________________ समभिरूढ 418 - अभिधानराजेन्द्रः - भाग 7 समय अत्र परमतमाशङ्क्य परिहन्नाहपत्थादओ वि तक्का-रणं ति माणं मई न तं तेसु / जमसंतेसु वि बुद्धी, कासइ संतेसु वि न बुद्धी / / 2245 / / तक्कारणं ति वा जइ, पमाणसिद्धं तओ पमेयं पि। सव्वं पमाणमेवं, किमप्पमाणं पमाणं वा / / 2246 / / प्रस्थादयोऽपि मानमिति प्रतिज्ञा, तत्कारणात्-प्रस्थकज्ञानकारणत्वात्, यथा 'नङ्कलं पादरोग' इत्येवंभूता परस्य मतिः स्यात् / तदेतद् न, यतस्तेषु प्रस्थकादिष्वसत्स्वपि कस्यापि धान्यराश्यवलोकनमात्रेणापि कलनशक्तिसंपन्नस्य अतिशयज्ञानिनो वा प्रस्थकपरिच्छेदबुद्धिरुपजायते / कस्यापि पुनर्नालिकेरद्वीपाद्यायातस्य सत्स्वपि तेषु प्रस्थकपरिच्छेदबुद्धिर्न संपद्यते, इत्यनैका-- न्तिका एव काष्ठमयप्रस्थकादयः प्रस्थकज्ञानजनने, इति कथं तत्कारणत्वात् ते प्रस्थकादिमानरूपा भवेयुः? यदि वा-भवन्तु ते तत्कारणम्, तथापि न तत्कारणत्वेन तेषां प्रस्थादिमानरूपता, अतिप्रसङ्गादिति दर्शयति- 'तक्कारण ति वे' त्यादि, यदि प्रस्थकज्ञानकारणतामात्रेणापि ते काष्ठमयप्रस्थकादयः प्रमाणमिष्टाः, तर्हि प्रमेयमपि प्रमाणं प्राप्नोति, प्रमाणाज्ञानकारणत्वात् / एवं च सति दधिभक्षणादीनामपि परम्परया तत्कारणत्वेन प्रमाणत्वात् किं नामाप्रमाणं स्यात् ? यदि च सत्यपि तत्कारणत्वेऽन्यत् सर्व दधिभक्षणादिकंन प्रमाणम्, तर्हि काष्टमयप्रस्थकादयोऽपिन प्रमाणम्, अतः किं नाम प्रमाणं भवेत् ? न किञ्चित्। ततो विशीर्णा प्रमाणाप्रमाणव्यवस्था। तस्मात् प्रस्थकज्ञानमेव प्रस्थकप्रमाणं त्रयाणामपि शब्दनयानामिति। तथा-पञ्चाना-धर्माऽधर्माऽऽकाशजीवपुद्गलास्तिकायानां देशप्रदेशकल्पनायामस्य षष्टीसभासादि नेष्टम् / किं तर्हि? देशी चासौ देशश्चेत्यादि कर्मधारयमेव मन्यतेऽसौ नयः कुतः? इत्याहदेसी चेव य देसो, नो वत्थु वान वत्थुणो भिन्नो। भिन्नो वन तस्स तओ, तस्स व जइ तानसो भिन्नो / / 2247 / / एत्तो चेव समाणा-हिगरणया जुज्जए पयाणं पि। नीलुप्पलाइयाणं,न रायपुरिसाइसंसग्गो // 2248|| धर्मास्तिकायादिको देश्येव हि देशो न पुनस्तस्माद् घटादिवारघट्टोऽत्यन्तभिन्नं स्वतन्त्रवस्तुदेशः। अथ न स्वतन्त्रवस्तुदेशः किन्तु तत्संबन्धित्वादस्वतन्त्रोऽपि देशितो भिन्नो देश इति चेत् / तदप्ययुक्तम्। कुत? इत्याह-नवा देशिलक्षणाद्वस्तुनो भिन्नो-- ऽसौ देशः / अथ भिन्नस्तस्मादिष्यते सः, त_न्यस्यान्येन विन्ध्यहिमवदादीनामिव सर्वथा संबन्धायोगाद न तस्य देशिनस्तकोऽसौ देशः / यदि पुनस्तस्य देशिनः संबन्धी देशोऽभ्युपगम्यते तर्हि घटादेः स्वस्वरूपवद् न स देशस्तरमाद् देशिनो भिन्नः किन्तुतदात्मक एवेति। अत एव विशेषणविशेष्यभूतानां सर्वेषां पदाना समानाधिकरणता-कर्मधारय एव समासो युज्यत इत्यर्थः,यथा नीलोत्पलादीनाम्, उपलक्षणं चेदम्-धवखदिर-पलाशदीनां द्वन्द्वोऽपि स्यात्, न तु राज्ञः पुरुषो राजपुरुष इति षष्ठ्यादिसमासः, यतो भिन्नानामन्योन्यं संसर्गः संबन्धो न घटते, तथाहि-संबद्धवस्तुद्वयात् संबन्धो भिन्नो वा स्यादभिन्नो वा ? यदि भन्नः, तर्हि संबद्धवस्तुद्या भिन्नं स्वतन्त्रं तृतीयमेव वस्तु तत् स्याद नतु संबन्ध इति कथं तद्वशात् षष्ठ्यादिविभक्तिः? नहि विन्ध्यहिमवदादिभ्यो भिन्नो घटादिः संबन्धो भण्यते। नापितद्वशात् तेषां षष्ठ्यादिविभक्तिः प्रवर्तते ।अथ संबद्धवस्तद्वयादभिन्नः संबन्धः, तर्हि भासौ षष्ट्या दिहेतुः, संबद्धवस्तुद्वयादव्यतिरिक्तत्वात्, तत्स्वरूपवत्, इत्यादि बह्वत्र वक्तव्यम्, तत्तुनोच्यते, ग्रन्थगहनताप्रसड़ादिति। अपरमपि समभिरूढनयाभिप्रायभेदं दर्शयन्नाहघडकारविवक्खाए, कत्तुरणत्थंतरं जओ किरिया। न तदत्थंतरभूए, समवाओ तो मओ तीसे / / 2246 / / कुंभम्मि वत्थुपज्जा-यसंकराइप्पसंगदोसाओ। जो जेण जं व कुरुए, तेणाभिन्नं तयं सव्वं / / 2250 / / 'घट करोति' इति घटकार इत्यस्यां विवक्षायां प्ररूपणायां यस्मात तस्य घटकर्तुरनर्थान्तरमव्यतिरिक्ता घटकरणक्रिया, कर्तर्यवघटकारे तस्याः समवायात्। 'तो' तितस्माद् न तदर्थान्तरभूते कर्तुर्व्यतिरिक्ते कुम्भे घटे तस्याः समवायः संश्लेषो मतः / कुतः? वस्तुपर्यायसंकरादिदोषप्रसङ्गात् वस्तूनां ये पर्यायाधर्मास्तेषां परस्परं संकरः संकीर्णत्वमेकत्वं वा स्यात्, कर्तृगतक्रियायाः कुम्भेऽपि समवायाभ्युपगमात् / ततश्व यः कुम्भकारादिर्थेन क्रियाविशेषेण यत् कुम्भादिक कुरुते तेन क्रियाविशेषेण तत्क्रियारूप-तयेत्यर्थः, सर्व तत्कर्तृकर्माद्यभिन्न स्यात्तस्मात् कर्तृगतक्रियाया न कर्मणि संक्रमः, किन्तु कुर्वन् कारकः, कुम्भनादिभ्य एव कुम्भादय इति मन्यते समभिरूढ इति। उक्तः समभिरूढनयः / विशे० / नं० / आ० / चू० / आ० म०। (समभिरूढनयव्याख्या 'णय' शब्देऽपिचतुर्थभागे 1857 पृष्ठ गता।) (एतदाभासव्याख्या 'णयाभास' शब्दे चतुर्थभागे 1903 पृष्ठे गता।) दृष्टिवादस्य सूत्रभेदे, स० / अष्ट० / सूत्र० / अनु० / सम्म० / स्था०। समभूमि स्त्री० (समभूमि) अविषमक्षितितले, आव०५ अ०। समय न० (समक) सममेव समकम् / सरसविरसादिष्वभिष्वङ्गादिविशेषरहिते, उत्त०१ अ०। सहार्थे, उत्त० 4 अ०। युग-पदर्थे, व्य० 2 उ० / एककाले, प्रज्ञा० 1 पद। विशे० / जं० / ज्ञा०। सम्यगीयते परिच्छिद्यते इति समयः / सम्म०१ काण्ड। सम्यक् प्रमाणान्तराविसंवादित्वेनायते परिच्छिद्यत इति समयः। सम्म०२ काण्ड। सम्यगवैपरीत्येनायन्ते ज्ञायन्ते जीवादयोऽर्था अनेनेति समयः, सम्यगयन्ति गच्छन्ति जीवादयः पदार्थाः स्वस्मिन रूपे प्रतिष्ठा प्राप्नुवन्ति अस्मिन्निति समयः / स्या०। सूत्र० / आ० म०। आगमे, आचा०२ श्रु०२ चू०५ अ०। सूत्र० / अनु० / सिद्धान्त, नं० / व्य०। विशे० / जैनागमे, विशे०। जिनादिसिद्धान्ते, स्था०३ ठा० 4 उ० / सम्म० जी०। संथा०। स्वसमयोऽर्हन्मतानुसारिशास्त्रात्मकः, परसमयः कपिलाद्यभिप्रायानुवर्त्तिग्रन्थरूपः, उभयसमयस्तूभयम-तानुगतशास्त्रस्वभावः तत्रास्यस्व-समयवक्तव्यतायामेवावतारः,स्वसम्यपदार्थानामे