपस्थितः सन् मेधावी मार--संसार तरति। आचा० 1 श्रु०३ अ० 3 उ० / शब्दानुशासनोपदर्शिते यथोक्तलक्षणेऽविपरीते वचने, आ० म०१ अ०। (इदं च 'मुसावायवेरमण' शब्दे षष्ठभागे 325 पृष्ठे विस्तरतः प्रपञ्चितम्।) अथ द्वितीयव्रतलक्षणमाहसर्वथा सर्वतोऽलीका-दप्रियाचाहितादपि। वचनाद्धि निवृत्तिर्या, तत्सत्यव्रतमुच्यते॥४१॥ सर्वतः क्रोधादिसकलप्रकारजनितात् अलीकाद्-असत्याच पुनरप्रियाद्-अप्रीतिकारिणः / तथा अहितादपि आयतौ अहितकारिणः न केवलम् अलीकादेवेत्यपिशब्दार्थः, एवंविधाद्वचनाद्या सर्वथा त्रिविधत्रिविधन निवृत्तिर्विरमणं तत् सत्यं सत्य व्रतमुच्यते जिनैरिति शेषः / ननु अलीकाद्वचनान्निवृत्तिरित्येवास्तु सत्यव्रताधिकारात् किमप्रियाऽहितयोर्ग्रहणं तयोरनधिकारात्, इति चेत्, मैवं व्यवहारतः सत्यस्यापि अप्रियस्याऽहितस्य च परमार्थतोऽसत्यत्वात्, यथा-चौरं प्रति चौरस्त्वं, कुष्ठिनं प्रति कुष्ठी त्वमिति, तदप्रियत्वान्न तथ्यम्-तथा च सूत्रम- "तहेव काणं काणत्ति, पंडगं पंडग त्ति अ। वाहिरं वावि रोगि त्ति, तेणं चोरि ति नो वए // 1 // " अत एव षड् भाषा अप्रशस्ता उवतास्तथाहि-"हीलिअखिसिअफरुसा, अलिआ तह गारहत्थिआ भासा / छट्ठी पुण उवसंताहिगरणउल्लाससंजणणी / / 1 / / " इति तथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तज्जन्तुघातहेतुत्वान्न तथ्यम्। तथा चोक्तं योगशास्त्रे- "न सत्यमपि भाषेत, परपीडाकर वचः / लोकऽपि श्रूयते यस्मात्, कौशिको नरकं गतः / / 1 // " इति।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy