________________ संसारमोयग 255 - अमिधानराजेन्द्रः - भाग 7 संसारसंचिट्ठणकाल पि सम्भवात,ततो न व्यापादनं पुण्यमनुभवतः कर्तुमुचितम। यद्येवमितरत्र कथं निश्चयः? इतरत्रापि संदेह एव तथाविधदुः-खितोऽपि यदि मार्यते तर्हि नरक दुःखानुभवभागी भवति, अमारितश्च सन् कदाचनापि प्रभूतसत्त्वव्यापादनेन पुण्यमुपायं विशिष्टदेवाधिभवभागी भवेत, ततो दुःखितानामपि व्यापादन न भवतो युक्तम् / एवं च सति सन्दिग्धानकान्तिकोऽपि हेतुः, व्यापादनस्य परिणामसुन्दरत्वसन्देहात् / यदप्युक्तम्- 'युष्म सिद्धान्तामुगं नारकस्वरूपोपदर्शकं वचः' इत्यादि, तदप्यसमीक्षिताभिधानं सम्यगरमत्सिद्धान्तापरिज्ञानाद, अस्मत्सिद्धातं ह्येवं नारकस्वरूपव्यावर्णनानारकाणां परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःखानां वा वेदनातिशयभावतः सम्मोहमुपागताना नातीव परत्र संक्लेशो यथाऽत्रैव केषाश्चिन्या-नवानां रूम्मूढानाम, यथा हि-मानवालकुटादिप्रहारजर्जरीकृत-शिरःप्रभृत्यवयवा वेदनातिशयभावतः सम्मूढचेतना नातीव परत्र संक्लिश्यमाना उपलभ्यन्त, तथा नारका अपि सदेव द्रष्टव्याः, ततः तथाविधतीव्रसंक्लेशाभावान् नारकाणां नाभिनवप्रभूततरपापोपचयः / यद्येव तर्हि सम्मोहो महोपकारी, तथाहि-सम्मोहवशान्न परत्रातीव संक्लेशः, तीव्रवेदनाभावतश्च प्रारबद्धपापकर्मपरिक्षयः सम्मोहश्च हिंसव्यापारादुपजायते, तता हिंसका महोपकारिण इति सिद्धमस्मत्समीहितम / तदयुक्तम्- हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मबन्धप्रसक्तः, न खलु पापस्य परपीडामतिरिच्यान्यन्निबन्धनमीक्षामहे / यदि स्यात्तर्हि मुक्तानामपि पापबन्धप्रसङ्गः, तेषामहिंसकत्वात्, ततः कथ मिव सचेतनो मनसाऽपि परं व्यापादयितुमुत्सहते ? इत्यलं पापचेताभिः सह प्रसङ्गेन। नं०। संसारविउस्सग्ग पुं० (संसारव्युत्सर्ग) ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीना त्यागे, औ० / नारकायुष्कादिहेतूनां मिथ्यात्वादीनां त्याग, भ०२ श०५ उ० / संसारवुड्डि स्त्री० (संसारवृद्धि) संसारपरिवृद्धौ,ही० 3 प्रका०। संसारवेइ पुं० (संसारवेदिन) यथावस्थितसंसारतत्त्वज्ञातरि, आचा० 1 श्रु० 5 अ०१ उ०। संसारसंचिट्ठणकाल पुं० (संसारसंस्थानकाल) संसारस्य भवाद् भवान्तरसारणलक्षणस्य संस्थानं भवस्थितिक्रिया तस्य काल:अवसरः संसारसंस्थानकालः। अमुष्य जीवस्यातीतकाले कस्यां कस्यां गतावत्रस्थाने, भ०। जीवस्स णं भंते ! तीतद्धाए आदिट्ठस्स कइविहे संसारसंचिट्ठणकाले पण्णते? गोयमा! चउविहे संसारसंचिट्ठणकाले पण्णत्ते,तं जहाणेरइयसंसारसंचिट्ठणकाले तिरिक्खजोणियसंसारसंचिट्ठणकाले मणुस्सजोणियसंसारसंचिट्ठणकाले देवजोणियसंसारसंचिट्ठणकाले य पण्णत्ते / नेरइयसंसारसंचिट्ठणकाले णं / भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहासुन्नकाले, असुन्नकाले, गिस्सकाले / तिरिक्खजोणियसंसारपुच्छा, गोयम ! दुविहे पण्णत्ते, तं जहा-असुन्नकाले य, मिस्सकाले य। मणुस्साण य, देवाण य जहा नेरइयाणं। एयस्स vणं भंते ! नेरइय-संसारसंचिट्ठणकालस्स सुन्नकालस्स असुन्नकालस्स मीसकालस्स य कयरे कयरेहिंतो अप्पा वा बहुए वा तुल्ले वा विसेसाहिए वा? गोयमा ! सव्वत्थोवे असुन्नकाले, मिस्सकाले अनंतगुणे, सुन्नकाले अणंतगुणे। तिरिक्खजोणियाणं भन्ते ! गोयमा ! सव्वथोवे असुन्नकाले, मिस्सकाले अणंतगुणे, मणुस्सदेवाण य जहा नेरइयाणं / एगस्स णं भन्ते ! नेरइयस्स संसारसंचिट्ठणकालस्स जाव देवसंसारसंचिट्ठण०जाव विसेसाहिए वा? गोयमा! सव्वत्थोवे मणुस्ससंसारसंचिट्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेज्जगुणे, देवसंसारसंचिट्ठणकाले असंखेज्जगुणे, तिरिक्खजोणिए अणंतगुणे। (सू०-२३) 'जीवरस ण' मित्यादि व्यक्तं. नवरं किंविधस्य जीवस्य? इत्याह-- आदिष्टस्य-अमुष्यनारकादेरित्येवं विशेषितस्य 'तीतद्धाए' त्ति-- अनादावतीत काले कतिविधः-उपाधिभेदात्कतिभेदः, संसारस्यभवाइवान्तरे संचरणलक्षणस्य संस्थानम्-अवस्थितिक्रिया तस्य कालः,-अवसरः संसारस्थानकालः, अमुष्य-जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत्? इत्यर्थः, अत्रोत्तरम्चतुर्विधः, उपाधिभेदादिति भावः। तत्र नारकभवानुगसंसारावरस्थानकालस्विधा-शून्यकालः, अशून्यकालो, मिश्रकालश्चेति / तिरश्वा शून्यकाला नास्तीति, तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति / आह च- "सुन्नासुन्नो मीसो, तिविहो संसारचिट्ठणाकालो। तिरियाण सुन्नवजो, सेसाणं होइ तिविही वि / / 1 / / " तत्राशून्यकालस्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानौ भविष्यत इति, तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्तन्ते तेषां मध्याद् यावन्न कश्चिदुद्वर्त्तत न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते। आह च-"आइडसमइयाण, नेरइयाणं न जाव एक्को वि। उव्वट्टइ अन्नो वा, उववज्जइ सो असुन्नो उ / / 1 / / " मिश्रकालरतु तेषामेव नारकाणा मध्यादे-कादय उवृत्ता, यावदेकोऽपि शेषस्तावन्मिश्रकालः / शून्यकालस्तु यदा त एवादिष्टसामयिका नारकाः सामस्त्येनोवृत्ता भवन्ति नैकोऽपि तेषां शेषोऽस्ति स शून्यकाल इति। आह च–“उव्वट्टे एकम्मि वि, ता भीसो धरइ जाव एक्को वि। निलविएहि सवेहि, पट्टमाणेहि सुन्नो उ / / 1 / " इदं च मिश्रनारक संसारावस्थानकालचिन्तासूत्रं न तमेव वार्त्तमानिकनारकभवगङ्गीकृत्य प्रवृत्तम, अपितु-वार्त्तमानिकनारकजीवानां गत्यन्तगमने तत्रवोत्पत्तिमाश्रित्य यदि पुनस्तमव नारकभवमङ्गीकृत्वेदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्ता न स्यात्। आह