________________ समभिभूय 417 - अभिधानराजेन्द्रः - भाग 7 समभिरूढ समभिभूय त्रि० (समभिभूत) परिभूते, प्रश्र० 4 आश्र० द्वार। समभिरूढ पुं० (समभिरूढ) वाचकं वाचकं प्रति वाच्यभेदं समभिरोहयत्याश्रयति यः स समभिरूढः / स्था० 3 ठा० 3 उ० / पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहयन् समभिरूढः। स्था० / पर्यायशब्दानां प्रविभक्तार्थाभिमन्तरि नयभेदे, स्या०। विशे०। अथ समभिरूढनयमाहजं जं सण्णं भासइ, तं तं चिय समभिरोहए जम्हा। सणंतरत्थविमुहो, तओ तओ समभिरूढो त्ति / / 2236 / / यां या संज्ञा घटादिलक्षणां भाषते-वदति तां तामेव यस्मात् / संज्ञान्तरार्थविमुखः कुटकुम्भादिशब्दवाच्यार्थनिरपेक्षः समभिरोहति समध्यास्ते तत्तद्वाच्यार्थविषयत्वेन प्रमाणीकरोति, ततस्तस्माद् नानार्थसमभिरोहणात् समभिरूढो नयः / यो घटशब्दवाच्योऽर्थस्तं कुटकुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः इति। यदुक्तं नियुक्तिकृता 'वत्थुओ संकमणं, होइ अवत्थु नए समभिरूढे' इति,तद्व्याख्यानार्थमाहदव्वं पज्जाओ वा, वत्थं वयणंतराभिधेयं जं। न तदन्नवत्थुभावं, संकमए संकरो मा भू // 2237 / / न हि सबंतरवचं, वत्थु सदंतरत्थतामेइ / संसयविवज्जएग-त्तसंकराइप्पसंगाओ / / 2238|| द्रव्य-कुटादि,पर्यायस्तु तद्गतो वर्णादिस्तल्लक्षणं प्रस्तुतघटादिवचनाद् यत्-कुटादि वचनान्तरं तदभिधेयं यद् वस्तु न तदन्यवस्तुभावं घटादिशब्दाभिधेयवस्तुभावं संक्रामति। कुतः? इत्याहवस्तुनो वस्त्वन्तरसंक्रमे मा भूत् संकरादिदोष इति / एतदेव भावयतिनहि शब्दान्तरवाच्यं वस्तु शब्दान्तरवाच्यार्थ-रूपतामेति / एवं हि घटादौ पटाद्यर्थसंक्रमे किमयं घटः पटादिवा? इति संशयः स्यात्, विपर्यया वा भवेत्, घटादावपि पटादिनिश्चयात, पटादौ वा घटाद्यध्यवसायादेकत्वं वा घटपटाद्यर्थानां प्राप्नुयात्; मेचकमणिवत् संकीर्णरूपता वा घटपटाद्यर्थानां भवेदिति। इयमत्र भावना-घटः कुटः कुम्भ इत्यादिशब्दात् पटस्तम्भादिशब्दादिव भिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थगोचरानेव समभिरूढनयो मन्यते; तथाहि-घटनादुघट इति विशिष्टचेष्टावानों घट इति गम्यते, तथा कुट' कौटिल्ये, कुटनात् कौटिल्ययोगात् कुटः, तथा 'उभ' 'उम्म' पूरणे, कुम्भनात् कुत्सितपूरणात कुम्भ इति भिन्नाः सर्वेऽपि घट-कुटाद्याः / ततश्च यदा घटाद्यर्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र संक्रान्तिः कृता भवति, तथा च सति यथोक्तसंशयादिदोष इति। ततो घटकुटाद्यर्थानां भेदसाधनायैव प्रमाणयन्नाहघडकुडसहत्थाणं, जुत्तो भेओऽभिहाण भेआओ। घडपडसद्वत्थाण व, तओन पञ्जायवयणं ति।।२२६६।। घटकुटकुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्परं युक्त इति / प्रतिज्ञा। अभिधानभेदाद--वाचकध्वनिभेदादिति हेतुः / घटपटस्तम्भादिशब्दवाच्यानामिवार्थानामिति दृष्टान्तः / तत एतदभिप्रायेण घटादेः कुटकुम्भकलशादिकं पर्यायवचनं नास्त्येव, एकस्मिन्नर्थेऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति। अतिक्रान्तशब्दनयशिक्षणार्थमाहधणिभेयाओ भेओ, ऽणुमओ जइ लिंग वयणमिन्नाणं / घडपडवचाणं पिव, घटकुडवचाण किमणिट्ठो // 2240 / / हन्त ! यदि लिङ्गवचनभिन्नानां घटपटस्तम्भादिशब्दवाच्यानामिवार्थानां ध्वनिमेदाद् भेदस्तवानुमतः, तर्हि घटकुटकुम्भकलशादिशब्दवाच्यानामर्थानां किमिति भेदा नेष्टः, ध्वनिभेदस्यात्रापि समानत्वात्। तस्मादस्मत्पथवर्तित्वं भवतोऽपि बलादापतितमिति। वसतिप्रस्थकादिविचारेऽप्यस्य पूर्वनयेभ्यो भेद / इति दर्शयन्नाहआगासे वसइ त्तिय, मणिए भणइ किह अन्नमन्नम्मि। मोत्तूणायसहावं, वसेज्ज वत्थु विहम्मम्मि? // 2241 / / वत्थु वसइ सहावे, सत्ताओ चेयणा व जीवम्मि। न विलक्खणत्तणाओ, मिन्ने छायातवे चेव / / 2252 / / 'क्वाऽसौ साध्वादिसति?' इति पृष्ठे 'लोकग्रामवस त्यादौ वसति' इति नैगमादिनयवादिनो वदन्ति / झजुसूत्रनयवादी तु वदति'यत्रावगाढस्तत्राकाशखण्डे वसति'। ततश्च ऋजुसूत्रेणैवं भणिते भणति समभिरूढः-नन्वात्मस्वभावं मुक्त्वा कथमन्यद् वस्त्वन्यस्मिन् विधर्मक आत्मविलक्षणे वस्तुनि वसेत् ? न कथञ्चिदित्यर्थः / तर्हि क्व वसति? इत्याह--सर्वमेव वस्त्वात्मस्वभावे वसति, सत्त्वात्, जीवे चेतनावत्। भिन्ने त्वात्मविलक्षणस्वरूपे वस्तुन्यन्यद्न वसति, यथा छायाऽऽतप इति। एष त्रयाणामपि शब्दनयानामभिप्राय इति। अथ प्रस्थकविचारमधिकृत्याहमाणं पमाणमिटुं,नाणसहावो स जीवओऽणन्नो। कह पत्थयाइभावं, वएज मुत्ताइरूवं सो।।२२४३।। नहि पत्थाइ पमाणं,घडो व्व भुवि चेयणाइ विरहाओ। केवलमिव तन्नाणं, पमाणमिट्ठ परिच्छेओ॥२२४४।। इह यमानं तत् प्रमाणमेवेष्टम्, प्रमीयते-परिच्छिद्यते वस्त्वनेनेति कृत्वा / प्रमाणं च परिच्छेदात्मकं जीवस्वभाव एव, स च जीवादनन्यः, अतः कथं मूर्तादिस्वभावम्, आदिशब्दादचेतनस्वभाव प्रस्थकादिस्वभावं व्रजेदसौ,येन नैगमादयः काष्ठमयं प्रस्थादिकमानमिच्छन्ति ? तर्हि शब्दनयानां किं प्रस्थकादि प्रमाणम्, किंवा न प्रमाणम् ? इत्याह-नहि-नैव काष्टघटितं प्रस्थादिकं प्रमाणम,चेतनादिरहितत्वात् घटपटलोष्टादिवत्; किंतु तस्यप्रस्थ करय ज्ञानं तज्ज्ञानं तदुपयोगस्तत्परिच्छेदः प्रमाण मानमिष्टम, तेनैव तत्त्वतः प्रमीयमाणत्वात्। 'परिच्छेया' इति पाठान्तरं वा, तेनैव परिच्छेदात्, केवलज्ञानवत्। तस्मात् प्रस्थकज्ञानमेव प्रस्थक इति स्थितम्।