________________ समय 420 - अभिधानराजेन्द्रः - भाग 7 समय पगतः-सूक्ष्मशिल्पसमन्वितः एवंविधो ह्यल्पेनैव कालेन साटिका पाटयतीति बहुविशेषणोपादानम् स इत्थंभूत एका महतीं पट-साटिका पट्टसाटिकां वा पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनो-पादानम, गृहीत्वा 'सयराह' मिति सकृत् झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत--- पाटयेदित्यर्थः तत्रैवं स्थिते प्रेरकः-शिष्यः प्रज्ञापयतीति प्रज्ञापकोगुरुस्तमेवमवादीत, किम् ? येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकायाः पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारित-पाटितमसो समयो भवति? प्रज्ञापक आह- नायमर्थः समर्थः-- नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात् संख्येयानां तन्तूनां समुदयसमितिस-मागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पट-साटिका निष्पद्यतेतत्र च उवरिल्ले तिउपरितने तन्तौ अच्छिन्ने अविदारिते 'हेट्टिले' ति-आधस्त्यतन्तुर्न छिद्यते अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः , तरमादसौ समयो न भवतिएवं वदन्तं प्रज्ञापक प्रेरक एवमवादीत् येन कालेन तेन तुन्नागदारकेण तस्याः-पटसाटिकाया उपरितन-स्तन्तुश्छिन्नः स समयः? किं भवतीति शेषः, अत्र प्रज्ञापक आ-ह-न भवतीति, कस्मात् ? यस्मात्संख्येयानां पक्ष्मणां लोके प्रतीतस्वरूपाणां समुदायेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याधुपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयम्, नवरमनन्तानां परमाणूनां विशिष्ट कपरिणामा--पत्तिः सङ्घातः, तेषामनन्ताना यः समुदयः- संयोगस्तेषां समु-दयाना या अन्योऽन्यानुगतिरसौ समितिः, तासा समागमेन-एकवस्तुनिवर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवा-चकत्वेनैकार्था वा समुदयादयः, तस्मादसावुपरितनैकपक्ष्मच्छे-दनकालः समयो न भवति. कस्तहि समय इत्याह- 'एतोऽवि अण्ण' मित्यादि, एतस्माद् उपरितनैकपक्ष्मच्छेदनकालात सक्ष्मतरः समयः प्रज्ञप्तो हे श्रमण ! आयुष्मन्निति, अत्राह-ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते ते च सनाताः क्रमेण छिद्यन्ते त.कस्मिन्नपि पक्ष्मणि विदीर्यमाणे अनन्ताः समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासंख्येयास्वप्युत्सर्पि-- ण्यवसर्पिणीषु समयासंख्येयकस्यैव प्रतिपादनात्, यत उक्तम्'असंखेज्जासु णं भंते ! उस्सप्पिणीअवसप्पिणीसु केवइया समया पण्णता ? गोयमा ! असंखेज्जा / अणंतासु णं भंते ! उस्सप्पिणीअवसप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! अणता' तदेतत्कथम् ? अत्रोच्यते--अस्त्येतत्, किन्तु-पाटनप्रवृत्तपुरुषप्र-यत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घाताना छेदः संपद्यत, एवंच सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थू-लतरसडाता एकस्मिन्पक्ष्मणि असंख्येया एव भवन्ति, तेषाचक्रमेण छेदने असंख्येयः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्वि-रोधः, इत्थं च विशेषतः सूत्र अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात् सूत्राणां च सूचामात्र-त्वादिति, ततोऽसंख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदीर्यमाण-त्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रिया-विशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् एत्ताऽवि अण्णं सुहुमत-राए समए' इति सामान्येनैवोक्तवानिति, एकरमादुपरितन - पक्ष्म-च्छेदनकालादसंख्याततमोऽशः समय इति स्थितम् युगपदन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिपस्थितानवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणे बहून्नभःप्रदेशान् विलच्या चिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसो क्रमेणै के कं व्योमप्रदेशं लड़येत् तदा असंख्येयोत्सप्पिण्यवसर्पिणीभिरेवेष्ट-देश प्राप्नुयाद् 'अंगुलसेढीमित्ते उरसप्पिणीउ असंखेज्जा' इत्यादिवचनादिति भावः / नचातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ट-र्भाव्यम् सर्वज्ञवचनप्रामाण्याद्, उक्तंच“आगमश्चोपपत्तिश्च, संपूर्ण विद्धि लक्षणम्। अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये / / 1 / / आगमश्चाप्तवचन-माप्तं दोषक्षयाद्विदुः। वीतरागोऽनृतं वाक्यं, न ब्रूयात्विसम्भवात्।।२।। उपपत्तिर्भवद्युक्तियां सद्भावप्रसाधिका। साऽन्वयव्यतिरेकादि-लक्षणा सूरिभिः कृता // 3 // " इति, निदर्शितं चेहोभयमपीत्यलं विस्तरेण / अनु० / स्था० / एगे समए। (सू०४४४) परमनिकृष्ट काल उत्पलपत्रशतव्यतिभेददृष्टान्ताज्जरत्पटशाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धादवबोद्धव्यः, स चैक एव वर्तमानस्वरूपोऽतीतानागतयोविनष्टानुत्पन्नत्वेनाभावात् / अथवाअसावेकस्वरूपेण निरंशत्वादिति। स्था०१ ठा०। आचा० / कल्प० / निकासका जी० / तं०। राजनीतिशास्त्रे, वृ०३ उ०। सङ्केते, आ० म० 1 अ०। पं०व०1 सू० प्र०। चं० प्र० / ज्ञा० / विशे०। कर्मः / समितिसम्यकशब्दार्थ उपसर्गः, सम्यगयः समयः / सम्यग्दयापूर्वक जीवेषु विषये प्रवर्तन, विशे० / आचारे, अनुष्ठाने,आचा० १श्रु० 3 अ० 1 उ० / मुक्तिमार्गप्रवर्तन, विशेा नास्तिकादिसमयप्रतिपादनपरमध्ययन समय एवेति। स०१६ सम०। सूत्रकृताङ्गस्य प्रथमेऽध्ययने, आव०४ अ०। साम्प्रत निक्षेपावसरः, स च त्रिधा-ओघनिष्पन्नो, नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्च / तत्रौघनिष्पन्नेऽध्ययनम्, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव. नामनिष्पन्ने तु समय इति नाम, तन्निक्षेपार्थ नियुक्तिकार आहनाम ठवणा दविए, खेत्ते काले कुतित्थसंगारे। कुलगणसंकरगंडी, बोधव्वो भावसमए य / / 29 / / 'नाम ठवणा' इत्यादि, नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसङ्करगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यसमयो द्रव्यस्य सम्यगयन-परिणतिविशेषः स्वभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्योपयोगः पुद्गलद्रव्यस्य मूर्तत्व धर्माधर्माकाशानां गतिस्थित्यवगाह-दानलक्षणः / अथवा–यो यस्य द्रव्य स्यावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा- 'वर्षा सु लवणममृतं, शरदि जलं गोषयश्च हेमन्ते। शिशिरे चामलकरसो, घृतं वसन्त गुडश्चान्ते' / / 1 / / क्षेत्रसमय:-क्षेत्रम्-आकाशं तस्य समयः