________________ समाहि 426 - अभिधानराजेन्द्रः - भाग 7 समाहि क्षुन कुर्यादिति / / 3 / / (गाथापूर्वार्द्धव्याख्या 'इत्थी' शब्दे द्वितीय-भागे 614 पृष्ठे गतः।) स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् पश्य-अवलोकय पृथक पृथिव्यादिषु कायेषु सूक्ष्मबादरपर्या-तकापर्याप्तकभेदभिन्नान् सत्त्वान्-प्राणिनः अपिशब्दावनस्पति--काये साधारणशरीरिणाऽनन्तानप्यकत्वमागतान् पश्य, किं भूतान्? दुःखेन-असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखम् अष्टप्रकार कर्म तेनानि-पीडितान् परिसमतात्संसार-कटाहोदरे स्वकृतेनेन्धनेन परिपच्यमानान्-वध्यमानान, यदिवा-दुष्प्रणि हितेन्द्रियानार्तध्यानोपगतान्मनोवाक्कायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति। अपिचएतेसु बाले य पकुव्वमाणे, आवट्टती कम्मसु पावएसु। अतिवायतो कीरति पावकम्म, निउंजमाणे उ करेइ कम्मं // 5 // आदीणवित्तीय करेति पावं, मंताउ एगंतसमाहिमाहु। बुद्धे समाही य रते विवेगे, पाणातिवाता विरते ठियऽप्पा / / 6 / / सव्वं जगं तू समयाणुपेही, पियमप्पियं कस्सइ णो करेजा। उट्ठाय दीणो य पुणो विसन्नो, संपूयणं चेव सिलोयकामी // 7 / / आहाकडं चेव निकाममीणे, नियामचारी य विसण्णमेसी। एतेषु प्राग निर्दिष्टषु प्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् बालः अज्ञश्वशब्दादितरोऽपि संघट्टनपरितापनापद्रावणादिके-नानुष्ठानेन पापानि कर्माणि प्रकर्षण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्ते नैव संघट्टनादिना प्रकारेणानन्तशः आवर्त्यते-पीड्यते दुःखभाग्भवतीति / पाठा-न्तर वा-एवं तु वालेएवमित्युपदर्शन यथा चौरः पारदारिको वा असदनुष्ठानेन हस्तपादच्छेदान् बन्धवधादींश्चेहावाप्नात्येवं सामान्यदृष्टेनानुमानान्योऽपि पापकर्मकारी इहामुत्र च दुःख-भाग्भवति, 'आउद्दति' त्ति क्वचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनुष्ठानेभ्यः 'आउट्टति' ति-नि-वर्तते, कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्त्तत वा इत्याशङ्करः तानि दर्शयति-अतिपाततः-प्राणातिपाततः प्राणव्यपरोपणाद्धतास्तचाशुभम्-ज्ञानावरणादिकं कर्म क्रियतेसमा-दीयते, तथा परांश्च भृत्यादीन प्राणातिपातादौ नियोजयन्-व्या-पारयन् पापं कर्म करोति, तुशब्दान्मृषावादादिकं च कुर्वन कार-यश्च पापकं कर्म समुचिनोतीति / / 5 / / किं चान्यत्-आ-समन्ता-दीना-करुणास्पदा वृत्तिःअनुष्ठानं यस्य कृपणवनीपकादेःस भवत्यादीनवृत्तिः, एवम्भूतोऽपि पापं कर्म करोति, पाठान्तरं वा (आदीनभोज्यपि पापं करोतीति 'आईणभाई' शब्दे द्वितीयभागे 7 पृष्ठे गतम् / ) द्रव्यसमाधयो हि स्पादिसुखोत्पादका अनेका-न्तिका अनात्यन्तिकाश्च भवन्ति, अन्ते चावश्यमसमाधिमुत्पा-दयन्ति, तथा चोक्तम्- "यद्यपि निषेव्यमाणा, मनसः परितुष्टि-कारका विषयाः / किम्पाकफलादनव-द्भवन्ति पश्चादतिदु-रन्ताः।।१।।" इत्यादि, तदेवं बुद्धः-अवगततत्त्वः स चतुर्विधेऽपि ज्ञानादिके रतोव्यवस्थितो विवेके वा आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके रतः सन्नेवभूतश्च स्यादित्याहप्राणानां दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद् विरतः स्थितः सम्यग्मार्गेषु आत्मा यस्य सः, पाठान्तर वा-ठियच्चि त्ति-स्थिता शुद्धस्वभावात्मना अर्चिः-लेश्यायस्य स भवति स्थितार्चिः, सुविशुद्धस्थिरलेश्य इत्यर्थः / / 6 / / किंच-सर्व-चराचर जगत्-प्राणिसमूह समतया प्रेक्षितुं शीलमस्य स समतानुप्रेक्षी समताप-श्यको वा, न कश्विप्रियो नापि द्वेष्य इत्यर्थः तथा चोक्तम्- "नस्थि य सि कोइ वि (दि) स्सो, पिओ व सव्वेसुचेव जीवेसु।" तथा "जह ममण पियं दुःख" मित्यादि-समतोपेतश्च न कस्यचित्प्रि-यमप्रियं वा कुर्यान्निःसङ्गतया विहरेद, एवं हि सम्पूर्णभावस-माधियुक्तो भवति। कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गस्तर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति, वि-षयार्थी वा कश्चिद्गार्हस्थ्यमप्यवलम्बते, रससातागौरवगृद्धो वा पूजा सत्काराभिलाषी स्यात्, तदभावे दीनः सन् पार्श्वस्थादि-भावेन वा विषण्णो भवति, कश्चित्तथा सम्पूजनं वस्त्रपात्रादिना प्रार्थयेत, श्लोककामी च-श्लाघाभिलाषी च व्याकरणगणित-ज्योतिषनिमित्तशास्त्राण्यधीते कश्चिदिति // 7 // किंचान्यत-साधूनाधाय-उद्दिश्य कृत निष्पादितमाधाकर्मेत्यर्थः,तदेवम्भू-तमाहारोपकरणादिकं निकामम्अत्यर्थ यः प्रार्थयते स 'निका-ममीणे' इत्युच्यते / तथा-निकामम्अत्यर्थम् आधाकर्मादीनि तन्निमित्तं निमन्त्रणादीनि वा सरति-चरति तच्छीलश्च स तथा, एवम्भूतः पार्श्वस्थाक्सन्नकुशीलानां संयमोद्योगे विषण्णानां विषण्णभावमेषते, सदनुष्ठानविषण्णतया संसारपङ्कावसन्नो भव-तीति यावत्, ('इत्थीसु' इत्यारभ्य 'परिग्गह' शब्दे पञ्चमभागे 556 पृष्ठे गतम्।) तथा 'वेराणुविः ' इत्यादि 'धम्म' शब्दे 4 भागे 2676 पृष्ठे गतम्।) किंचान्यत्आयं ण कुजा इह जीवियट्ठी, असजमाणो य परिव्वएजा। णिसम्मभासीय विणीय गिद्धि, हिंसन्नियं वा ण कहं करेजा / / 10 / / आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण संथवेजा। धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवेक्खमाणो॥११॥ आगच्छतीत्यायो-द्रव्यादेला भस्तन्निमित्तपादितोष्ट प्रकार