________________ समाहि 430 - अभिधानराजेन्द्रः - भाग 7 समाहि कम लाभा वा तम्. इह-अस्मिन् संसारे असंयमजीवितार्थी भोगप्रधानजाविता त्यर्थः / यदिवा-आजीविकाभयात् द्रव्यसञ्चय न कुर्यात् पाठान्तरं वा- 'छन्दण कुजा' इत्यादि, छन्दः प्रार्थ-नाभिलाष इन्द्रियाणां स्वविषयाभिलाषो वा तत् न कुर्यात्, तथा असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत्-उद्युक्त-विहारी भवेत, तथा गृद्धि- गाध्य विषयेषु शब्दादिषु विनीयअ-पनीय-निशम्य-अवगम्य पूर्वोत्तरेण पर्यालोच्य भाषको भवेत, तदेव दर्शयति-हिंसया-- प्राण्युपमर्दरूपया अन्वितायुक्ता कथां न कुर्यात्-न तत् बूयात् यत्परात्मनोरुभयोर्वा बाधक वच इति भावः / तद्यथा-- अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथा पापोपादानभूतां न कुर्यादिति // 10 // अपि च-साधूनाधाय कृतमाधाकृतमौद्देशिकमाधाकर्मत्यर्थः, तदेवंभूत-माहारजातं निश्चयेनैव न कामयेत्- नाभिलपे तथाविधाहारादिकं च निकामयतः-निश्चयेनाभिलषतः पार्श्वस्थादीस्तत्सम्पर्कदानप्रतिग्रहसंवाससंभाषणादिभिः न संस्थापयेत्नोपद्व्हयेत्, तैर्वा सार्ध संस्तवं न कुर्यादिति / किश्व-- 'उरालं' ति औदारिक शरीरं-विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो धुनीयात्-कृश कुर्यात् / यदि वा-- 'उराल' ति बहुजन्मान्तरसञ्चितं कर्म तदुदारं मोक्षमनुप्रेक्षमाणो धुनीयाद्-अपनयेत, तस्मिँश्च तपसा धूयमाने कृशीभवति शरीरके कदाचित् शोकः स्यात्. तं त्यक्त्वा याचितोपकरणवदनुप्रेक्षमाणःशरीरक धुनीयादिति सम्बन्धः / सूत्र०१ श्रु० १०अ०। किञ्चाऽन्यत्इत्थीसु या आऽरय मेहुणाउ, परिग्गहं चेव अकुव्वमाणे। उचावएसुं विसएसु ताई, निस्संसयं भिक्खु समाहिपत्ते / / 13 / / दिव्यमानुषतिर्यगपासु त्रिविधास्वपि स्त्रीषु विषयभूतासु यत् मैथुनम्अब्रह्म तस्माद् आ--समन्तान्न रतः-अरतो निवृत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवृत्तश्च तथा परिसमन्ताद् गृह्यते इति परिग्रहो धन्धान्यद्विपदचतुष्पदादिसंग्रहःतथा-ऽऽत्माऽऽत्मीयग्रहस्त चैवाकुर्वाणः सन्नुचावचेषु-नानारूपेषु यदिवोच्चा-उत्कृष्टा अवचा जधन्यास्तेष्वरक्तद्विष्टः त्रायी-अ-परेषां च त्राणभूतो विशिष्टोपदेशदानतो निःसंशयंनिश्चयेन परमार्थतो भिक्षुः-साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमाधि प्राप्तो भवति, नापरः कश्चिदिति / उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संशयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः / / 13 // (14 गाथा परिसह' शब्दे पञ्चमभागे 647 पृष्ठे उक्ता / ) किश्चान्यत्गुत्तो वईए य समाहिपत्तो, लेसं समाहटु परिव्वएज्जा। गिहं न छाए ण वि छायएज्जा, संमिस्सभावं पयहे पयासु // 15|| वाचि वाचा वा गुप्तो वाग्गुप्तो–मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धा लेश्या तेजस्यादिकां समाहृत्य--उपादाय अशुद्धा च कृष्णादि कामपहृत्य परिसमन्तासंयमानुष्ठाने व्रजेत् गच्छेदिति। किंचान्यत्-गृहम् आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थत्वादस्यापरमपि गृहादेरुरगवत्परकृतबिलनिवासित्वात्संस्कारं न कुर्यात् / अन्यदपि गृहस्थकर्त्तव्यं परिजिहीर्षुराह-प्रजायन्त इति प्रजास्तासु-तद्विषये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात् / एतदुक्तं भवति-प्रव्रजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् कारयश्च गृहस्थैः सम्मिश्रभावं भजते। यदि वाप्रजाःस्त्रिय-स्तासु ताभिर्वा यः सम्मिश्रीभावस्तम-विकलसंयमार्थी प्रजह्यात-परित्यजेदिति / / 15 / / ('जे केइ' 0 इत्यादि 16 गाथा 'अकिरि-याआय' शब्दे प्रथमभागे 126 पृष्ठे गता।) किंचान्यत्पुढो य छंदा इह माणवा उ, किरियाकिरियं च पुढो य वायं जायस्स बालस्स पकुव्व देहं, पवड्डी वेरमसंजतस्स॥१७॥ पृथक-नाना छन्दः- अभिप्रायो येषां ते पृथक्छन्दा इह अस्मिन्मनुष्यलोके मानवा-मनुष्याः तुरवधारणे,तमेव नानाभिप्राय-माहकियाऽक्रि ययो: पृथक्त्वेन क्रियावादमक्रियावादं च समाश्रिताः तद्यथा-- "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सु खितो भवेत् // 1 // " इत्येवं क्रियैव फलदायित्वेनाभ्युपगताः क्रियावादमाश्रिताः, एवमेतद्वि-पर्ययणाक्रियावादमाश्रिताः, एतयोश्वोत्तरत्र स्वरूप न्यक्षेण वक्ष्यते ते च नानाभिप्राया मानवाः क्रियाऽक्रियादिकं पृथग्वादमाश्रिता मोक्षहेतु धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगा रससातागौरवाभिलाषिण एतत्कुर्वन्ति,तद्यथा- 'जातस्य-उत्पन्नस्य बालस्य अझस्य सदसद्विवेकविकलस्य सुखैषिणो देहम्-शरीरं 'पकुव्व' ति-खण्डशः कृत्वाऽऽत्मनः सुखमुत्पादयन्ति,तदेवं परोपघातक्रियां कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तर-शतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षण वर्धत / पाठान्तरं वा-'जायाएँ बालस्स पगडभणाएं बालस्य-अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता प्रगल्भताधाष्य तया वैरमेव प्रवर्धत इति सम्बन्धः / / 17 / / (18 गाथा 'आउक्खय' शब्दे द्वितीयभागे 27 पृष्ठे गता।) किंचान्यत्जहाहि वित्तं पसवो य सव्वं, जे बंधवा जे य पिया य मित्ता। लालप्पवी सेऽवि य एइ मोहं, अन्ने जणा तंसि हरति वित्तं / / 16 / /